2023-11-22 14:15:07 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६५८
 
कादम्बरी ।
 
[ कथायाम् -
 
यथावृत्तं कथयितुमारेभे । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदा [^१]कर्ण्यातिक्षुभित-
शोकार्णवाक्रान्तिविकृक्लवः प्रसार्य करमार्तस्वरत्वरितकमवादीत्
– 'भद्र, विरम संप्रति । कथितं

त्वया कथनीयम् । मयापि श्रुतं यच्छ्रोतव्यम् । पूर्णो मे प्रश्नदोहदः । निवृत्तं श्रवणकौतुकम् ।
कृतार्थीभूता श्रुतिः । आनन्दितं हृदयम् । उत्पन्ना प्रीतिः । सुखं स्थितोऽस्मि । हा वत्स, त्वयैका-
किना स्फुटतो हृदयस्यानुभूता वेदना । निर्व्यूढा त्वया वैशम्पायनस्योपरि प्रीतिः । वयं दुःख-
भागिनो निविंस्त्रिंशाः कर्मचाण्डालाः । येषां तनावापीदं [^२]हृदयस्फुटने निर्विकारमेव । देवि वज्र-
सारतोऽपि कठिनतर- मेवेदमावयोर्हृदयम् यन्न स्वयं सहस्रधा स्फुटति । न चापि मरणदु:-

मीभीरवोऽमी वत्समनुगच्छन्ति स्वयं प्राणाः । तदुत्तिष्ठ । यावदेवा-
तिदूरं न प्रयात्येकाकी
वत्सस्तावदेवानुगमनाय [^४]प्रयतामहे । सं[^५]सशोकं शुकनास, किमद्यापि तिष्ठसि । अयं स कालः
स्नेहस्य । महाकालायतनसमीपे समादिश सपदि परिचारकांश्चितारचनाय । [^६]रचयत झटिति
 
,
 

 
[ टि ]--
एवं कथितो [^1]राज्ञ आगमनं तस्मात्प्रभृति यथावृत्तं यथाचरणं यथाभूतं यज्जातं कथयितुं वक्तुमारेभे प्रारम्भं कृत-
वान् । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदाकर्ण्य सम्यदिङ्निशम्य श्रुत्वातिक्षुभितः क्षोभं प्राप्तो यः
शोकार्णवः शोकसमुद्रश्चिन्ता जल- निधिस्तस्याक्रान्तिराक्रमणं कम्पनं तेन विक्लवो विह्वलः करं हस्तं प्रसार्य विस्तार्य
हस्तप्रसारणं कृत्वार्तस्वरः करुणस्वरो दीनस्वर- स्त्वरितकं सेवकं प्रत्यवादीत् । हे भद्र, विरम विरतो भव ।
यत्क
यत्क- थनीयं कथनार्हं वक्तुं योग्यं तत्त्वया कथितमेव निवेदितमेव । यच्छ्रो- तव्यं श्रवणार्हं श्रवणयोग्यं तन्मयापि
श्रुतमेवाकर्णितमेव । मे मम प्रश्नदोहदोऽनुयोगश्रद्धा पूर्णः परिपूर्णो जात इत्यर्थः । श्रवणे श्रोत्र आकर्णने
कौतुकमाश्चर्य निवृत्तं स्थितम् । श्रुतिः श्रवणं कृतार्थीभूता कृतकृत्या जाता । निष्पादितानि समप्ग्रकृत्यानि । 'कर्ण-
शब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । आनन्दितं प्रमुदितं प्रहर्षितं हृदयं चेतः । उत्पन्ना संजाता
प्रीतिः स्नेहः प्रेम । सुखं स्थितोऽह- मस्मि अभद्रमुखे भद्रमुख इतिवत्सर्वत्र लक्षणया विपरीतार्थो बोध्यः ।
हा वत्स हा पुत्र हा सूनो, त्वयैकाकिनाऽसहायेन स्फुटतो द्वैधीभवतो हृदयस्य वक्षसो वेदना पीडा बाधानु-
भूता सेषिवितानुभव- विषयीकृता । त्वया भवता वैशम्पायनस्योपरि प्रीतिः स्नेहो निर्व्यूढा निर्वाहिता । आमरण-
पर्यन्तं पालिता इत्यर्थः । वयं दुःखभागिनः कृच्छ्रभजनशीलाः कष्टसेवनशीला निस्त्रिंशाः क्रूराः कर्मणा
चा

ण्डालाः श्वपचाः । येषामस्माकं तवापि भवतोऽपि हृदय [^2]स्फुटनं इदमस्मद्वक्षो निर्विकार विकाररहितं निरु-
द्रवम् । हे देवि हे पट्टराज्ञि, वज्रसारतः पविमध्यतोऽप्यावयोरिदं हृदयं वक्षः कठिनतरमेव परुषतरमेव यज्ञ
न्न स्वयमात्मना सहस्रधा सहस्रप्रका- रेण स्फुटति द्वैधीभवति । मरणदुःखाद्भीरवो भीरुका भयसहिता अभी प्राणा
असवो वत्सं पुत्रं चन्द्रापीडं न स्वयं नात्मनानुगच्छन्त्य- नुव्रजन्ति । तदिति । उत्तिष्ठोत्थानं कुरु । याव-
देवातिदूरमतिदविष्ठ- मनिकटं न प्रयात्येव न व्रजत्येव एकाकी वत्सस्तावदेवानुगमनाय पृष्ठे यानाय प्रयतामहे
[^3]प्रयत्नं कुर्महे । सशोकं शोकेन सह- वर्तमानं संशोकं यथा स्यात्तथा शुकनास, किमद्यापि तिष्ठस्यवस्थानं करोषि ।
अयं स कालः स्नेहस्य प्रीतेः । स्वयमात्मना महाकालाय-
तनसमीपे महाकालना मेश्वरचैत्यं शिवालयं तस्य सभी
 
टिप्प०
मी-
 
[^
1]F. राशःज्ञ: आगमनम् ? कीदृशस्य राज्ञः (न किल चन्द्रापीडो राजा) ? भागमनं च फीडकूकीदृक् ?
गमनम्, उत आगमनम् ? अस्तु. टीकाकारस्य तदिदं पुंगवस्वम् । 'स त्वेवमादिष्टशेटो राज्ञा, गमनतः प्रभृति
( चन्द्रापीडस्य इतः प्रस्थानमारभ्य ) यथावृत्तं कथयितु- मारेभे' इति पाठः ।
[^
2]F. वस्तुतः - 'येषां तवापि
हृदयस्फुटने निर्विकारमेवेदम्'
( इदम्, हृदयम् ) इति पाठः ।
[^
3]F. 'प्रयतावहे' इत्येव पाठः ।
[^
4]F. 'आः
(हा) शुकनास' इति पाठः ।
 
पाठा० -

 
[^
]G. आक्षुभित .
[^
]G. हृदयस्फोटने .
[^
]G. निर्विकारत्वमेवेदम् .
[^
]G. प्रयतावहे.
[^
]G. हा शुक्लास कनास.
[^
]G. उपनयत.