कादम्बरी /689
This page has not been fully proofread.
६५६
कादम्बरी ।
[ कथायाम्-
।
पीडस्य ततो न जीव्यन्त एव । किमर्थमयमात्मा वत्सस्य कृते सकललोकसाधारणेनामुना
वैकुव्योपगमेन तुच्छतां नीयते । इयन्ति शुभान्युपात्तानि कर्माणि । किमपरं क्रियते । नाधि-
कस्य भाजनं सुखस्य वयम् । अनुपात्तं हि हृदयताडनमपि कुर्वद्भिर्न लभ्यत एवात्रात्मे-
च्छया । विधिर्नामापरः कोऽप्यन्त्रास्ते । यत्तस्मै रोचते तत्करोति । नासौ कस्यचिदण्या
यत्तः । एवं च पराधीनवृत्तौ सर्वस्मिन्न किं वास्माभिर्लब्धम् । वत्सस्यातिदुर्लभो जन्मो-
त्सवः संभावितः । अङ्कगतस्य मुखमवलोकितम् । उत्तानशयस्योचुम्ब्य चरणावुत्तमाङ्गे
कृतौ । जानुसंचारिणो रेणुधूसरशरीरस्याङ्के लुलतः स्पर्शसुखमनुभूतम् । अव्यक्त मनोहारीणि
प्रथमजल्पितानि श्रोत्रे कृतानि । विचेष्ट॑मानस्य बालचाटवो दृष्टाः । गृहीतविद्यस्य गुणवत्त
यानन्दितं हृदयम् । उपारूढयौवनस्यामानुषी रूपशोभा शक्तिश्च प्रत्यक्षीकृता । अभिषि-
क्तस्य यौवराज्ये शिरः समाघातम् । दिग्विजयागतस्य प्रणमतः परिष्वक्तान्यङ्गानि । एता-
।
देवि, यदि सत्यमेवा वितथमेव किमपि वत्सस्य चन्द्रापीडस्यान्यादृशं वैरूप्यं ततो न जीव्यन्त एव प्राणा न
म्रियन्त एव । तर्हि किमर्थं निःप्रयोजनमयमात्मा जीवो वत्सस्य पुत्रस्य सूनोः कृते कार्ये सकललोकसाधारणेन
प्राकृतजनानुचीर्णेन पामरजन व्याप्तेनामुनानेन प्रत्यक्षोपलभ्यमानेन वैक्लव्योपगमेन विह्वलतोपगमेन विकलभा-
वोपनतेन तुच्छतां स्वल्पतां मीयते प्राप्यते नीचजनाचीर्ण मार्गाश्रयणादिति भावः । इयन्त्येतावन्ति शुभानि
कर्माण्युपात्तानि गृहीतान्यर्जितानि । अपरं द्वितीयमन्यत्किं क्रियते अस्माभिः, नाधिकस्य सुखस्य सौभाग्यस्य
वयं भाजनमास्पदं पात्रम् । हृदयताडनमपि कुर्वद्भिरात्मेच्छया । हि यस्मात्कारणादनुपात्तमना गृहीतमनुपा-
जितं न लभ्यत एव न प्राप्यत एव । नामेति कोमलामन्त्रणे । नाम निश्चयेन । विधिर्विधाता ब्रह्मा अपरो
द्वितीयः कोऽप्यत्रास्ते । यत्तस्मै विधये प्रजापतये रोचते रुचिविषयीभवति तत्करोति विदधाति निष्पादयति ।
नासौ विधिर्ब्रह्मा कस्यचिदप्यायत्तः पराधीनः किन्तु स्वायत्त एव । एवं च सर्वस्मिञ्जने सर्वस्मिल्लोके पराधी-
नवृत्तौ संत्यामस्माभिः किं न प्राप्तं किं न लब्धम् । अपि तु सर्वमेव सर्वस्वमेव प्राप्तं लब्धम् । एतदेव प्रद-
र्शयन्नाह – वत्सस्येति । वत्सस्य पुत्रस्य सुतस्य चन्द्रापीडस्याति दुर्लभोऽतिदुष्प्रापो जन्मोत्सव उत्पत्तिमहः
संभावितो विहितो निष्पादितः । अङ्कगतस्य मुखमवलोकितं वीक्षितं निरीक्षितम् । उत्तानशयस्योर्ध्वाननस्योच्चा-
स्यशयितस्यो चुम्ब्यो चुम्बनं कृत्वा चुम्बनं विधाय पादौ चरणावुत्तमाङ्गे शिरसि कृतो विहितौ निष्पादितौ ।
जामुना नलकीलेन संचारिणो गमनशीलस्य गमनस्वभावस्य, अत एव रेणुधूसरस्य धूलिम लिनस्य धूलिकर्दमि-
तस्याङ्के कोड उत्सङ्गे लुलतो लुठतः स्पर्शसुखं संश्लेषसातमा लिङ्गन सुखमनुभूतम् । अव्यक्तेनाप्रकटत्वेनास्फुट-
त्वेन मनोहारीणि चारूणि प्रथमंजल्पितान्याद्यभाषितानि पूर्ववाक्यानि श्रोत्रे कर्णे कृतानि धारितानि । विचे-
ष्टमानस्य क्रीडां कुर्वाणस्य बालचाटवः शिशुचाटूनि दृष्टा दृष्टिविषयीकृताः । 'चटु चाटु प्रियप्रायम्' इति हैमः ।
गृहीतविद्यस्य स्वीकृतकलाभ्यासस्य गुणवत्तया गुणस्वभावतया - हृदयमानन्दितं प्रमुदितं हर्षितम् । उपारूढयौ-
वनस्य प्राप्ततारुण्यस्य प्राप्तयौवनस्यामानुषी मनुष्येष्वसंभाविनी रूपशोभा सौन्दर्यश्रीमनोहरश्रीः शक्तिश्च तद-
नुयायि सामर्थ्य च प्रत्यक्षीकृता साक्षात्प्रत्यक्षादवलोकिता निरीक्षिता । यौवराज्ये कौमार्येऽभिषिक्तस्याभिषेकं
.
टिप्प० - 1 कोऽयं प्रलापः ? अस्तु. 'न जीव्यत एव' इति पाठः । यदि वत्सस्य अशुभं तर्हि न
जीव्यत एव, आवाभ्यामिति शेषः । 2 'सति' इति वक्तव्यम् । सत्सप्तम्यां लिङ्गवचनव्यत्ययेन सर्वत्रै-
वापराध्यति सोयम् ।
पाठा० - १ जीव्यते. २ नातोऽधिकस्य ३ उपात्तम् ४ हृदयस्य ५ वृत्ते. ६ च. ७ शरीरक. ८ ललतः;
लगत: • ९ मनोहराणि.