2023-12-05 11:03:41 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
कादम्बरी ।
[ कथायाम्-
नमवलोकयितुमुत्कण्ठितं मे हृदयम् । जात, दुर्लभक, न जानाम्येव किमाजन्मनः प्रभृति
शैशवं ते स्मृत्वात्मानमनुशोचामि उत यौवना- [^१]भोगकारिणीं [^२]वर्तमानां रूपशोभाम्, आहो-
स्विदवष्टम्भ- धीरामुत्प्रेक्ष्योत्प्रेक्ष्यागामिनीं प्रभुताम्' इति । एवं विलपन्तीं मामव- लोक्य हृद-
यस्थितो मैवं कृथा श्वेचेतसि पुत्र ! यथा विनापि मया जीव- त्येव विलासवती । जात, त्वया
विना जीवन्त्यापि [^३]पितुरेव ते कथं मया जवदनं दर्शितम् । न वेझि द्मि [^४]किमपि । प्रियतया ते,
किमाकृतेः प्रत्ययात्, उत स्त्रीजनसहभुवो मूढभावादेव इत्यद्यापि न श्रद्दधाति मे हृदयम-
निष्टं ते । येन न सहस्रधा स्फुटति । स्फुटी- कर्तुं च [^५]वार्तातां भीता ते त्वरितकोपनीता मेव
नेच्छामि । वरमना। वरमना- कर्णैवाश्रवणीयमुपरतास्मीति । तात, किं [^६]ब्रवीषि, यँ[^७]यथा किमभु [^८]ममुना सुत-
स्नेहा नुचितेन लोकलज्जाकरेण वैक्कुलव्येनेति । एषा स्थितास्मि ते वत्स, वचनात्तूष्णीम् । न
रोदिमि ।' इत्यभिधानै- वासन्नसखीजनावलम्बितशरीरा मोहमगमत् ।
अथामेकसहस्रसंख्येन प्रधावता विलासवतीपरिजनेनावे दिते तस्मिन्वृत्तान्ते, मन्दरास्फा-
६५४
[ टि ]-- जल्पतस्ते तव वदनं मुखमास्यमवलोकयितुं वीक्षिततु मुत्कण्ठितमुत्सुकं मे मम हृदयं चेतः । जात हे पुत्र, अप
त्यादिषु दुर्लभो दुःप्रापस्तस्य संबोधनं हे दुर्लभक, अहं न जानाम्येव न वेइद्म्येव । किमाजन्मनः प्रभृत्युत्पत्तेरा-
रभ्य प्रारभ्य ते तव शैशवं बाल्यं स्मृत्वा स्मरणं कृत्वा [^1]त्मानं स्वमनुशोचामि शोकविषयी- करोमि पश्चात्तापं
करोमि । उतितेति पक्षान्तरे । यौवनस्य तारुण्य-
स्याभोगो विस्तारस्तं करोतीत्येवंशीला सा तथा तां, वर्तमानां
संप्रति समय- वर्तिनीं रूपशोभां सौन्दर्यश्रियं स्मृत्वानुशोचामि । तथा । आहोखिस्वि दिति वितर्के । [^2]अवष्टम्भः प्रार-
म्भस्तेन धीरां स्थिरा- मागामिनी मेष्यत्कालभाविनीं प्रभुतामैश्वर्यमुत्प्रेक्ष्य विमृश्य विमृश्या- नुशोचामि । इत्येवं विल-
पन्तीं विलापं कुर्वन्तीं हृदयस्थितश्चित्तान्त- र्गतो मां विलासवतीमवलोक्य निरीक्ष्य मामैवं चेतसि कृथा व्यध- त्थाः ।
। किं तदित्याह -- यथेति । हे पुत्र, यथा मया विनापि चन्द्रा- पीडं विनापि विलासवती जीवत्येव । तर्हि मृता
कथं नेत्याशङ्काया- माह - जातेति । जात हे पुत्र हे वत्स, त्वया विना भवव्यतिरेकेण जीवन्त्यापि जीवनं
धारयन्त्यापि पितुरेव ते तव कथं मया वदनं मुखं दर्शितं दृग्विषयीकारितम् । अत्रार्थे हेतुमाह - न वेझीति ।
द्मीति । अहमत्र कारणं किमपि न वेद्मि न जाने संशयारूढत्वेन सम्यक्तया नाव- बुध्ये इत्यर्थः । एतदेव स्पष्टयन्नाह -
प्रियतयेति । ते तव प्रियतया वल्लभतया किमाकृतेराकारस्य प्रत्ययाद्विश्वासादुत स्त्रीजनस्य सहभुवः सहोत्प-
न्नस्य मूढभावादेवाज्ञानभावादेवेत्यद्यापि सांप्रतमपि ते तवानिष्टमशुभं मे मम हृदयं न श्रद्दधाति न श्रद्धत्ते ।
येन कृत्वा सहस्रधा सहस्रप्रकारेण न स्फुटति न स्फोटं प्राप्नोति । अहं भीता सती ते तव त्वरित केनोपनीतां
प्रापितामेव वार्तातां प्रवृत्तिं स्फुटीकर्तुं प्रकटीकर्तुं नेच्छामि नाभिलषामि । अश्रवणीयं श्रवणायोग्यमनाक- कर्ण्यैव
वमिति उपरतास्मि । हे तात, किं त्वमिति ब्रवीषि वदसि । यथा किं सुतस्ने हस्यानुचितेनायोग्येनामुना वैक्ल-
व्येन चैवैक्लव्यं विह्वलत्वं तेनेति । एषा विलासवती हे वत्स, ते तन वचनात्तूष्णीं मौनं स्थितास्मि । न रोदिमि ।
इत्यभिदधानैवेति ब्रुवाणैवासन्नः समीप-- वर्ती यः सखीजन आलिवर्गस्तेनावलम्बितमवधूधृतं शरीरं यस्याः सैवंविधा
मोहं मूर्च्छामगमदन्वगात् ।
-
अथेति । मूर्च्छागमनानन्तरमने कसहस्राणि संख्या यस्यैवंभूतेन प्रधावतेतस्ततस्त्वरितगत्या गच्छता विला-
टिप्प० --
[^1]F. 'आत्मनाऽनुशोचामि' इति पाठः ।
[^2]F. अवष्टम्भो धैर्यावलम्बो लोकावलम्बो वा तेन
स्थिराम्, इत्यर्थः ।
पाठा०-
।
-
[^१]G. हरिणीम्.
[^२]G. वर्तमानरूप, वर्तमान स्वरूप .
[^३]G. पुनरेवम् .
[^४]G. किमिति .
[^५]G. वार्ता ते त्वरितका सीद्भीतेव.
[^६]G. ब्रवीमि.
[^७]G. तथा.
[^८]G. अनेन स्नेहानुचितेन.
६