This page has not been fully proofread.

राजा विलासवत्याः सान्त्वनम् ] उत्तरभागः ।
 
६५७
 
वदेव मनोरथशतवाञ्छितस्य वस्तुनो न संपन्नं यद्वधूसमेतस्य निजपदे प्रतिष्ठां कृत्वा तपोवने
न गैतम् । सर्वाभिवान्छितप्राप्तिस्तु महतः पुण्यराशेः फलम् । अपरमपि किं वृत्तं वत्सस्यै-
तेदद्याप्यपरिस्फुटं केनचिदेव न कथितम् । एतावत्तु मयाऽव्यक्तमेव तदैव परिजनात्कथयतः
कर्णे कृतम्, यथास्महतैलेखहारिभिः सहापरो वत्सस्य मे बालसेवकस्त्वरित कनामायातः ।
स वेत्ति सर्ववृत्तान्तम् । सोऽपि त्वया न पृष्ट एवेति । तेत्तं तु तावत्पृच्छामः । ततो जीवि-
तमरणयोरन्यतरदशीकरिष्यामः' इत्यभिवदत्येव राजनि परिजनान्तरितं त्वरितकमाहूय प्रती -
हारः 'त्वरितमारान्महीतलनिवेशितोत्तमाङ्गमा लोकयतु देवः' इति दर्शितवान् ।
 
राजा तु तथा तमालोक्य, चन्द्रापीडलेहात् 'एह्येहि इत्याहूय, हस्तेनोन्तमाङ्गे स्पृष्ट्वाऽऽदिष्ट-
वान् – 'भद्र, कथय किं वृत्तं वॅत्सस्य येनागमनाय मया तन्मात्राऽमात्येन च लिखितेऽपि ना-
S
 
यातः ? अनागमनकारणं वा किंचिन्न प्रतिलेखितवान्' इति । स त्वेवमाविष्टो रौजागमनतः प्रभृति
 

 
कारितस्य शिरो मस्तकं समाप्रातं चुम्बितम् । दिशामाशानां ककुभां विजय आत्मसात्करणमात्माधीनमात्म
सात्तस्मादागतस्य प्रणमतः प्रणामं कुर्वतो नमस्कारं क्रियमाणस्याङ्गानि परिष्वक्तान्यालिङ्गितानि संश्लेषितानि ।
परमेतावदेवैतदेव मनोरथशतेनाभिलाषशतेन वाञ्छितस्य बस्तुनो न संपन्नं न जातम् । कि तदित्याह-य-
दिति । वधूसमेतस्यास्य निजपदे खपदे प्रतिष्ठां स्थापनां कृत्वा तपोवने मुनिजनाश्रमे न गतं न प्राप्तम् । सर्व
सकलं समग्रं यदभिवाञ्छितमभिलषितं तस्य प्राप्तिश्च महतो गरीयसः पुण्यराशेः सुकृतसमूहस्य फलं साध्यम् ।
अतः समग्रपुण्याभावात्तन प्राप्तमिति भावः । अपरमप्यन्यदप्यन्यतरदपि वत्सस्य पुत्रस्य चन्द्रापीडस्य किं
वृत्तं किमाचरणं किं जातम् । एतदद्याप्यपरिस्फुटमप्रकटम् । यतः केनचिदेव पुंसा मे ममन कथितं न
निवेदितम् । तर्ह्यत्रागतं कथमित्याशयेनाह
- एतावदिति । एतावत्तु मयाऽव्यक्तमेवाप्रकटमेवास्फुटमेव तदैव
परिजनात्परिवारलोकात्समस्तपरिच्छदलोकात्कथयतो निवेदयतोऽन्योन्यम् । परस्परमिति शेषः । कर्णे कृतं
श्रवणे कृतं श्रोत्रे कृतम् । तदेव प्रदर्शयन्नाह – यथेति । अस्मत्प्रहितैर्लेखहारिभिः संदेशहारकैः सहापरो-
ऽन्यो मे सम वत्सस्य सुतस्य बालसेवक आ बाल्यासत्यतां गतस्त्वरितकनामायातः । सर्ववृत्तान्तं समग्रोदन्तं
स वेत्ति स जानाति सोऽपि त्वया भवत्या न पृष्टो न प्रश्नित एवेति । तत् तं तु तावदादौ पृच्छामः प्रश्नयामः ।
ततस्तदनन्तरं जीवितमरणयोरन्यतरदङ्गीकरिष्यामः स्वीकरिष्यामः । तज्जीविते जीवितं तन्मरणे मरणमिति
भावः । इत्यभिवदत्येवेति कथयत्येव राजनि तारापीडे' परिजनेन परिच्छदेनान्तरितं व्यवहितं त्वरितकनामानं
कुमारभृत्यं कुमार सेवकमाहूयाह्वानं कृत्वा निमन्त्रण कारयित्वा प्रतीहारो द्वारपालकस्त्वरितं शीघ्रमारात्समीपात्
'आराद्दूरसमीपयोः' इति हैमः । महीतले वसुधाधोभागे निवेशितं स्थापितमुत्तमाङ्गं शिरो येनैवंभूतमालोकयतु
पश्यतु देवो भवानिति दर्शितवानवलोकनं कारितवान् ।
 
राजा तु नृपस्त्ववनीपस्तु तथा तेन प्रकारेण तं त्वरितकमामानं सेवकमालोक्य विलोक्य निरीक्ष्य चन्द्रापीड-
स्य स्नेहात्प्रेम्णः प्रीतेः । एह्येह्यागच्छागच्छेत्याहूयेति निमन्त्र्य हस्तेन करेणोत्तमाने मस्तके शिरसि स्पृष्ट्वा स्पर्श
कृत्वादिष्टवान्कथितवानित्याह - हे भद्र, कथय ब्रूहि । वत्सस्य पुत्रस्य सूनोः किं वृत्तं किं जातं किमाचरणं
निष्पन्नं येन कारणेनागमनाय मया तन्मात्रामात्येन सचिवेन शुकनासेन मन्त्रिणा च लिखितेऽपि लिपीकृतेऽपि
नायातो नागतः । अनागमनकारणं वा न किंचित्प्रतिलेखितवानिति प्रतिलेखे लिपीकृतवानिति । स त्वेवमादिष्ट
 
टिप्प० - 1 कुर्वत इति वाव्यम् ।
 
पाठा०- -१ गन्तव्यम्. २ इत्येतत् ३ अत्र कथितं मे ४ तावत् ५ तत्तु; तं तु. ६ त्वरितकम्, ७ वत्सस्य मे.
८ चामायेन् च. ९ लिखिते आदिष्टेsपि, १० स नायात: • ११ राज्ञागममतः•
 
८३ का०