कादम्बरी /692
This page has not been fully proofread.
सर्वं वृत्तं श्रुत्वा राज्ञो मरणाध्यवसाय: ] उत्तरभागः ।
६५९
-
,
काष्ठानि काष्ठकाः' । किं तिष्ठतैवं संकुचिताः ककिनः १ गत्वा निष्कामयत हुताशनप्रवे-
शोपकरणानि । निष्कारणरुदितेन किमधुना ? उपरोधपरिलम्बाद्विना दापयाशेषं देवि, द्वि-
जेभ्यः कोषम् । कस्य कृतेऽद्यापि पाल्यते ? पालनादिकं करणीयमधुना क्षीणं क्षीणपुण्यस्य
मे । यात यथाभूमिं भूमिपतयः । उत्सृष्टाः स्थ, यथा च नाद्यैवास्य दुःखं जानन्ति प्रजा-
स्तथा करिष्यथ । कथावशेषीभूतो मे वत्सः, कॅमपरं संविधाय यामि' एवमर्तप्रला-
पिनं तारापीडमचेतितात्मपीडया चिलासवत्यैव धृतशरीरमार्तत रस्त्वरितको व्यज्ञापयत्-
'देवै, स्फुटिते हृदये घियते शरीरेण युवराजः । शाप दोषाद्वैशम्पायनस्य च यथा जन्म
तथा निरवशेष शृणोतु तावदेवः' इति ।
तारापीडस्तु तदद्भुतमाकर्ण्य कौतुकान्तरितशोकावेगो विगतनिमेषेण चक्षुषाऽऽविष्ट इव
दत्तावधानस्तेन कथ्यमानं यथादृष्टं यथाश्रुतं यथानुभूतं च निरवशेषं सत्सर्वमश्रौषीत् । श्रुत्वा
पैऽभ्यर्णे निकटे सपदि शीघ्रं परिचारकान्मृत्यान्सेवकांश्चिताया रचनं करणं तदर्थमादिशाज्ञां कुरु । झटिति शीघ्रं
भो काष्ठिका दारुरक्षकाः काष्ठरक्षणकारकाः, काष्ठान्येधांसि रचयत रचनां कुरुत गृहाकारेण गृहवद्रचनां कुरुत ।
भोः कम्युकिनः । 'सौविदल्ला: कञ्चुकिनः स्थापत्याः सौविदाश्च ते इति कोशः । एवं संकुचिताः संकोचं प्राप्ता
यूयं किं तिष्ठत स्थितिं कुरुत । गत्वा गमनं कृत्वा हुताशने वहावमौ यः प्रवेशः पतनं तत्रोपकरणानि यन्त्राणि
निष्कामयत बहिःकर्षणं कारयत । गृहाद्वः पूजासामग्रीमानयत समानयतेत्यर्थः । निष्कारणं निष्प्रयोजनं
रुदितेन विलपितेन किम् । न किमपीत्यर्थः । हे देवि, अमुनोपरोधेन यः परिलम्बो विलम्बस्तेन विनाशेषं
समग्र कोशं भाण्डागारं द्विजा ब्राह्मणास्तेभ्यो दापय वितरणं कारय । अद्यापि कस्य कृते पाल्यते रक्ष्यते ।
अधुना सांप्रतं क्षीणपुण्यस्य क्षामश्रेयसो मे मम पालनादिकं रक्षणादिकं क्षीणं रीणम् । भो भूमिपतयो वसुधा-
धीशा राजानः, यथाभूमिमात्मीयस्थलं यात व्रजत यूयमुत्सृष्टाः स्थ । लटि परस्मैपदे मध्यमपुरुषबहुवचनम् ।
यथा चाद्यैवास्य चन्द्रापीडस्य प्रजा दुःखं न जानन्ति नावबुध्यन्ते तथा यूयं करिष्यथ विधास्यथ । कथैव
वार्तैवावशेष उर्वरितांशो यस्य स तथा एवंभूतो मे मम वत्सश्चन्द्रापीडः । ततः कमपरमन्यमधीशं संविधाय
कृत्वा यामि प्रजामि । एवंप्रकारेणार्तं च प्रलापिनं चार्तप्रलापिनं तारापीडमचेतिताऽज्ञात त्मपीडा स्वपीडा ययै-
विलासवत्यैव धृतं धारितं शरीरं विग्रहो यस्य स तं नृपमार्ततरोऽतिपीडितस्त्वरितकः सेवको व्यज्ञाप-
यत् । किं तदित्याह – देवेति । हे देव, हृदये वक्षसि स्फुटितेऽपि पाटितेऽपि युवराजः शरीरेण प्रियते
धार्यते । वैशम्पायनस्य च शापदोषादाक्रोशवचनदोषाद्यथा जन्म येन प्रकारेण न्यत्रोत्पत्तिस्तथा निरवशेषं सर्व
देवो भवांस्तावदादौ पूर्व शृणोत्वाकर्णयविति ।
。
तारापीडस्त्वद्भुतं चित्रमाकर्ण्य श्रुत्वा कौतुकेनाश्चर्येणान्तरितो ब्यवहितः शोकावेगो यस्य स तथा विगतनिमे-
षेण गतनिमेषोन्मेषेण चक्षुषा नेत्रेणात एवाविष्ट इव भूतग्रस्त इव दत्तमवधानं चित्तं येन सः । राज्ञो विशेष-
णम् । तेन त्वरितकेन कथ्यमानं निवेद्यमानं यथादृष्टं यथावीक्षितं निरीक्षितं यथाश्रुतं यथाकर्णितं यथानुभूतं साक्षा-
टिप्प० -1 'पुरोध: ! (हे पुरोहित ) परिलम्बात् ( विलम्बात् ) विना' इत्येव पाठः । 2 ' यात
यथाभूमि (अव्ययीभावः ) भूमिपतयः' इत्येव पाठः । 3 नीचैः पाठो मध्यगतोस्ति । अर्थात् - 'देव
यथा त्वं हृदये संभावयसि न तथा, स्फुटितेपि हृदये धियते शरीरेण युवराजः' इति ।
पाठा० -१ अवरोधपटलं दापय पुरोध:परिलम्बाद्विना प्रविश्य दापय. २ काशम् ३ करणीयमेव. ४ यात
यथाभूमि भूमिपालः; यात यथाभूमिपतयः ५ तथोत्सृष्टाः स्थः; दृष्टाः स्थ. ६ अस्य वा दुःखम्; अनाथतादुःखम्.
७ कथमपरं संविधाय यामि; कमपरं संबिधापयामि . ८ आर्त प्रलपन्तं च. ९ आर्त: • १० व्यशपत्. ११ देव, यथा
त्वं हृढ़ये संभावयसि न तथा,