This page has not been fully proofread.

देवमन्दिरे विलासवत्या दूतानामाह्वानम्] उत्तरभागः ।
 
भृत्यलोकः । देवस्य च स्थाने देवी वर्तते । तदाज्ञापितं कृतमवधारयतु देवी' इत्युक्त्वा मेघ-
नादस्त्वरितकनामानं कुमारबालसेवकमाहूय तैः सह व्यसर्जयत् ।
 
अथ सुबहुदिवसापगमे वार्ता विनोत्ताम्यन्ती चन्द्रापीडस्यैवागमनायोपॅथाचितं कर्तुम-
वन्तीनामनगरी देवता नामवन्तीमातृणामायतनं निर्गता विलासवती 'देवि, दिष्ट्या वर्धसे ।
प्रसन्नास्तेऽवन्तिमातरः । परागता युवराजवार्ताहराः' इति सहसैव संभ्रमप्रधावितात्पैरिज-
नादुपश्रुत्यानन्दबाष्पजललुलितया जलार्द्रेन्दीवरस्रजेव विक्षेपदीर्घया दृष्ट्या यन्तीव चिरं
दृष्ट्वा ककुभः, मृगाङ्गनेव परिभ्रष्टबालपोता, पूरेकृत्य प्राकृतेवार्ता, 'केनेदममृतं मे वाक्छ-
लादृष्टम् ? कस्यानुकम्पास्मिञ्जने जाता ? केन हैवा: ? कियहूरे वर्तन्ते ? किं वा तैः कथितं
 
१५
 
१३
 
नपुंसकम् । अयमेवंस्थितो भृत्यलोको गोप्यजनः । देवस्य च चन्द्रापीडस्य च स्थाने देवी वर्तते । तत्तस्मादा-
ज्ञापित मादिष्टं कृतं निष्पादितं देवी कादम्बर्यवधारयतु जानातु । इत्युक्त्वेत्यभिधाय मेघनादस्त्वरित कनामानं
कुमारबालसेवकं चन्द्रापीडभृत्यमाहूयाह्वानं कृत्वा तैर्लेखहारकैः सह व्यसर्जयत्प्राहिणोत् ।
 
अथेति । तत्प्रेषणानन्तरं सुबहूनाम नेकेषां दिवसानामपगमे सति वार्ता प्रवृत्तिं विनोत्ताम्यन्ती खेदं कुर्वन्ती
चन्द्रापीड स्यैवागमनायोपयाचितं वाञ्छितं कर्तुं विधातुमवन्तीनामनगरीदेवतानां विशालापुरीदेवानामवन्ती-
मातॄणां ब्राह्वयाद्या मातरः सप्त तासां चायतनं गृहं निर्गता निर्याता । इतश्च हे देवि, त्वं दिष्ट्या भाग्येन
वर्धसे वृद्धिं प्राप्नोषि। प्रसन्नास्ते तवावन्तिमातरः । युवराजवार्ताहराश्चन्द्रापीड किंवदन्तीकथकाः । संदेश -
हरा इत्यर्थः । परागताः समायाता इति सहसैवैकपद एव संभ्रमेणादरेण प्रधावितात्परिजनात्सेवकजनादुप-
थुल्या कर्ण्यानन्दबाष्पजलं हर्षाश्रुपानीयं तमिहुलितया लुठितया जलक्लिनया । नीलसाधर्म्यादुत्प्रेक्षते -
जलान्वीवरस्रजेव जलनुन्ननीलपद्ममालयेवार्चयन्ती पूजयन्तीव विक्षेपेण दीर्घया दृष्टया दृशा चिरं चिर-
कालं ककुभो दिशो दृष्ट्वावलोक्य । परिभ्रष्टो गतो बालो मूर्खः पोतः शिशुर्यस्याः सा तथा । 'बालोऽर्भ के
च मूर्खे स्यात्' इत्यमरः । एवंविधा मृगाङ्गनेव हरिणीव पूत्कृत्योच्चै रटित्वा प्राकृतेव पामरेवार्ता पीडिता
केन वार्ताकेन वाक्छलाद्वचनोपधेरिदममृतं पीयूषं वृष्टम् । तेन वचनच्छलादमृतमेव वृष्टमिति भावः । अस्मि-
जने कस्य पुंसोऽनुकम्पा दया जाता समुत्पन्ना । केन पुंसा दृष्टा अवलोकिताः । क्व वा दृष्टाः कुत्र दृष्टाः ।
किय हूरे दविष्ठे वर्तन्ते । किं वा तैः कथितं प्रोतं मे मम वत्सस्य पुत्रस्य कुशलं कल्याणमितीतस्ततः पृच्छ-
न्त्येव प्रश्नं कुर्वन्त्येव तांल्लेख हार कान्दूरत ऐवाद्राक्षी द्विलोकितवती । त्वरितकसमेतांस्तांल्लेखहारकानालोक्य निरीक्ष्य
तस्मिन्नेव मातृगृहाङ्गणे स्थिता विलासवती तेषामाहानायाहूताया दिदेशाज्ञा पित्तवती । कथंभूतांल्लेखहारकान् ।
 
टिप्प० - 1 'तत्सर्व एवायमेवं स्थितो भृत्यलोकः' इत्येव पाठः । अयं भृत्यलोकः सर्व एवम् (पूर्वो-
तरूपेण ) स्थितः । 2 यदाज्ञापितं तत्तस्मिन्समये एव कृतं जानातु भवती इत्यर्थः । 3 टीकाकार•
स्याद्भुतं साहसं यत्किञ्चिदप्यज्ञात्वा टीकाकरणे गल्भनम् । 'चन्द्रापीडो मे समागच्छेत्तर्हि एवमुपहारान्
दद्याम्' इति प्रार्थना – 'दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहदं तद्विदु-
बुधाः ॥' इति जटाधरः । 4 'अवन्तिनगरीदेवतानाम्' इत्येवोचितम् ।
 
C
 
पाठा० – १ भृत्यजनः २ त्वरित ३ कुमारसेवकम् ४ अथ सा बहु. ५ वार्तया ६ उत्ताम्यती ७ उपया-
चितकम्. ८ अवन्तीनगरदेवता नामवन्ती मातृणाम् ९ वार्ता, १० ससंभ्रमप्रतिभावितात्. ११ परिचारिकाजनात्.
१२ फूत्कृत्य. १३ दुष्ट: १४ वर्तते. १५ तेन; अनेन.
 
८२ का०