कादम्बरी /688
This page has been fully proofread once and needs a second look.
लनो [^१]द्वेल इव महाम्भोधिरुद्भ्रान्तचेताः ससंभ्रममुत्थायार्य
शुकनासद्वितीयो यामावस्थितां प्रजविनीं करेणुकामारुह्य रयादा- पिबन्निव पुरो राजमार्गं किं किमेतदित्युन्मुक्तार्तनादकलकलेन सर्वतः प्रधावता जनपदौघे [^२]नाकर्षन्निवो [^३]दवासयन्निव पृष्ठतः सगोपुराट्टालकप्राकारभवनतोरणामुज्जयिनीं निर्जगाम नरपतिः । उपेत्य [^४]चावन्तीमातृगृहमवतीर्य तिर्यग्विषण्णोद्बाष्प- वदनेन, मलयजजलैश्च सिञ्चता, कदलीदलैश्च वीजयता, जलार्द्रेश्च पाणिपल्लवैः संवाहनं कुर्वता, कथंकथमपि चेतनामापाद्यमानां परिजनेनार्धोन्मीलितलोचनयुगामुष्णकालकमलिनीमिव विलास- वतीमपश्यत् । दृष्ट्वा च सहसा प्रवृत्तेन नेत्राम्भसा मूर्च्छावशेषाप- नयनाये [^५]व सिञ्चन्समुपविश्य पार्श्वे स्पर्शामृतवर्षिणा करेण ललाटे चक्षुषि कपोलयोरुरसि बाह्वोश्च स्पृशञ्छनैः शनैर्बाष्पगद्गद- मवादीत् - 'देवि, यदि सत्यमेवान्यादृशं किमपि वत्सस्य चन्द्रा-
[ टि ]-- सवती परिजनेन तस्मिन्वृत्तान्त उदन्त आवेदिते ज्ञापिते सति, मन्दरस्य मेरोरास्फालनेमोदूर्ध्वं वेला यस्य सं उद्वेलो योऽब्धिः समुद्रस्तद्वदिव । क्वचित् 'आस्फालनेनोच्छलित इव' इति पाठः । उद्घान्तं चेतो यस्य सं तथा ससंभ्रमं सभयमुत्थायोत्थानं कृत्वा आर्यशुकनासो द्वितीयो यस्य स तथा । राज्ञो विशेषणम् । यामाव-
स्थितां चतुष्किकास्थितां प्रजविनीं प्रकृष्टवेगवतीं करेणुकां हस्ति-
नीमारुह्यारोहणं कृत्वा रयाद्वेगात्पुरोऽग्रे राजमार्गं श्रीपथमापिबन्नि- वापानं कुर्वन्निव । किं किमेतदित्युत्क्रान्त [^1]उत्थितो य आर्त- नादकलकलः शब्दः कोलाहलस्तेन सर्वतोऽभितः प्रधावता जन- पदौघेन नरसमूहेनाकर्षन्निवाकृष्टिं विदधन्निव । 'भवेज्जनपदो देशे जने जनपदेऽपि च ' इति विश्वः । पृष्ठतः सगोपुराट्टालप्राकार- भवन- तोरणाम् । तत्र गोपुरं प्रतोली, अट्टालकं प्राका
रामग्रस्थितरणगृहम्, प्राकारो वरणः, भवनानि गृहाः, तोरणानि प्रतीतानि, एतैः सह वर्तते या सा तामुज्ज.
यिनीं विशालामुदवासयन्निवोद्वै [^2]द्वशी कुर्वन्निवैवं- विधो नरपतिस्तारापीडो निर्जगाम निर्ययौ । नगर्या इति शेषः ।
अवन्तीमातृगृहमुपेत्य समीपमागत्य तिर्यगवतीर्योत्तीर्य विलासवतीं राजापश्यद्ददर्श । अर्धोन्मीलितं लोचन युगं
नेत्रयुग्मं नयनद्वन्द्वं यया सा ताम् । अर्धोन्मीलनसाम्यादुत्प्रेक्षते - उष्णकालकमलिनीमिव ग्रीष्मसमयपद्मिनी-
मिव । पुनः किं क्रियमाणाम् । कथंकथमपि महता कटेन चेतनां चैतन्यं सजीवत्वमापाद्यमानामुत्पाद्यमानाम् ।
केन । परिजनेन परिच्छदेन परिवारेण । परिजनं विशिनष्टि - विष- ण्णेति । विषण्णानि विलक्षाण्युद्वाष्पाण्यु-
दश्रूणि मुखान्यास्यानि यस्य स तेन । किं कुर्वता । मलयजं मलयभवं चन्दनं तस्य जलैः पानीयैश्च सिञ्चता
सेकं कुर्वता । पुनः किं कुर्वता । कदल्यो रम्भारस्तासां दलैः पर्णैः पत्रैर्वीजयता वातं कुर्वता । पुनः किं विद-
धता । जलार्द्रैः पानी- योन्नैः पाणिपल्लवैः कर किसलयैश्च संवाहनमङ्गमर्दनं कुर्वता । दृष्ट्वा च विलोक्य च सहसा
सद्यः प्रवृत्तेन प्रादुर्भूतेन प्रकटीभूतेन नेत्राम्भ- सा नयनाम्भसा नेत्राश्रुणा मूर्च्छाया अवशेष उर्वरितांशस्तस्या-
