कादम्बरी /693
This page has not been fully proofread.
६६०
कादम्बरी ।
[ कथायामक
च तमनेकचिह्नोत्पादितप्रत्ययमश्रद्धेयं च निरतिशयशोककारणं च विस्मयास्पदभूतं च दुःश्रवं
च कौतुककरं च युवराजवैशम्पायनयोर्वृत्तान्तमीषदिव विवर्तिताननो विमर्शस्तिमिततारकां
दृष्टिं निर्विशेषावस्थे शुकैनासमुखेऽभ्यपातयत् । सुहृदस्तु स्वयं दुःखिता अपि निधानीकृत्यात्म-
दुःखं सुहृद्दुःखापनोदायैव यँतन्ते । यतः शुकनासस्तदषस्थोऽपि स्वस्थवदवनिपतिमुवाच -
'देव, विचित्रेऽस्मिन्संसारे संचरत्सु सुखदुःखमयेषु देवासुरतिर्यग्योनिमानुषेषु, त्रिगु
णात्मनः प्रधानस्यापि पैरिणामात्, परमाण्वादेर्ब्रह्माण्ड पर्यन्तस्योत्पत्ति स्थितिप्रलयकारणस्येश्वर-
स्थेच्छया, धर्माधर्मसाधनानामिष्टानिष्टफलसंबन्धकारिणां कर्मणां वा शुभाशुभानां विपीक-
।
त्कृतं च निरवशेषं तत्सर्वमश्रौषीदा कर्णयामास । अनेकचिखैरनेकाभिज्ञानैरुत्पादितो जनितो निष्पादितः प्रत्ययो
विश्वासो यस्य स तम् । अश्रद्धेयं श्रद्धातुमयोग्यं च निरतिशयो भूयान्यः शोकः शुक् तस्य कारणं निदानं च विस्म-
यस्य कौतुकस्याश्चर्यस्यास्पदभूतं पात्रभूतं स्थानभूतं च दुःश्रवं च दुःखेन कष्टेनाकर्णनीयं च कौतुककरं च विस्म-
यकर चाश्चर्यकरं चैवंविधमेतादृशं युवराजवैशम्पायन
योर्वृत्तान्तमुदन्तं श्रुत्वा चाकर्ण्य चेषदिव विवर्तितं परायु-
खीकृतं पश्चान्मुखीकृतमाननं मुखं येन सः । राज्ञो विशेषणम् । विमर्शो विचारो वितर्कस्तेन स्तिमिता निश्चला
तारका कनीनिका यस्यामेवंविधामेतादृशीं दृष्टिं दृशम् । निर्गतो विशेषो यस्याः सा निर्गतविशेषा एवंविधावस्था
दशा यस्य स तथा तस्मिन् । स्वसदृशावस्थ आत्मसदृशावस्थे शुकनासस्य मुख आननेऽभ्यपातयदस्थापयत् ।
यतः कारर्णात्सुहृदस्तु स्वयं दुःखिता अप्यात्मदुःखं निधानीकृत्यै सुहृदां मित्राणां दुःखस्य कष्टस्यापनोदायैव
दूरीकरणायैव यतन्ते यत्नं कुर्वन्ति । अतः शुकनासस्तदवस्थोऽपि स्वस्थवन्निःशोकवदवनिपतिं राजानमुवाच ।
किं तदित्याह—देवेति । हे देव, विचित्रे बहुविधेऽस्मिन्संसारे संचरन्तैि परिभ्रमन्ति यानि यानि सुख-
दुःखानि तैर्निष्पन्नेषु तन्मयेषु देवा भवनपत्यादयः, असुरादयोऽधोवासिनः, तिर्यग्योनिकाः शुकादयः, मृत्यु-
लोके मानवा मनुष्या नराः, एतेषां द्वंद्वः । तेषु त्रिगुणाः सत्वरजस्तमोरूपास्त एवात्मा स्वरूपं यस्यैवंभूतस्य
प्रधानस्यापि मूलप्रकृतेराद्यस्वभावस्यापि परिणामात्परिणमनात्परमाणुर्निरवयवोऽवयवरहितः क्रियावान्स आदौ
प्रथमं यस्यैवंभूतस्य ब्रह्माण्डपर्यन्तस्योत्पत्तिर्जन्म । 'उत्पत्तिर्जन्मजनुषी' इति हैमः स्थितिरवस्थानं स्थिरीभवनं
प्रलयः क्षयो विनाश एतेषां सर्वेषां कारणस्य निदानभूतस्येश्वरस्य महादेवस्येच्छया कृत्या स्पृहया । धर्मोऽदृष्टं
तद्विपरीतोऽधर्मस्तयोः साधनानां कारणानां निमित्तभूतानामिष्टानिष्टे ईप्सितानीप्सिते वाञ्छितावाञ्छित फले
साध्ये तयोर्द्वयोः संबन्धकारिणां वा शुभाशुभानां कर्मणां विपाकभावाद्वा तदुदयावस्थानुभवनाद्वां, स्वयमेवात्मा-
टिप्प० – 1 द्विवचनमुचितम् । 2 भ्रष्टोयं पाठः । 'विस्मृत्याऽऽत्मदुःखम्' इत्येव पाठः । 3 प्रलाप
मिञं परित्यज्य वाक्यस्याशयं लिखामि पाठं च सूचयामि-संसारे संसरत्सु (कर्मबन्धाद्धमत्सु) देवादि
मानुषान्तेषु प्रधानस्य ( मूलप्रकृतेः, मूलप्रकृतिरविकृति : ० इत्यादिसांख्यलक्षितायाः ) परिणामात्
( विवर्तात् ), परमाणुमारभ्य ब्रह्माण्डपर्यन्तस्योत्पादयितुरीश्वरस्येच्छया, धर्माधर्मेत्यादिविशेषितानां
शुभाशुभकर्मणां विपाकात्, स्वभावाद्वा ( निसर्गाद्वा ) [ ततश्च - 'विपाकात् स्वभावाद्वा' इति पाठः । टी-
काकारेण द्वे चूर्णीकृत्य 'विपाकभावाद्वा' इति निर्मिताम्] स्वय मनेकप्रकारैः उत्पत्तिस्थितिविनाशाननुभवतः
स्थावरजङ्गमस्य सर्वाऽव्यवस्था संभवति ।
पाठा० -१ दृशम्. २ शुकनासे ३ न्यपातयत् ४ च. ५ दुःखं दुःखिताः ६ विस्मृत्य. ७ वर्तन्ते. ८ संचर-
सुखदुःखमयेषुः चरत्सु सुखदुःखमोहमयेषु ९ मनुष्येषु १० प्रधानस्य ११ परिणामादात्मन, १२ विपाकाद्वा;
विभावाद्वा; विपाकात्स्वभावाद्धा.
.