This page has not been fully proofread.

६५२
 
[ कथायाम्-
तथा गत्या
 
गच्छतश्चातिमलिनपटचराच्छादितानसंस्कारम लिनकायानने कोद्वद्धा ध्वधूलिपरुष-
मूर्धजान्, ध्वजानिवाध्वक्लेशस्य, आश्रयानिव श्रमस्य, पदन्यासानिव दौर्मनस्यस्य, आवा
सानिव प्रवासस्य, संदर्भानिव सर्वदुःखानाम् दूरत एव त्वरितकसमेतांस्ताँल्लेखहारकान् ।
आलोक्य च तस्मिन्नेव मातृगृहाङ्गणे स्थिता तेषामाहानायादिदेश ।
 
कादम्बरी ।
 
-
 

 

 
अनन्तरं चातर्कितापतितदर्शन द्विगुणित दुःखावेगान्मुषितानिव, उन्मुक्तानिवेन्द्रियैः, दारु-
मयानिव शून्यशरीरान्, निर्जीवानिवोपसर्पतः पुरस्तात्पतन्तीव बाष्पान्धा साध्वसस्खलित-
चरणकमला कतिचिद्गत्वा पदानि, गेंद्गदतरमुच्चैरकृतप्रणामानेवावादीत् - 'भद्राः कथय-
ता वत्सस्य मे वार्तामात्रम् । इदं त्वन्यथैव किर्मपि कथयति मे हृदयम्, अप्रत्ययमेवाश्र-
यते । वत्सो दृष्टो वा न भवद्भिः ?' इत्येवं पृष्टास्तु ते सहसागतबाष्प वेगम व निनिवेशितो-
त्तमाङ्गाः प्रणामापदेशेनोत्सृज्य कृच्छ्रादिवाभिमुखमुन्नमितवंदना व्यज्ञापयन्– 'देवि,
दृष्टोऽस्माभिरच्छोदसरस्तीरे युवराजः । शेषमेष त्वरितको मितेदयिष्यति ।' इत्यभिवदत
एव तानुद्राष्पमुखी प्रत्युवाच
-
 
-
 
उद्योग स्तेनायासितयायासं प्राप्तया गत्या गच्छतो व्रजतोऽतिमलिनं यत्पटच्चरं जीर्णवेस्त्रम् । 'पटच्चरं जीर्णवस्त्रं
समौ नक्तककर्पटौ' इत्यमरः । असंस्कारेणानधिवासनेन मलिनो मलाक्रान्तः कायो येषां तान् । अनेका विविधा
उत्प्राबल्येन बद्धा लग्ना अध्वधूलयो मार्गरेणवस्ताभिः परुषाः कठिना मूर्धजाः केशा येषां ते तथा तान् । लग्न-
धूलिसाम्यादुत्प्रेक्षते - अध्वक्लेशस्य मार्गखेदस्य ध्वजानिव चिह्नानीव । 'ध्वजश्चि पताकार्यै ध्वजः शौण्डि-
कशेफसोः' इति विश्वः । श्रमस्याश्रयानिवाधारानिव, दौर्मनस्यस्याप्रसन्नचित्तस्य पदन्यासानिव, प्रवासस्य पर-
देशगमनस्यावासा निवालयानिव, सर्वदुःखानां संदर्भानिव गुम्फानिव ।
 
M
 

 
अनन्तरं चेति । तदाह्वानानन्तरमतर्कितमचिन्तितमापतितं संजातं यद्दर्शनमवलोकनं तेन द्विगुणितो दुःखा•
वेगो येषां ते तथा तान् । मुषितानिव चौरैर्लुण्ठितानिव, इन्द्रियैः करणैरुन्मुक्तानिव त्यक्तानिव, दारुमयानिव
काष्ठनिर्मितानिव शून्यशरीरान्, निर्जीवानिव विगतात्मन इव, उपसर्पतः समीप आगच्छतः पुरस्तात्पतन्तीव
सन्तीव बाप्पेणाश्रुणान्धा गताक्षा साध्वसं भयं किं कथयिष्यन्त्येत इति वितर्कजनितं तस्मात्स्खलितं स्खलन
प्राप्तं चरणकमलं यस्याः सा तथा कतिचित्पदानि गत्वा गद्गदतरं यथा स्यात्तथा उच्चैर्बाढखरेणाकृतप्रणामाने-
वाविहितनमस्कारानेव तानवादीत् । भद्राः, यूयमाशु शीघ्रं मे मम वत्सस्य वार्तामात्रं कथयत । इदं तु मे
मम हृदयं चेतोऽन्यथैव किमपि कथयत्यप्रत्ययमेवाविश्वासमेवाश्रयते । मे मम वत्सो दृष्टोऽवलोकितो भवद्भि-
र्युष्माभिर्न वेति । इत्येवं पृष्टास्तु ते लेखहारकाः सहसैव सद्य एवागतो बाष्पवेगो यथा स्यात्तथावनौ निवेशितं
स्थापितमुत्तमाङ्गं शिरो यैस्ते तथा प्रणामापदेशेन नमस्कृति मिषेणोत्सृज्य कृच्छ्रादिव कष्टादिवाभिमुखं संमुखमु
नमितमुच्चैः कृतं वदनं यैस्ते तथा व्यज्ञापयन्विज्ञप्तिं चक्रुः । किं कथयामासुरित्याकाङ्क्षायामाह -- देवीति । हे
देवि, अच्छोदसरस्तीरेऽस्माभिर्युवराजो दृष्टः । शेषमवशिष्टमेष त्वरितको युवराजभृत्यो निवेदयिष्यति कथयि
व्यति इत्यभिवदत एवेति ब्रुवत एव तानुदूर्ध्वं बाष्पो नेत्राम्बु यस्मिन्नेवंभूतं मुखमाननं यस्याः सा विलासवती
प्रत्युवाच प्रत्यब्रवीत् ।
 
टिप्प० - 1 तेन आच्छादितान् संवीतानित्यर्थो बोध्यः । 2 किंम् उत्सृज्य ? अन्वये चस्खाल
वराकः । सहसाssगतं बाष्पवेगं प्रणामापदेशेनोत्सृज्य इत्यन्वयः ।
 
पाठा० - १ अनेक धैवोद्धद्ध: २ आश्रमानिव; श्रमस्यावासानिव ३ अदूरतः ४ पतन्ती ५ चरणानि.
६ सगद्गदस्वरम्. ७ वार्ताम्. ८ कथमपि करोति मे हृदयम् ९ भियते मम वत्सो दृष्टो वा भवद्भिः १० उप-
सृत्य उपसृज्य. ११ व्यशापयन्