2023-11-22 13:56:01 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सर्वं वृत्तं श्रुत्वा राज्ञो मरणाध्यवसाय: ] उत्तरभागः ।
 
६५९
 
-
 
,
 
काष्ठानि काष्ठकाः' । किं तिष्ठतैवं संकुचिताः ककिनः ? गत्वा निष्कामयत हुताशनप्रवे-
शोपकरणानि । निष्कारणरुदितेन किम- धुना ? [^१]उपरोधपरिलम्बाद्विना दापयाशेषं देवि, द्वि-
जेभ्यः [^२]कोषम् । कस्य कृतेऽद्यापि पाल्यते ? पालनादिकं कर[^३]कर- णीयमधुना क्षीणं क्षीणपुण्यस्य
मे । [^४]यात यथाभूमिं भूमिपतयः । [^५] उत्सृष्टाः स्थ, यथा च नाद्यै [^६]वास्य दुःखं जानन्ति प्रजा-

स्तथा करिष्यथ । कथावशेषीभूतो मे वत्सः, कॅ[^७]कमपरं संविधाय यामि' एव [^८]मार्तप्रला-
पिनं तारापीडमचेतितात्मपीडया चिविलास- वत्यैव धृतशरीर [^९]मार्तत रस्त्वरितको [^१०]व्यज्ञापयत्-

[^११]
'देवै, स्फुटिते हृदये घिध्रियते शरीरेण युवराजः । शाप दोषा- द्वैशम्पायनस्य च यथा जन्म
तथा निरवशेष शृणोतु तावदेवः' इति ।
 

 
तारापीडस्तु तदद्भुतमाकर्ण्य कौतुकान्तरितशोकावेगो विगतनिमेषेण चक्षुषाऽऽविष्ट इव
दत्तावधानस्तेन कथ्यमानं यथादृष्टं यथाश्रुतं यथानुभूतं च निरवशेषं सत्सर्वमश्रौषीत् । श्रुत्वा
 

 
[ टि ]--
पैऽभ्यर्णे निकटे सपदि शीघ्रं परिचारकान्मृत्यान्सेवकांश्चि- ता या रचनं करणं तदर्थमादिशाज्ञां कुरु । झटिति शीघ्रं
भो काष्ठिका दारुरक्षकाः काष्ठरक्षणकारकाः, काष्ठान्येधांसि रचयत रचनां कुरुत गृहाकारेण गृहवद्रचनां कुरुत ।
भोः कम्युञ्चुकिनः । 'सौविदल्ला: कञ्चुकिनः स्थापत्याः सौविदाश्च ते' इति कोशः । एवं संकुचिताः संकोचं प्राप्ता
यूयं किं तिष्ठत स्थितिं कुरुत । गत्वा गमनं कृत्वा हुताशने वहावमौह्नावग्नौ यः प्रवेशः पतनं तत्रोपकरणानि यन्त्राणि
निष्कामयत बहिःकर्षणं कारयत । गृहाद्वःवह्ने: पूजासामग्री- मानयत समानयतेत्यर्थः । निष्कारणं निष्प्रयोजनं
रुदितेन विलपितेन किम् । न किमपीत्यर्थः । हे देवि, अमुनोप [^1]रोधेन यः परिलम्बो विलम्बस्तेन विनाशेषं
समग्रं कोशं भाण्डागारं द्विजा ब्राह्मणास्तेभ्यो दापय वितरणं कारय । अद्यापि कस्य कृते पाल्यते रक्ष्यते ।
अधुना सांप्रतं क्षीणपुण्यस्य क्षामश्रेयसो मे मम पालना- दिकं रक्षणादिकं क्षीणं रीणम् । भो भूमिपतयो वसुधा-
धीशा राजानः, यथाभूमि [^2]मात्मीयस्थलं यात व्रजत यूयमुत्सृष्टाः स्थ । लटि परस्मैपदे मध्यमपुरुषबहुवचनम् ।
यथा चाद्यैवास्य चन्द्रा- पीडस्य प्रजा दुःखं न जानन्ति नावबुध्यन्ते तथा यूयं करिष्यथ विधास्यथ । कथैव
वार्तैवावशेष उर्वरितांशो यस्य स तथा एवंभूतो मे मम वत्सश्चन्द्रापीडः । ततः कमपरमन्यमधीशं संविधाय
कृत्वा यामि प्रजामि । एवंप्रकारेणार्तं च प्रलापिनं चार्तप्रलापिनं तारापीड- मचेतिताऽज्ञातात्मपीडा स्वपीडा ययै-
वंविधया विलासवत्यैव धृतं धारितं शरीरं विग्रहो यस्य स तं नृपमार्ततरोऽतिपीडितस्त्वरितकः सेवको व्यज्ञाप-
यत् । किं तदित्याह – देवेति । हे देव, हृदये वक्षसि स्फुटितेऽपि पाटितेऽपि युवराजः [^3]शरीरेण प्ध्रियते
धार्यते । वैशम्पायनस्य च शापदोषादाक्रोशवचनदोषाद्यथा जन्म येन प्रका- रेणान्यत्रोत्पत्तिस्तथा निरवशेषं सर्
वं देवो भवांस्तावदादौ पूर्वं शृणो- त्वाकर्णयविति ।
 

 

 
तारापीडस्त्वद्भुतं चित्रमाकर्ण्य श्रुत्वा कौतुकेनाश्चर्येणान्तरितो ब्यव्य- वहितः शोकावेगो यस्य स तथा विगतनिमे-
षेण गतनिमेषोन्मेषेण चक्षुषा नेत्रेणात एवाविष्ट इव भूतग्रस्त इव दत्तमवधानं चित्तं येन सः । राज्ञो विशेष-
णम् । तेन त्वरितकेन कथ्यमानं निवेद्यमानं यथादृष्टं यथावीक्षितं निरीक्षितं यथाश्रुतं यथाकर्णितं यथानुभूतं साक्षा-
टिप्प० -

 
[^
1]F. 'पुरोध: ! (हे पुरोहित ) परिलम्बात् ( विलम्बात् ) विना' इत्येव पाठः ।
[^
2]F. ' यात
यथाभूमि (अव्ययीभावः ) भूमिपतयः' इत्येव पाठः ।
[^
3]F. नीचैः पाठो मध्यगतोस्ति । अर्थात् - 'देव
यथा त्वं हृदये संभावयसि न तथा, स्फुटितेपि हृदये धिध्रियते शरीरेण युवराजः' इति
 
पाठा० -

 
[^
]G. अवरोधपटलं दापय, पुरोध:परिलम्बाद्विना प्रविश्य दापय.
[^
]G. काशम् .
[^
]G. करणीयमेव.
[^
]G. यात
यथाभूमि भूमिपालः; यात यथाभूमिपतयः .
[^
]G. तथोत्सृष्टाः स्थः; दृष्टाः स्थ.
[^
]G. अस्य वा दुःखम्; अनाथतादुःखम्.

[^
]G. कथमपरं संविधाय यामि; कमपरं संबिविधापयामि . .
[^
]G. आर्तं प्रलपन्तं च.
[^
]G. आर्त:.
[^
१०]G. व्यशपत्. ज्ञपत्.
[^
११]G. देव, यथा
त्वं हृढ़ये संभावयसि न तथा,
 
.