This page has not been fully proofread.

अशुभमनुमाय तस्या विलापः ]
 
उत्तरभागः ।
 
'किर्मपरमयं तपस्वी निवेदयिष्यति ? दूरतः प्रभृत्यपसृतप्रहर्षेणैवोपसर्पणेन, प्रतिलेख-
मालिकाशून्यैः 'शिरोभिः आविषण्णदीनैराननैः प्रयत्नसंरक्षिताश्रुमोक्षदुःखिताभ्यां लोच-
नाभ्याम्, मॅन्मुखसमक्षमधारणेन च दृष्टेर्यदावेदितव्यं तद्भवद्भिरेवावेदितम् । हा वत्स,
जगदेकचन्द्र, चन्द्रापीड, चन्द्राननं, चन्द्रशीतलप्रकृते, चन्द्राभिरामगुण, लोचनानन्दभूत,
किंभूतं ते येन नागतोऽसि ? तात चन्द्रापीड ? पीडिता ब्रवीमि न कोपादुपालभमाना-
न युक्तमेतत्तव 'अम्ब, न परिलम्बं मनागपि करोमि' इति तथा मे पुरः प्रतिज्ञायान्यत्र काव्य-
वस्थातुम् । वत्स गच्छत एव ते मयाऽस्य हतहृदयस्य शङ्कयैव ज्ञातं दुष्करं मे वत्सस्य
पुनर्मुखावलोकन मिति । बलागतोऽसि । किं करोमि । को वात्र दोषो वत्सस्य । मन्दभा-
ग्याया ममैवैतान्यपुण्यानां विलसितानि भवन्त्यर्पुण्यवत्योऽपि लोके न पुनर्मया सदृशी
पापकारिणी, यस्यास्त्वमेक एवमकाण्ड एवँच्छिद्य कापि नीतोऽसि । विप्रलब्धास्मि दुग्ध-
वेधसा। वत्स, सुदूरस्यापि पादयोः पतामि ते । निवर्तस्यैकवारम् । अम्बेत्यालपतस्ते वद-

 
६५३
 
किमपरमन्यदयं तपस्वी वराकः । शोच्य इति यावत् । निवेदयिष्यति । दूरतः प्रभृति दूरादारभ्यापसृतो
दूरीभूतः प्रहर्षो यस्मादेवंभूतेनोपसर्पणेन समीपागमनेन प्रतिलेखानां ततः प्रहितपत्राणां मालिक शून्यैः स्रग्रहितैः
शिरोभिरुत्तमाङ्गैरासमन्ताद्विषण्णानि विलक्षाणि च दीनानि दुःखितानि च विषण्णानि दीनान्येवंभूतैरान नैर्मुखः,
प्रयत्नेनोद्यमेन संरक्षितमश्रुमोक्षणं तेन दुःखिताभ्यां लोचनाभ्यां नयनाभ्यां नेत्राभ्यां, दृष्टेशो मन्मुखसमक्षं
यदधारणमस्थापनं तेन च यदावेदितव्यं निवेदनाईं तत्सर्वं भवद्भिरावेदितं कथितम् । हा इति खेदे । हे वत्स
हे पुत्र, हे जगति लोक एकोऽद्वितीयश्चन्द्र, हे चन्द्रापीड । चन्द्रवदाननं मुखं यस्य तस्य संबोधनम् । चन्द्र
वच्छीतला शिशिरा प्रकृतिः स्वभावो यस्य तस्य संबोधनम् । चन्द्रवदभिरामा उज्ज्वला गुणा यस्य तस्य संबोधनम् ।
लोचनानां नेत्राणामानन्दभूतः प्रमोदभूतस्तस्य संबोधनम् । ते तव किं भूतं किं जातं येन हे तात हे पुत्र,
चन्दापीङ, त्वं नागतोऽसि नायातोऽसि । 'तातः पितरि पुत्रे च' इत्यनेकार्थः । पीडिताहं ब्रवीमि । न कोपा-
त्क्रोधादुपालभमानोपालम्भं ददाना । किं कथितवतीत्याह – न युक्तमिति । हे अम्ब हे मातः, न परिलम्बं
विलम्ब मनागपि करोमीति तथा तेन प्रकारेण पुरोऽग्रे प्रतिज्ञाय प्रतिज्ञां कृत्वान्यत्रान्यस्मिन्स्थले क्काप्येवमव-
स्थातुं न युक्तमेतत् । हे वत्स हे पुत्र, ते तव गच्छत एव व्रजत एव मयास्य हृतहृदयस्य हृतचेतसः शङ्कयैवा-
रेकयैवेति ज्ञातमवगतम् । इतिज्ञाप्यमाह - दुष्करमिति । दुष्करं कठिनं मे वस्सस्य पुनर्मुखावलोकन मिति
वक्रनिरीक्षणमपि । बलाद्धठात्त्वं गतोऽसि । किं करोम्यहम् । अत्र वत्सस्य पुत्रस्य को वा दोषोऽपराधः ।
मन्दभाग्यायाः स्वल्पदैवाया ममैवापुण्यानामश्रेयसामेतानि विलसितानि विचेष्टितानि । लोकेऽपुण्यवत्योऽपि
भवन्तिं नार्यः । न पुनर्मया सदृशी पापकारिणी । तत्रार्थे हेतुमाह - यस्या इति । यस्या विलासवत्यास्त्वमेक
एवमकाण्ड एवाप्रस्ताव एवाच्छिद्योद्दाल्य काप्यनिर्वचनीयस्थले नीतोऽसि प्रापितोऽसि । दग्धवेधसा ज्वलित-
विधात्राहं विप्रलब्धास्मि वञ्चितास्मि । 'विप्रलब्धस्तु वञ्चितः' इति हैमः । हे वत्स, सुदूरस्याप्यतिदविष्ठस्यापि
ते तव पादयोश्चरणयोः पतामि पतनं करोमि नमस्करोमि । एकवार निवर्तस्त्र पश्चादागच्छ । अम्बेयालपतो
 
टिप्प० – 1 'आविषण्णदूनैः (दुःखितैः ), ' इति पाठः । 2 ' किंभूतं ते येन नागतोसि ।' इति पृथ-
ग्वाक्यम् । 'तात चन्द्रापीड पीडिता ब्रवीमि न कोपा०' इत्यादि पृथग्वाक्यम् । 3 'अपुण्यवत्योऽपि -
भवन्तु, न पुनर्मया सदृशी' इति पाठः ।
 
पाठा० - १ परतरम्. २ अकृत; अनुगत ३ दुःखिताभ्याम् ४ मन्मुखसमवधारणेन. ५ आयासि; आयातोऽसि,
६ अपुण्यवन्त्यः. ७ अवच्छिद्य. ८ दूरं गतस्यापि.
 
\