This page has not been fully proofread.

३६
 
कादम्बरी ।
 
[ कथामुखे-
1
 
रिगतेनामोदिना चन्दनवारिणा सिक्त शिशिरंमणिभूमिम्, अविरल विप्रकीर्णेन विमलमणिक-
ट्टिमगगनतलतारागणेनेव कुसुमोपहारेण निरन्तरनिचितम्, उत्कीर्णशालभञ्जिकानिवहेन संच
निहितगृहदेवतेनेव गन्धसलिलक्षालितेन कलधौतमयेन स्तम्भसंचयेन विराजमानम्, अति-
बहलागुरुधूपपरिमलम्, अखिलविगैलितजलनिवहधवलजलघरशकलानुकारिणा कुसुमामो
दवासितप्रच्छदपटेन पट्टोपधानाध्यासितशिरोभागेन मणिमयप्रतिपादुकाप्रतिष्ठितपादेन पार्श्व-
स्थरत्रपादपीठेन तुहिनशिलातलसदृशेन शयनेन सनाथीकृतवेदिकं भुक्त्वा स्थानमण्डपमया-
सीत् । तत्र च शेयने निषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्ग निहितासिलतया खड्गवा-
हिन्या नवनलिनदलकोमलेन करसंपुटेन संवाह्यमानचरणस्तत्कालोचित दर्शनैरवनिपतिभिर-
,
 

 
नाभिपरिगतेनामोदिना चन्दनवारिणा मलयजपानीयेन सिक्ता सिञ्चितात एव शिशिरा शीतला मणि-
भूमी रत्नबद्धा. भूर्यस्मिंस्तत्तथा । अवीति । अबिरलं घनतरं विप्रकीर्णेन पर्यस्तेन । विमलेति । विमल-
- मणीनां निर्मलरत्नानां यत्कुट्टिमं तत्र गगनतलतारागणेनेवाकाशस्थितनक्षत्रसमूहेनेव कुसुमोपहारेण
पुष्पप्रकरेण निरन्तरं सर्वकालं निचितं व्याप्तम् । स्तम्भेति । स्तम्भाः स्थूणास्तेषां संचयेन समुदायेन
विराजमानं शोभमानम् । स्तम्भसंचयं विशेषयन्नाह -- गन्धेति । गन्धसलिलैः सुगन्धिवारिभिः क्षालितेन
धौतेन । कलधौतं सुवर्णं तन्मयेन । अत्र विकारार्थे मयट् । उत्कीर्णेति । उत्कीर्यकृताः शालभञ्जिकाः पुत्रि-
कास्तासां निवहः समूहो यस्मिन्स तथा । केनेव । संनिहिताः समीपस्था गृहदेवता गृहाधिष्टाग्यो यस्मि-
भेवंभूतेनेव । 'गोस्त्रियोः -' इति पुंवद्भावः । अतीति । अतिबहलोऽतिप्रचुरो योऽगुरुः कृष्णागुरुस्तस्य
धूपस्य परिमलः सौगन्ध्यं यस्मिंस्तत्तथा । तुहिनेति । तुहिनं हिमं तस्य शिलातलं तत्सदृशं यच्छयनं
शय्या तेन । सनाथीकृता सहिता वेदिका संस्कृतभूमिर्यस्मिंस्तत्तथा । इतः शयनं विशेषयन्नाह – अखिलेति ।
अखिलः समग्रो विगलितो जलनिवहो नीरसमूहो यस्मिन्नेवंभूतो धवलः शुभ्रो जलधरो मेघस्तस्य शकलं
खण्डस्तमनुकारिणा तत्सादृश्यकरणशीलेन । कुसुमेति । कुसुमानां पुष्पाणामामोदः परिमलस्तन वासितो
भावितः प्रच्छदपट उत्तरच्छदो यस्मिंस्तत्तथा तेन । पट्टेति । पट्टस्य पदुकूलस्योपधानमुच्छीर्षकं तेनाध्या-
सितमधिष्ठितं शिरोधाम शिरःस्थलं यस्मिंस्तत्तथा तेन । मणीति । मणिमया मणिप्रचुराः प्रतिपादुका
अधःपीठानि तेषु प्रतिष्ठिताः स्थिताः पादा यस्य तत्तथा तेन । पार्श्वेति । पार्श्वस्थं समीपस्थं रत्नपा-
दपीठं मणिपादासनं यस्मिंस्तत्तथा तेन । अन्वयस्तु प्रागेवोक्तः । तत्र चेति । तत्र शयने निषण्ण उपविष्टो
राजा मुहूर्तमिव घटिकाद्वयमात्रमिवासांचक्रे सुष्वाप । इतो राजानं विशेषयन्नाह
– क्षितीति । क्षितितले
भूमितल उपविष्टया स्थितया तथोत्सङ्गे कोडे निहिता स्थापितासिलता खगलता ययैवंभूतया खजवाहिन्या नवं
नूतनं यन्नलिनं कमलं तस्य दलानि पत्राणि तद्वत्कोमलेन मृदुना करसंपुटेन हस्तसंपुटेन शनैः शनैः संवाह्य-
मानौ संचाल्यमानौ चरणौ पादौ यस्य स तथा तेन । तत्काल इति । तत्काले शयनकाल उचितं योग्यं
दर्शनमालोकनं येषामेतादृशैरवनिपतिभिर्नृपैरमात्यैः सचिवैर्मित्रैः सुहृद्भिस्तास्ताः प्रस्तावोचिताः कथा वार्ताः
कुर्वन्विदधत् । ततः कथासमायनन्तरं पूर्वोक्तां प्रतीहारीमित्यादिदेशाज्ञापयामास । कीदृशीम् । नातिदूरवर्तिनीं
टिप्प० - 1 भाकृता इत्युचितम् । 2 भामृष्यमाणौ । सुखकरं यथा स्यात्तथा आपीड्यमानौ
इत्यर्थः ।
 
पाठा - १ शिशिरकर. २ कुट्टिमं गगनतलम् ३ परिगलित ४ अध्यवसित ५ शिरोधाचा. ६ रखपीठेन;
रत्नमयपीठेन ७ तुहिनगिरि ८ सदृशशयनेन. ९ शयनतलनिषण्णः,