पनयपनय-नायेव दूरीकरणायेव सिञ्चन्पार्श्वे समीपे निकटेऽन्तिके समुपविश्या वस्थानं कृत्वा स्पर्श एवामृतं पीयूषं
वर्षतीत्येवंशीलेन करेण हस्तेन पाणिना ललाटेऽलिके भालस्थले, चक्षुषि नेत्रे, कपोलयोर्गल्लात्पर- प्रदेशयोः उरसि
हृदये वक्षसि बाह्वोश्च भुजयोश्च शनैः शनैः स्पृशन्स्पर्शशं कुर्वन्बाष्पगद्गदं यथा स्यात्तथावादी दवोचदब्रवीत् – हे
टिप्प० - [^]F.1 वस्तुतस्तु – 'उन्मुक्तार्तनादकलकलेन' इति पाठः । उन्मुक्तः प्रकटितः आर्तनादरूपः
कलकलो येन तादृशेन ।
[^2]F. कोऽयमुद्दवशीकारः ? धिक् । जनपदौघेन सगोपुरेत्यादि- विशेषणाम् 'उज्जयि-
नीम् आकर्षन्निव आवर्जयन्निव उदासयन्निव विपर्यासयन्निव नरपतिर्निर्जगाम, ' इति पाठोऽन्वयश्च । तत्र
आव- र्जयन्निव सहनयन्निव, उद्वासयन्निव वसतिशून्यां कारयन्निव, विपर्या- सयन्निव विपर्यस्तां कुर्वन्निवेत्यर्थः ।
पाठा० -
[^१]G. उद्वेलित: .
[^२]G. आवर्जयन्निव.
[^३]G. उदास्यन्विपर्यासयन्निव .
[^४]G. अवन्ति, .
[^५]G. एव.
शुकनासद्वितीयो यामावस्थितां प्रजविनीं करेणुकामारुह्य रयादा- पिबन्निव पुरो राजमार्गं किं किमेतदित्युन्मुक्तार्तनादकलकलेन सर्वतः प्रधावता जनपदौघे [^२]नाकर्षन्निवो [^३]दवासयन्निव पृष्ठतः सगोपुराट्टालकप्राकारभवनतोरणामुज्जयिनीं निर्जगाम नरपतिः । उपेत्य [^४]चावन्तीमातृगृहमवतीर्य तिर्यग्विषण्णोद्बाष्प- वदनेन, मलयजजलैश्च सिञ्चता, कदलीदलैश्च वीजयता, जलार्द्रेश्च पाणिपल्लवैः संवाहनं कुर्वता, कथंकथमपि चेतनामापाद्यमानां परिजनेनार्धोन्मीलितलोचनयुगामुष्णकालकमलिनीमिव विलास- वतीमपश्यत् । दृष्ट्वा च सहसा प्रवृत्तेन नेत्राम्भसा मूर्च्छावशेषाप- नयनाये [^५]व सिञ्चन्समुपविश्य पार्श्वे स्पर्शामृतवर्षिणा करेण ललाटे चक्षुषि कपोलयोरुरसि बाह्वोश्च स्पृशञ्छनैः शनैर्बाष्पगद्गद- मवादीत् - 'देवि, यदि सत्यमेवान्यादृशं किमपि वत्सस्य चन्द्रा-
[ टि ]-- सवती परिजनेन तस्मिन्वृत्तान्त उदन्त आवेदिते ज्ञापिते सति, मन्दरस्य मेरोरास्फालनेमोदूर्ध्वं वेला यस्य सं उद्वेलो योऽब्धिः समुद्रस्तद्वदिव । क्वचित् 'आस्फालनेनोच्छलित इव' इति पाठः । उद्घान्तं चेतो यस्य सं तथा ससंभ्रमं सभयमुत्थायोत्थानं कृत्वा आर्यशुकनासो द्वितीयो यस्य स तथा । राज्ञो विशेषणम् । यामाव-
स्थितां चतुष्किकास्थितां प्रजविनीं प्रकृष्टवेगवतीं करेणुकां हस्ति-
नीमारुह्यारोहणं कृत्वा रयाद्वेगात्पुरोऽग्रे राजमार्गं श्रीपथमापिबन्नि- वापानं कुर्वन्निव । किं किमेतदित्युत्क्रान्त [^1]उत्थितो य आर्त- नादकलकलः शब्दः कोलाहलस्तेन सर्वतोऽभितः प्रधावता जन- पदौघेन नरसमूहेनाकर्षन्निवाकृष्टिं विदधन्निव । 'भवेज्जनपदो देशे जने जनपदेऽपि च ' इति विश्वः । पृष्ठतः सगोपुराट्टालप्राकार
अवन्तीमातृगृहमुपेत्य समीपमागत्य तिर्यगवतीर्योत्तीर्य विलासवतीं राजापश्यद्ददर्श । अर्धोन्मीलितं लोचन
केन । परिजनेन परिच्छदेन परिवारेण । परिजनं विशिनष्टि - विष- ण्णेति । विषण्णानि विलक्षाण्युद्वाष्पाण्यु
पनय
[^2]F. कोऽयमुद्
[^१]G. उद्वेलित:
[^२]G. आवर्जयन्निव.
[^३]G. उदास्यन्विपर्यासयन्निव
[^४]G. अवन्ति
[^५]G. एव.