कादम्बरी /683
This page has been fully proofread once and needs a second look.
कुशलं मे वत्सस्य ?' इति पृच्छन्त्येवाद्राक्षीत् । इतस्ततो [^१]यथा- दर्शनसंबन्धश: प्रधावितेन नरपतिप्रतिबद्धेनाप्रतिबद्धेन चोज्जयिनी- वासिना [^२]जनेन "आगतः युवराज:, कियद्दूरे भवद्भिः परि- त्यक्तः, दिवसेष्वेतेषु क्व वर्तते, के वा भवद्भिर्या [^३]त्वा दृष्टः, क्व वातिकष्टस्तेनातिवाहितो वाहनमात्रसाधनेन धाराधरागमः । तुरग- पृष्ठगतस्य मन्ये वहत एवास्यापक्रान्तः । त्वरितक एतद्वेत्ति, किम- नेन विदितेनापि ? एतत्कथयतु, यदर्थमयं क्लेशः कृतो युवराजेन
[^४]स दृष्टो वैशम्पायनः प्रत्यानीतो वा ? [^५]मिलितोऽस्य पत्र- लेखासहितो मेघनादः ? [^६]दत्तः कथं कश्चिदपि संदेशो देव- वर्धनेन ? मे मित्रमेवासावद्यारभ्य । रामसिकतयैव [^७]विनाशं बलाद्गतस्य बलधर्मणो वत्सस्य बिभेम्येव वार्ता [^८]पृच्छन्नपि । जीवत्यसावस्य वाजी [^९]यो युवराजेन प्रसादीकृतः । [^१०]प्रसी- दत, सादिनां प्रथमस्य [^११]पृथुवर्मणो मातुलस्य मे कथयत वार्ताम् । उत्प्रे
[ टि ]-- इत्येतानि चान्यानि च प्रतिपदं प्रतिचरणन्यासं पृच्छ्य- मानानपि प्रश्नविषयीक्रियमाणानप्यदत्तवचसोऽकथितप्रतिवचसः। एतानि कानीत्यपेक्षायामाह - यथादर्शनेति । यथा [^1]दर्शनं यथा- वलोकनं तस्य संबन्धशः संबन्धेभ्यः प्रधावितेनातित्वरितेन नरपति- प्रतिबद्धेन नृपसक्तेनाप्रतिबद्धेन राजसपर्यावर्जितेन चोज्जयिनी- निवासिना विशालावास्तव्येन जनेन, आगतः समायातो युवराज- श्चन्द्रापीडो भवद्भिर्युष्माभिः कियद्दूरे परित्यक्तो मुक्तः। एतेषु दिवसेषु क्व वर्तते । भवद्भिर्युष्माभिर्लेखहारकैः क्व वा कुत्र यात्वा गत्वा दृष्टोऽवलोकितः । तेन युवराजेन वाहनमात्रसाधनेन केवला- श्वसैन्येनाति [^2]कष्टोऽतिदुःखदो धाराधरागमो जलदसमयः क्व वातिवाहितः कुत्रातिक्रान्तः । अहं च मन्येऽस्य युवराजस्य तुरग-
पृष्ठगतस्याश्वारूढस्य वहत एव व्रजत एवापक्रान्तो गतो वर्षा-
