कादम्बरी /691
This page has not been fully proofread.
६५८
कादम्बरी ।
[ कथायाम् -
यथावृत्तं कथयितुमारेभे । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदाकर्ण्यातिक्षुभित-
शोकार्णवाक्रान्तिविकृवः प्रसार्य करमार्तस्वरत्वरितकमवादीत्
– 'भद्र, विरम संप्रति । कथितं
त्वया कथनीयम् । मयापि श्रुतं यच्छ्रोतव्यम् । पूर्णो मे प्रश्नदोहदः । निवृत्तं श्रवणकौतुकम् ।
कृतार्थीभूता श्रुतिः । आनन्दितं हृदयम् । उत्पन्ना प्रीतिः । सुखं स्थितोऽस्मि । हा वत्स, त्वयैका-
किना स्फुटतो हृदयस्यानुभूता वेदना । निर्व्यूढा त्वया वैशम्पायनस्योपरि प्रीतिः । वयं दुःख-
भागिनो निविंशाः कर्मचाण्डालाः । येषां तनापीदं हृदयस्फुटने निर्विकारमेव । देवि वज्र-
सारतोऽपि कठिनतरमेवेदमावयोर्हृदयम् यन्न स्वयं सहस्रधा स्फुटति । न चापि मरणदु:-
खमीरवोऽमी वत्समनुगच्छन्ति स्वयं प्राणाः । तदुत्तिष्ठ । यावदेवातिदूरं न प्रयात्येकाकी
वत्सस्तावदेवानुगमनाय प्रयतामहे । संशोकं शुकनास, किमद्यापि तिष्ठसि । अयं स कालः
स्नेहस्य । महाकालायतनसमीपे समादिश सपदि परिचारकांश्चितारचनाय । रचयत झटिति
,
एवं कथितो राज्ञ आगमनं तस्मात्प्रभृति यथावृत्तं यथाचरणं यथाभूतं यजातं कथयितुं वक्तुमारेभे प्रारम्भं कृत-
वान् । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदाकर्ण्य सम्यदिशम्य श्रुत्वातिक्षुभितः क्षोभं प्राप्तो यः
शोकार्णवः शोकसमुद्रश्चिन्ता जलनिधिस्तस्याक्रान्तिराक्रमणं कम्पनं तेन विक्लवो विह्वलः करं हस्तं प्रसार्य विस्तार्य
हस्तप्रसारणं कृत्वार्तस्वरः करुणवरो दीनस्वरस्त्वरितकं सेवकं प्रत्यवादीत् । हे भद्र, विरम विरतो भव ।
यत्कथनीयं कथनार्ह वक्तुं योग्यं तत्त्वया कथितमेव निवेदितमेव । यच्छ्रोतव्यं श्रवणार्ह श्रवणयोग्यं तन्मयापि
श्रुतमेवाकर्णितमेव । मे मम प्रश्नदोहदोऽनुयोगश्रद्धा पूर्णः परिपूर्णो जात इत्यर्थः । श्रवणे श्रोत्र आकर्णने
कौतुकमाश्चर्य निवृत्तं स्थितम् । श्रुतिः श्रवणं कृतार्थीभूता कृतकृत्या जाता । निष्पादितानि समप्रकृत्यानि । 'कर्ण-
शब्दहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । आनन्दितं प्रमुदितं प्रहर्षितं हृदयं चेतः । उत्पन्ना संजाता
प्रीतिः स्नेहः प्रेम । सुखं स्थितोऽहमस्मि । अभद्रमुखे भद्रमुख इतिवत्सर्वत्र लक्षणया विपरीतार्थो बोध्यः ।
हा वत्स हा पुत्र हा सूनो, त्वयैकाकिनाऽसहायेन स्फुटतो द्वैधीभवतो हृदयस्य वक्षसो वेदना पीडा बाधानु-
भूता सेषितानुभवविषयीकृता । त्वया भवता वैशम्पायनस्योपरि प्रीतिः स्नेहो निर्व्यूढा निर्वाहिता । आमरण-
पर्यन्तं पालिता इत्यर्थः । वयं दुःखभागिनः कृच्छ्रभजनशीलाः कष्टसेवनशीला निस्त्रिंशाः क्रूराः कर्मणा
चाण्डालाः श्वपचाः । येषामस्माकं तवापि भवतोऽपि हृदयस्फुटनं इदमस्मद्वक्षो निर्विकार विकाररहितं निरु-
पषम् । हे देवि हे पट्टराज्ञि, वज्रसारतः पविमध्यतोऽप्यावयोरिदं हृदयं वक्षः कठिनतरमेव परुषतरमेव यज्ञ
स्वयमात्मना सहस्रधा सहस्रप्रकारेण स्फुटति द्वैधीभवति । मरणदुःखाद्भीरवो भीरुका भयसहिता अभी प्राणा
असवो वत्सं पुत्रं चन्द्रापीडं न स्वयं नात्मनानुगच्छन्त्यनुव्रजन्ति । तदिति । उत्तिष्ठोत्थानं कुरु । याव-
देवातिदूरमतिदविष्ठमनिकटं न प्रयात्येव न व्रजत्येव एकाकी वत्सस्तावदेवानुगमनाय पृष्ठे यानाय प्रयतामहे
प्रयत्नं कुर्महे । सशोकं शोकेन सहवर्तमानं संशोकं यथा स्यात्तथा शुकनास, किमयापि तिष्ठस्यवस्थानं करोषि ।
अयं स कालः स्नेहस्य प्रीतेः । स्वयमात्मना महाकालायतनसमीपे महाकालना मेश्वरचैत्यं शिवालयं तस्य सभी
टिप्प० - 1 राशः आगमनम् ? कीदृशस्य राज्ञः (न किल चन्द्रापीडो राजा) ? भागमनं च फीडकू ?
गमनम्, उत आगमनम् ? अस्तु. टीकाकारस्य तदिदं पुंगवस्वम् । 'स त्वेवमादिष्टशे राज्ञा, गमनतः प्रभृति
( चन्द्रापीडस्य इतः प्रस्थानमारभ्य ) यथावृत्तं कथयितुमारेभे' इति पाठः । 2 वस्तुतः - 'येषां तवापि
हृदयस्फुटने निर्विकारमेवेदम्' ( इदम्, हृदयम् ) इति पाठः । 3 'प्रयतावहे' इत्येव पाठः । 4 'आः
(हा) शुकनास' इति पाठः ।
पाठा० -१ आक्षुभित २ हृदयस्फोटने ३ निर्विकारत्वमेवेदम् ४ प्रयतावहे. ५ हा शुक्लास ६ उपनयत.