कादम्बरी /688
This page has been fully proofread once and needs a second look.
उत्तरभागः ।
६५५
प्रजविनीं करेणुकामारुह्य रयादापिबन्निव पुरो राजमार्ग किं किमेतदित्युन्मुक्तार्तनादकलक-
लेन सर्वतः प्रधावता जनपदोघेनाकर्षन्निवोदवासयन्निव पृष्ठतः सगोपुराट्टालकप्राकारभव-
नतोरणामुज्जयिनीं निर्जगाम नरपतिः । उपेत्य चावन्तीमातृगृहमवतीर्य तिर्यग्विषण्णोद्वाष्प-
वदनेन, मलयजजलैश्च सिञ्चता, कदलीदलैश्च वीजयता, जलार्द्रेश्च पाणिपल्लवैः संवाहनं
कुर्वता, कथंकथमपि चेतनामापाद्यमानां परिजनेनार्धोन्मीलितलोचनयुगामुष्णकालकमलि-
नीमिव विलासवतीमपश्यत् । दृष्ट्वा च सहसा प्रवृत्तेन नेत्राम्भसा मूर्च्छावशेषापनयनाये व
सिञ्चन्समुपविश्य पार्श्वे स्पर्शामृतवर्षिणा करेण ललाटे चक्षुषि कपोलयोरुरसि बाहोच
स्पृशञ्छनैः शनैर्बाष्पगद्गदमवादीत् - 'देवि, यदि सत्यमेवान्यादृशं किमपि वत्सस्य चन्द्रा-
सवती परिजनेन तस्मिन्वृत्तान्त उदन्त आवेदिते ज्ञापिते सति, मन्दरस्य मेरोरास्फालनेमोदूर्ध्वं वेला यस्य सं
उद्वेलो योऽब्धिः समुद्रस्तद्वदिव । क्वचित् 'आस्फालनेनोच्छलित इव' इति पाठः । उद्घान्तं चेतो यस्य सं
तथा ससंभ्रमं सभयमुत्थायोत्थानं कृत्वा आर्यशुकनासो द्वितीयो यस्य स तथा । राज्ञो विशेषणम् । यामाव
स्थितां चतुष्किका स्थितां प्रजविनीं प्रकृष्टवेगवतीं करेणुकां हस्तिनीमारुह्यारोहणं कृत्वा रयाद्वेगात्पुरोऽग्रे राजं-
मार्ग श्रीपथमा पिबन्निवापानं कुर्वन्निव । किं किमेतदित्युत्कान्त उत्थेितो य आर्तनादकलकलः शब्दः कोला-
हलस्तेन सर्वतोऽभितः प्रधावता जनपदौघेन नरसमूहेनाकर्षन्निवाकृष्टिं विदधन्निव । 'भवेजनपदो देशे जने
जनपदेऽपि च ' इति विश्वः । पृष्ठतः सगोपुराढालप्राकारभवनतोरणाम् । तत्र गोपुरं प्रतोली, अट्टालकं प्राका
रामस्थितरणगृहम्, प्राकारो वरणः, भवनानि गृहाः, तोरणानि प्रतीतानि, एतैः सह वर्तते या सा तामुज्ज.
यिनीं विशालामुदवासयन्निवोद्वैशी कुर्वन्निवैवंविधो नरपतिस्तारापीडो निर्जगाम निर्ययौ । नगर्या इति शेषः ।
अवन्तीमातृगृहमुपेत्य समीपमागत्य तिर्यगवतीर्योत्तीर्य विलासवतीं राजापश्यद्ददर्श । अर्धोन्मीलितं लोचन युगं
नेत्रयुग्मं नयनद्वन्द्वं यया सा ताम् । अर्धोन्मीलनसाम्यादुत्प्रेक्षते - उष्णकालकमलिनीमिव ग्रीष्मसमयपद्मिनी-
मिव । पुनः किं क्रियमाणाम् । कथंकथमपि महता कटेन चेतनां चैतन्यं सजीवत्वमापाद्यमानामुत्पाद्यमानाम् ।
केन । परिजनेन परिच्छदेन परिवारेण । परिजनं विशिष्टि - विषण्णेति । विषण्णानि विलक्षाण्युद्वाष्पाण्यु-
दश्रूणि मुखान्यास्यानि यस्य स तेन । किं कुर्वता । मलयजं मलयभवं चन्दनं तस्य जलैः पानीयैश्च सिञ्चता
सेकं कुर्वता । पुनः किं कुर्वता । कदल्यो रम्भारतासां दलैः पर्णैः पत्रैर्वीजयता वातं कुर्वता । पुनः किं विद-
धता । जलार्द्रैः पानीयोन्नैः पाणिपलवैः कर किसलयैश्च संवाहनमङ्गमर्दनं कुर्वता । दृष्ट्वा च विलोक्य च सहसा
सद्यः प्रवृत्तेन प्रादुर्भूतेन प्रकटीभूतेन नेत्राम्भसा नयनाम्भसा नेत्राश्रुणा मूर्च्छाया अवशेष उर्वरितांशस्तस्या-
पनयनायेव दूरीकरणायेव सिञ्चन्पार्श्वे समीपे निकटेऽन्तिके समुपविश्यावस्थानं कृत्वा स्पर्श एवामृतं पीयूषं
वर्षतीत्येवंशीलेन करेण हस्तेन पाणिना ललाटेऽलिके भालस्थले, चक्षुषि नेत्रे, कपोलयोर्गल्लात्परप्रदेशयोः उरसि
हृदये वक्षसि बाह्वोश्च भुजयोश्च शनैः शनैः स्पृशन्स्पर्श कुर्वन्बाष्पगद्दं यथा स्यात्तथावादी दवोचदब्रवीत् – हे
टिप्प० - 1 वस्तुतस्तु – 'उन्मुक्तार्तनादकलकलेन' इति पाठः । उन्मुक्तः प्रकटितः आर्तनादरूपः
कलकलो येन तादृशेन । 2 कोऽयमुद्दशीकारः ? धिक् । जनपदौघेन सगोपुरेत्यादि विशेषणाम् 'उज्जयि-
नीम् आकर्षन्निव आवर्जयन्निव उदासयन्निव विपर्यासयन्निव नरपतिर्निर्जगाम, ' इति पाठोऽन्वयश्च । तत्र
आवर्जयन्निव सहनयन्निव, उद्वासयन्निव वसतिशून्यां कारयन्निव, विपर्यासयन्निव विपर्यस्तां कुर्वनिवेत्यर्थः ।
पाठा० -१ उद्वेलित: २ आवर्जयन्निव. ३ उदास्यन्विपर्यासयन्निव ४ अवन्ति, ५ एव.