समयः । त्वरितक एतत्पूर्वोक्तं वेत्ति जानाति । अनेन विदितेनापि ज्ञातेनापि किम् । एतन्मदुक्तं कथयतु ब्रूहि यदर्थं यद्धेतोर्युवराजेन चन्द्रापीडेनायं क्लेशः कृतो विहितः । स वैशम्पायनो दृष्टोऽवलो- कितः प्रत्यानीतो वा पश्चादानीतो वा । अस्य युवराजस्य पत्रलेखा सहितो मेघनादो मिलितः संघटितः । देववर्धनेन तन्नाम्ना पुंसा
कश्चिदपि संदेशो वाचिकं कथं दत्तो वितीर्ण: ? [^3]अद्यारभ्याद्य- प्रभृत्यसौ मे मम मित्रं वर्तते । राभसिकतयैवानालोचितवृत्त्यैव बलाद्धठाद्विनाशं बलात्पाथेयाद्गतस्य प्राप्तस्य बालधर्मणो वत्सस्य पुत्रस्य वार्ता किंवदन्तीं पृच्छन्नपि प्रश्नयन्नप्यहं बिभेम्येव भयं प्राप्नोम्येव । असौ [^4]जीवति प्राणित्यस्य युवराजेन चन्द्रापीडेन यो वाजी तुरंगमः प्रसादीकृतः प्रदत्तः । यूयं प्रसीदत प्रसन्ना भवत । सादिनां यन्तॄणां मध्ये प्रथमस्याद्यस्य पृथुवर्मणो मातुलस्य
[^1]F. 'यथादर्शनं संघशः प्रधावितेन' इत्येव पाठः । टीकाकार- महाभागेन विचित्ररूपं कृत्वा स व्याख्यातः । यथादर्शनम् ( दर्शन- कालोत्तरमेव ) पृथक् पृथक् समूहीभूय प्रधावितेन उज्जयिनीवा- सिना जनेन 'इति... पृच्छ्यमानान्' इति तदर्थः ।
[^2]F. 'क्व वातिक ष्टैस्तेनातिवाहितः' इत्येषव पाठः । न किल
जलदकालः कष्टः । अत एव पाठस्वारस्यं विचार्यम् ।
[^3]F. भ्रष्टीकृतोऽत्रापि पाठः । 'मे मित्रमेव असौ
( देववर्धनः ) । अधाद्यारभ्य राभसिकतयैवात्मना बलाद्गतस्य' इत्येव पाठः । रामसिकतया ( वेगशा-
लिखतया, अनालोचितप्रवृत्ततया वा ) हठादेव स्वतः ( स्वेच्छया ) गतस्य, इति तदर्थः ।
[^4]F. अत्रापि
पाठनिर्माणणे हस्तलाघवम् । 'जीवत्यसौ, अस्य बावाऽऽजीवो युवराजेन प्रसादीकृतः ? ' असौ ( बलधर्मा )
जीवति ? अस्मै युवराजेन भाआजीव: (जीवनोपायः, चेतनम् ) किमु प्रसादी- कृतः, इत्येव पाठः । परी-
क्ष्यतां तारतम्यं सहृदयैः ।
पाठा० -[^१]G. यथादर्शनं सर्वश: .
[^२]G. अनुगतः; आयातः ; .
[^३]G. गत्वा .
[^४]G. दृष्टः सः .
[^५]G. मिलितो वास्य; मिलितो वा
तस्य तस्य.
[^६ न दन्तः, ]G. न दत्त:.
[^७]G. आत्मना .
[^८]G. प्रष्टुमपि .
[^९]G. वो .
[^१०]G. प्रसीदतास्य .
[^११]G. पृथुवर्त्मनः.
