This page has not been fully proofread.

६५०
 
कादम्बरी ।
 
[ कथायाम्-
,
 
कुशलं मे वत्सस्य ?' इति पृच्छन्त्येवाद्राक्षीत् । इतस्ततो यथादर्शनसंबन्धश: प्रधावितेन
नरपतिप्रतिबद्धेनाप्रतिबद्धेन चोजयिनीवासिना जनेने "आगतः युवराज, कियहूरे
भवद्भिः परित्यक्तः, दिवसेष्वेतेषु क वर्तते, के वा भवद्भिर्यात्वा दृष्टः, क वातिकष्टस्तेना-
तिवाहितो वाहनमात्रसाधनेन धाराधरागमः । तुरगष्पृष्ठगतस्य मन्ये वहत एवास्यापकान्तः ।
त्वरितक एतद्वेत्ति, किमनेन विदितेनापि ? एतत्कथयतु, यदर्थमयं केशः कृतो युवराजेन
से दृष्टो वैशम्पायनः प्रत्यानीतो वा ? मिलितोऽस्य पत्रलेखासहितो मेघनादः ? दत्तः कथं
कश्चिदपि संदेशो देववर्धनेन ? मे मित्रमेवासावद्यारभ्य । रामसिकतयैव विनाशं बलाद्र-
तस्य बलधर्मणो वत्सस्य बिभेम्येव वार्ता पृच्छन्नपि । जीवत्यसावस्य वाजी यो युवराजेन
प्रसादीकृतः । प्रसीदत, सादिनां प्रथमस्य पैथुवर्मणो मातुलस्य मे कथयत वार्ताम् । उत्प्रे
 
A
 
इत्येतानि चान्यानि च प्रतिपदं प्रतिचरणन्यासं पृच्छ्यमानानपि प्रश्नविषयीक्रियमाणानप्यदत्तवचसोऽकथित-
प्रतिवचसः । एतानि कानीत्यपेक्षायामाह - यथादर्शनेति । यथादर्शनं यथावलोकनं तस्य संबन्धशः
संबन्धेभ्यः प्रधावितेनातित्वरितेन नरपतिप्रतिबद्धेन नृपसक्तेनाप्रतिबद्धेन राजसपर्यावर्जितेम चोज्जयिनी निवासिना
विशालावास्तव्येन जनेन, आगतः समायातो युवराजश्चन्द्रापीडो भवद्भिर्युष्माभिः कियहूरे परित्यक्तो मुक्तः ।
एतेषु दिवसेषु क्व वर्तते । भवद्भिर्युष्माभिर्लेखहारकैः क वा कुत्र यात्वा गत्वा दृष्टोऽवलोकितः । तेन युवरा-
जेन वाहनमात्रसाधनेन केवलाश्वसैन्येनातिकैष्टोऽतिदुःखदो धाराधरागमो जलदसमयः क्व वातिवाहितः कुत्रा-
तिक्रान्तः । अहं च मन्येऽस्य युवराजस्य तुरगपृष्ठगतस्याश्वारूढस्य वहत एव व्रजत एवापक्रान्तो गतो वर्षा-
समयः । त्वरितक एतत्पूर्वोक्तं वेत्ति जानाति । अनेन विदितेनापि ज्ञातेनापि किम् । एतन्मदुक्तं कथयतु ब्रूहि
यदर्थं यद्धेतोर्युवराजेन चन्द्रापीडेनायं क्लेशः कृतो विहितः । स वैशम्पायनो दृष्टोऽवलोकितः प्रत्यानीतो वा
पश्चादानीतो वा । अस्य युवराजस्य पत्रलेखा सहितो मेघनादो मिलितः संघटितः । देववर्धनेन तन्नाम्ना पुंसा
कश्चिदपि संदेशो वाचिकं कथं दत्तो वितीर्ण: ? अद्यारभ्याद्यप्रभृत्यसौ मे मम मित्रं वर्तते । राभसिकतयैवाना-
लोचितवृत्त्यैव बलाद्धठाद्विनाशं बलात्पाथेयागतस्य प्राप्तस्य बालधर्मणो वत्सस्य पुत्रस्य वार्ता किंवदन्तीं पृच्छन्नपि
प्रश्नयनप्यहं बिभेम्येव भयं प्राप्नोम्येव । असौ जीवंति प्राणित्यस्य युवराजेन चन्द्रापीडेन यो वाजी तुरंगमः
प्रसादीकृतः प्रदत्तः । यूयं प्रसीदत प्रसन्ना भवत । सादिनां यन्तॄणां मध्ये प्रथमस्याद्यस्य पृथुवर्मणो मातुलस्य
 
टिप्प० - 1 'यथादर्शनं संघशः प्रधावितेन' इत्येव पाठः । टीकाकारमहाभागेन विचित्ररूपं कृत्वा स
व्याख्यातः । यथादर्शनम् ( दर्शनकालोत्तरमेव ) पृथक् पृथक् समृहीभूय प्रधावितेन उज्जयिनीवासिना
जनेन 'इति... पृच्छ्यमानान्' इति तदर्थः । 2 'क्व वातिक टैस्तेनातिवाहितः' इत्येष पाठः । न किल
जलदकालः कष्टः । अत एव पाठस्वारस्यं विचार्यम् । 3 भ्रष्टीकृतोऽत्रापि पाठः । 'मे मित्रमेव असौ
( देववर्धनः ) । अधारभ्य राभसिकतयैवात्मना बलाद्गतस्य' इत्येव पाठः । रामसिकतया ( वेगशा-
लिखया, अनालोचितप्रवृत्ततया वा ) हठादेव स्वतः ( स्वेच्छया ) गतस्य, इति तदर्थः । 4 अत्रापि
पाठनिर्माण हस्तलाघवम् । 'जीवत्यसौ, अस्य बाऽऽजीवो युवराजेन प्रसादीकृतः ? ' असौ ( बलधर्मा )
जीवति ? अस्मै युवराजेन भाजीव: (जीवनोपायः, चेतनम् ) किमु प्रसादीकृतः, इत्येव पाठः । परी-
क्ष्यतां तारतम्यं सहृदयैः ।
 
पाठा० -१ यथादर्शनं सर्वश: २ अनुगतः; आयातः ; ३ गत्वा ४ दृष्टः सः ५ मिलितो वास्य; मिलितो वा
तस्य ६ न दन्तः, ७ आत्मना ८ प्रष्टुमपि ९ वो १० प्रसीदतास्य ११ पृथुवर्त्मनः.