This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
नमवलोकयितुमुत्कण्ठितं मे हृदयम् । जात, दुर्लभक, न जानाम्येव किमाजन्मनः प्रभृति
शैशवं ते स्मृत्वात्मानमनुशोचामि उत यौवनाभोगकारिणीं वर्तमानां रूपशोभाम्, आहो-
स्विदवष्टम्भधीरामुत्प्रेक्ष्योत्प्रेक्ष्यागामिनीं प्रभुताम्' इति । एवं विलपन्तीं मामवलोक्य हृद-
यस्थितो मैवं कृथा श्वेतसि पुत्र ! यथा विनापि मया जीवत्येव विलासवती । जात, त्वया
विना जीवन्त्यापि पितुरेव ते कथं मया जदनं दर्शितम् । न वेझि किमपि । प्रियतया ते,
किमाकृतेः प्रत्ययात्, उत स्त्रीजनसहभुवो मूढभावादेव इत्यद्यापि न श्रद्दधाति मे हृदयम-
निष्टं ते । येन न सहस्रधा स्फुटति । स्फुटीकर्तुं च वार्ता भीता ते त्वरितकोपनीता मेव
नेच्छामि । वरमनाकर्णैवाश्रवणीयमुपरतास्मीति । तात, किं वीषि, यँथा किमभुना सुत-
स्नेहा नुचितेन लोकलज्जाकरेण वैक्कुव्येनेति । एषा स्थितास्मि ते वत्स, वचनात्तूष्णीम् । न
रोदिमि ।' इत्यभिधानैवासन्नसखीजनावलम्बितशरीरा मोहमगमत् ।
 
अथामेकसहस्रसंख्येन प्रधावता विलासवतीपरिजनेनावे दिते तस्मिन्वृत्तान्ते, मन्दरास्फा-
६५४
 
जल्पतस्ते तव वदनं मुखमास्यमवलोकयितुं वीक्षितमुत्कण्ठितमुत्सुकं मे मम हृदयं चेतः । जात हे पुत्र, अप
त्यादिषु दुर्लभो दुःप्रापस्तस्य संबोधनं हे दुर्लभक, अहं न जानाम्येव न वेइयेव । किमाजन्मनः प्रभृत्युत्पत्तेरा-
रभ्य प्रारभ्य ते तव शैशवं बाल्यं स्मृत्वा स्मरणं कृत्वात्मानं स्वमनुशोचामि शोकविषयीकरोमि पश्चात्तापं
करोमि । उतिपक्षान्तरे । यौवनस्य तारुण्यस्याभोगो विस्तारस्तं करोतीत्येवंशीला सा तथा तां, वर्तमानां
संप्रति समयवर्तिनीं रूपशोभां सौन्दर्यश्रियं स्मृत्वानुशोचामि । तथा । आहोखिदिति वितर्के । अष्टम्भः प्रार-
म्भस्तेन धीरां स्थिरामागामिनी मेष्यत्कालभाविनीं प्रभुतामैश्वर्यमुत्प्रेक्ष्य विमृश्य विमृश्यानुशोचामि । इत्येवं विल-
पन्तीं विलापं कुर्वन्तीं हृदयस्थितश्चित्तान्तर्गतो मां विलासवतीमवलोक्य निरीक्ष्य मामैवं चेतसि कृथा व्यधत्थाः ।
किं तदित्याह -- यथेति । हे पुत्र, यथा मया विनापि चन्द्रापीडं विनापि विलासवती जीवत्येव । तर्हि मृता
कथं नेत्याशङ्कायामाह - जातेति । जात हे पुत्र हे वत्स, त्वया विना भवव्यतिरेकेण जीवन्त्यापि जीवनं
धारयन्त्यापि पितुरेव ते तव कथं मया वदनं मुखं दर्शितं दृग्विषयीकारितम् । अत्रार्थे हेतुमाह - न वेझीति ।
अहमत्र कारणं किमपि न वेद्मि न जाने संशयारूढत्वेन सम्यक्तया नावबुध्ये इत्यर्थः । एतदेव स्पष्टयन्नाह -
प्रियतयेति । ते तव प्रियतया वल्लभतया किमाकृतेराकारस्य प्रत्ययाद्विश्वासादुत स्त्रीजनस्य सहभुवः सहोत्प-
नस्य मूढभावादेवाज्ञानभावादेवेत्यद्यापि सांप्रतमपि ते तवानिष्टमशुभं मे मम हृदयं न श्रद्दधाति न श्रद्धत्ते ।
येन कृत्वा सहस्रधा सहस्रप्रकारेण न स्फुटति न स्फोटं प्राप्नोति । अहं भीता सती ते तव त्वरित केनोपनीतां
प्रापितामेव वार्ता प्रवृत्तिं स्फुटीकर्तुं प्रकटीकर्तुं नेच्छामि नाभिलषामि । अश्रवणीयं श्रवणायोग्यमनाकण्यैव
वमिति उपरतास्मि । हे तात, किं त्वमिति ब्रवीषि वदसि । यथा किं सुतस्ने हस्यानुचितेनायोग्येनामुना वैक्ल-
व्येन चैक्लव्यं विह्वलत्वं तेनेति । एषा विलासवती हे वत्स, ते तन वचनात्तूष्णीं मौनं स्थितास्मि । न रोदिमि ।
इत्यभिदधानैवेति ब्रुवाणैवासन्नः समीपवर्ती यः सखीजन आलिवर्गस्तेनावलम्बितमवधूतं शरीरं यस्याः सैवंविधा
मोहं मूर्च्छामगमदन्वगात् ।
 
-
 
अथेति । मूर्च्छागमनानन्तरमने कसहस्राणि संख्या यस्यैवंभूतेन प्रधावतेतस्ततस्त्वरितगत्या गच्छता विला-
टिप्प० -- 1 'आत्मनाऽनुशोचामि' इति पाठः । 2 अवष्टम्भो धैर्यावलम्बो लोकावलम्बो वा तेन
स्थिराम्, इत्यर्थः ।
 
पाठा०-

 
-१ हरिणीम्. २ वर्तमानरूप, वर्तमान स्वरूप ३ पुनरेवम् ४ किमिति ५ वार्ता ते त्वरितका सीतेव.
ब्रवीमि. ७ तथा. ८ अनेन स्नेहानुचितेन.