[^४]स दृष्टो वैशम्पायनः प्रत्यानीतो वा ? [^५]मिलितोऽस्य पत्र- लेखासहितो मेघनादः ? [^६]दत्तः कथं कश्चिदपि संदेशो देव- वर्धनेन ? मे मित्रमेवासावद्यारभ्य । रामसिकतयैव [^७]विनाशं बलाद्गतस्य बलधर्मणो वत्सस्य बिभेम्येव वार्ता [^८]पृच्छन्नपि । जीवत्यसावस्य वाजी [^९]यो युवराजेन प्रसादीकृतः । [^१०]प्रसी- दत, सादिनां प्रथमस्य [^११]पृथुवर्मणो मातुलस्य मे कथयत वार्ताम् । उत्प्रे
[ टि ]-- इत्येतानि चान्यानि च प्रतिपदं प्रतिचरणन्यासं पृच्छ्य- मानानपि प्रश्नविषयीक्रियमाणानप्यदत्तवचसोऽकथितप्रतिवचसः। एतानि कानीत्यपेक्षायामाह - यथादर्शनेति । यथा [^1]दर्शनं यथा- वलोकनं तस्य संबन्धशः संबन्धेभ्यः प्रधावितेनातित्वरितेन नरपति- प्रतिबद्धेन नृपसक्तेनाप्रतिबद्धेन राजसपर्यावर्जितेन चोज्जयिनी- निवासिना विशालावास्तव्येन जनेन, आगतः समायातो युवराज- श्चन्द्रापीडो भवद्भिर्युष्माभिः कियद्दूरे परित्यक्तो मुक्तः। एतेषु दिवसेषु क्व वर्तते । भवद्भिर्युष्माभिर्लेखहारकैः क्व वा कुत्र यात्वा गत्वा दृष्टोऽवलोकितः । तेन युवराजेन वाहनमात्रसाधनेन केवला- श्वसैन्येनाति [^2]कष्टोऽतिदुःखदो धाराधरागमो जलदसमयः क्व वातिवाहितः कुत्रातिक्रान्तः । अहं च मन्येऽस्य युवराजस्य तुरग-
पृष्ठगतस्याश्वारूढस्य वहत एव व्रजत एवापक्रान्तो गतो वर्षा-
समयः । त्वरितक एतत्पूर्वोक्तं वेत्ति जानाति । अनेन विदितेनापि ज्ञातेनापि किम् । एतन्मदुक्तं कथयतु ब्रूहि यदर्थं यद्धेतोर्युवराजेन चन्द्रापीडेनायं क्लेशः कृतो विहितः । स वैशम्पायनो दृष्टोऽवलो- कितः प्रत्यानीतो वा पश्चादानीतो वा । अस्य युवराजस्य पत्रलेखा सहितो मेघनादो मिलितः संघटितः । देववर्धनेन तन्नाम्ना पुंसा
कश्चिदपि संदेशो वाचिकं कथं दत्तो वितीर्ण: ? [^3]अद्यारभ्याद्य- प्रभृत्यसौ मे मम मित्रं वर्तते । राभसिकतयैवानालोचितवृत्त्यैव बलाद्धठाद्विनाशं बलात्पाथेयाद्गतस्य प्राप्तस्य बालधर्मणो वत्सस्य पुत्रस्य वार्ता किंवदन्तीं पृच्छन्नपि प्रश्नयन्नप्यहं बिभेम्येव भयं प्राप्नोम्येव । असौ [^4]जीवति प्राणित्यस्य युवराजेन चन्द्रापीडेन यो वाजी तुरंगमः प्रसादीकृतः प्रदत्तः । यूयं प्रसीदत प्रसन्ना भवत । सादिनां यन्तॄणां मध्ये प्रथमस्याद्यस्य पृथुवर्मणो मातुलस्य
[^1]F. 'यथादर्शनं संघशः प्रधावितेन' इत्येव पाठः । टीकाकार- महाभागेन विचित्ररूपं कृत्वा स व्याख्यातः । यथादर्शनम् ( दर्शन- कालोत्तरमेव ) पृथक् पृथक् समूहीभूय प्रधावितेन उज्जयिनीवा- सिना जनेन 'इति... पृच्छ्यमानान्' इति तदर्थः ।
[^2]F. 'क्व वातिक
जलदकालः कष्टः । अत एव पाठस्वारस्यं विचार्यम् ।
[^3]F. भ्रष्टीकृतोऽत्रापि पाठः । 'मे मित्रमेव असौ
[^4]F. अत्रापि
[^२]G. अनुगतः; आयातः
[^३]G. गत्वा
[^४]G. दृष्टः सः
[^५]G. मिलितो वास्य; मिलितो वा
तस्य
[^६
[^७]G. आत्मना
[^८]G. प्रष्टुमपि
[^९]G. वो
[^१०]G. प्रसीदतास्य
[^११]G. पृथुवर्त्मनः.