This page has not been fully proofread.

देवमन्दिरे विलासवत्या दूतानामाह्वानम् ] उत्तरभागः ।
 
६५१
 
क्षामहे महानश्ववारैरनुभूतः क्लेश इति । कुशलं महाश्वपतेरश्वसेनस्य ? श्वशुरोऽसावस्माकम् ।
विस्मयः कृतोऽस्मत्पित्रापि, यचिह्नकमपि भवतां हस्ते न किंचित्प्रहितम् । आहितभर एवासौ
युवराजभवने दृष्टो भवद्भिता मे भरतसेनः ? सपरिजनस्य सेनापतेर्भद्रं भद्रसेनस्य ?
सेवाव्यसनी सूनु कुमारवर्मा । तंत्र चलगतिबलाधिकृतस्य का वातीवन्तिसेनस्य ? रोषि-
तस्तेनासीन्नासीरार्थं युवराजः । राजकुले कः प्रसादवित्तो वैर्धनो मान्यते वा ? केन वा
किं लग्ध मेतावद्भिर्दिवसैः ? राजनिका बहवः खल्वभिनवसेवका जाताः । यातु तावत्सर्व-
मेवान्यत् । येन दृष्टः स कथयतु सर्वसेनसूनोर्वीरसेनस्य वार्ताम् । पितर्युपरते प्रथममेव
स प्रविष्टो यात्राम् । मात्राऽस्य 'दुःखान्तरितप्रत्यग्रपतिमरणशोकादशनक्रियैव परित्यक्ता । न
विम एवं कथं सा जीवति' इत्येतानि चान्यानि च प्रतिपदं पृच्छयमानानयंदत्तवचसो
नासाग्र स्थितमन्युगर्भदृष्टीनाविष्टा निवाध्वश्रमनिःसहाङ्गानपि पदाकृष्टिसंभावितोद्यमाऽऽयासि-
ki
 
मातृभ्रातुर्वार्ता प्रवृत्तिं कथयत उत्प्रेक्षामह आशङ्क्यामहेऽश्ववारैः सादिभिर्मंदान्भूयान्क्लेशोऽनुभूत इति ।
महाश्वपतेर्महाश्वसाधनाधिपतेरश्वसेनस्य कुशलं भद्रं वर्तते । अस्माकमसौ श्वशुरो भवति । अस्मत्पित्राप्यस्मदी-
यजनकेनापि विस्मयः कृतः, भवतां हस्ते यत्किचिच्चिह्नकमप्यभिज्ञानकमपि न प्रहितं न प्रेषितम् । आहितः
स्थापितो भरो भरो यस्मिन्नेवंविधोऽसौ युवराजभवने भवद्भिता मे भरतसेनो दृष्टोऽवलोकितः । सपरिजनस्य
सपरिच्छदस्य सेनापतेर्भद्रसेनस्य भद्रं वर्तते । सेवाव्यसनी कुमारवर्मा मे मम सूनुः पुत्रः । तत्र चलगतिने-
लाधिकृतस्यावन्तिसेनस्य का वार्ता किंवदन्ती । तेनावन्ति सेनेन नासीरार्थमप्रयानार्थं युवराजो रोषितः कोपित
आसीत् । 'नासीर त्वग्रयानं स्यादवमर्दस्तु पीडनम्' इति हैमः । राजकुले नृपकुले को वा मान्यते पूज्यते,
प्रसादे प्रसन्नतायां वित्तं यस्यैवंभूतो वर्धमानो वृद्धिं प्राप्यमाणः । एतावद्भिर्दिवसैर्दिनैः केन वा किं लब्धं किं
प्राप्तम् । अनुजीविष्त्रिति शेषः । राजनिकी राज्ञः संबन्धिनः । खलु निश्चयेन बहवोऽनेकेऽभिनवा नूतनाः
सेवकाः सपर्याकारिणो जाताः संपन्नाः । यातु तिष्ठतु तावत्सर्वमेवान्यदितरत् । अव्यक्त नपुंसकम् । एतेन
नवीन सपर्या का रिवार्तायां सर्वथानादरः सूचितः । येन दृष्टो वीक्षितः स कथयतु निवेदयतु सर्वसेनसूनोर्वीर से•
नस्य वार्ता कुशलम् । पितरि जनक उपरते मृते सति प्रथममेवादावेव स यात्रां व्रज्यां प्रविष्टो गतः । अस्य
वीरसेनस्य मात्रा जनन्या दुःखेन सूनुसक्तेनान्तरितो व्यवहितो यः प्रत्यग्रो नूतनः पतिमरणशोको भर्तृमृत्युशुक्
तस्मादशनक्रियैव भोजन विधिरेव परित्यक्तोज्झिता । न विद्मो न जानीम एवममुना प्रकारेण सा कथं जीवति
कथं प्राणिति । आदिदेशेत्यन्वयस्तु पूर्वमेवोक्तः । इतो लेखहारकान्विशेषयन्नाह -- नासेति । नासामे नासि-
काप्रान्ते संस्थितो मन्युः दैन्यं गर्भे यस्या एवंविधा दृष्टीदृशो येषां ते तथा तान् आविष्टानिव भूतग्रस्तानि -
वाध्वश्रमेण निःसहान्यसक्तान्यङ्गानि येषामेवंविधानपि पदानामाकृष्टिराकर्षस्तेन संभावितोऽनुमितो य उद्यम
 
टिप्प० - 1 अत्रापि पाठअंशः 'सेवाव्यसनी सूनुर्मे कुमार ( कपाल ) वर्मा, तत्र अवलगति बला-
धिकृत: ? ( मम सूनुविषये सेनाधिकारी सज्जते, तदनुकूलोस्ति ? ), तस्य का वार्ताऽवन्तिसेनस्य ?" इति
पाठः । 2 धन्यं व्याकरणं टीकाकारपुंगवस्य । 'आजीवनिकाः ( ग्रासाच्छादनमात्रभागिनः ) बहवः
खल्वभिनवसेवका जाता:' ग्रासाच्छादनमान्नमादाय बहवः पामरा नवीनाः सेवका जाता इति तेषामा•
क्रोशः । 3 दृष्टय इत्युचितम् ।
 
पाठा० - १ पित्रा स्वचिह्नकम् २ कलापवर्मा; कपालवर्मा ३ तत्र लगति; तत्र चलति; तत्रावलगति. ४ बला.
धिकृतस्तस्य ५ वर्तमाने ६ आजीवनिका; ७ एवं. ८ अदत्तप्रतिवचसः
 
..