2023-12-13 08:07:47 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६४८
 
कादम्बरी ।
 
[ कथायाम-
नोत्सिच्यन्ते । शिष्यमाणा [^१]नापरागं गृह्णन्ति । उच्यमाना न प्रतीपं भाषन्ते । पृष्टा [^२]हिते-
प्रियं विज्ञपयन्ति । अनादिष्टा: कुर्व- न्ति । कृत्वा न जल्पन्ति । पराक्रम्य न विकत्थन्ते ।
विकस्थ्यमौ [^३]माना अपि लज्जामुद्वहन्ति । महाहवेष्वमतो ध्वजभूता इव लक्ष्यन्ते । दानकाले
पलाय्य पृष्ठतो निलीयन्ते । [^४]धनात्स्नेहं बहु मन्यन्ते । जीवितात्पुरो मरणमभिवाञ्छन्ति ।
गृहादपि स्वामिपाद- मूले सुखं तिष्ठन्ति । येषां च तृष्णा चरणपरिचर्यायाम्, असंतोषो हृद-
याराधने, [^५]व्यसनमाननावलोकने, वाचालता [^६]गुणग्रह- णे, कार्पण्यमपरित्यागे भर्तुः । ये च
विद्यमानेऽपि स्वात्मन्यस्वा[^७]स्वात्मन्य- स्वा[^८]धीनसकलेन्द्रियवृत्तयः, पश्यन्तोऽप्यन्धा इव, शृण्वन्तोऽपि

बधिरा
इव, वाग्मिनोऽपि मूका इव, जानन्तोऽपि जडा इव, अनुप- हतकरचरणा अपि पे[^९]पङ्गव इव,
डी
क्लीबा इवाकिंचित्करा: स्वा, स्वा- त्मनः [^१०]स्वामिचि [^११]न्तादर्श प्रतिबिम्बवद्वर्तन्ते । त[^१३]त्सर्वमेवंस्थितो
 
>
 
"
 
"
 

 
[ टि ]--
क्षिप्यमाणास्तिर स्क्रियमाणा नापरागं विरक्ततां गृह्णन्त्या- ददते । उच्यमानाः । विरूपमिति शेषः । भाष्य-
माणा न प्रतीपं प्रतिकूलं भाषन्ते ब्रुवते । पृष्टा अनुयोजिता हितं च तत्प्रियं च हित- प्रियं विज्ञपयन्ति निवेद-
यन्ति । अनादिष्टा अकथिताः कुर्वन्ति । कार्याणीति शेषः । कृत्वा न जल्पन्ति न कथयन्ति । पराक्रम्य

पराक्रमं कृत्वा न विकत्थन्ते न लावश्याघ्यन्ते । विकत्थ्यमाना अपि श्लाध्घ्यमाना अपि लज्जां त्रपामुद्हन्ति धार-
यन्ति । महाहवेषु महारणेष्वप्ग्रतो ध्वजभूता इव केतुभूता इव लक्ष्यन्ते विलोक्यन्ते । 'अभ्यामर्द: समाघातः
सङ्ग्रामाभ्यागमाहवाः' इत्यमरः । दानकाले पलाय्य पलायनं कृत्वा पृष्ठतो निलीयन्ते निलीना भवन्ति । धनाद्द्र-
व्यात्स्नेहं प्रेम बहु मन्यन्तेऽधिकं गणयन्ति । जीवितात्प्राणितात्पु- रोऽग्रे । स्वामिन इति शेषः । मरणं मृत्यु-
मभिवाञ्छन्त्यभिलषन्ति । गृहादपि सौधादपि स्वामिपादमूले स्वकीयाधीशचरणोपान्ते सुखं यथा स्यात्तथा
तिष्ठन्ति । येषां च सेवकानां चरणपरिचर्यायां पाद- सेवायां तृष्णा स्पृहा । हृदयाराधने चित्तप्रसादनेऽसंतोषः ।
आनना- वलोकने मुखनिरीक्षणे व्यसनमासक्तिः । वाचालता मुखरता गुण- ग्रहणे परगुणानां शौर्यादीनामादाने
भर्तुः स्वामिनोऽपरित्यागेऽमो- चने कार्पण्यं कृपणत्वम् । ये च सेवका विद्यमानेऽपि स्वात्मनि जीवति सत्यप्य-
'
स्वाधीनस कलेन्द्रियवृत्तयोऽस्वाधीना अनायत्ताः सकलेन्द्रियाणां वृत्तयो येषां ते तथा । पश्यन्तोऽपि विलोकय-
न्तोऽप्यन्धा इव गताक्षा इव । परच्छिद्रान्वेषणेऽन्धत्वमिति भावः । शृण्वन्तोऽप्याकर्णयन्तोऽपि बधिरा इव ।
परापवादश्रवण इत्यर्थः । वाग्मिनोऽपि वचस्विनोऽपि मूका इवावाच इव । परदूषणवक्त- व्यतायामिति भावः ।
'वाग्मी वाचस्पतौ पटौ' इति विश्वः । जान- न्तोऽप्यवबुद्ध्यन्तोऽपि जडा इव मूर्खा इव । प्रभुप्रतिपादिकथादि-

श्रवणेष्वित्यर्थः । कराश्च चरणाश्च करचरणम् । 'द्वन्द्वश्च प्राणितूर्य-' इत्येकवद्भावः । अनुपहतमखण्डितं
करचरणं येषां ते तथैवंविधा अपि पङ्गव इव श्रोणा इव, क्लीबा इव षण्ढा इव, अकिंचित्करा निरर्थकाः ।
स्वात्मनैः स्वस्वामिनोऽधिपतेश्चिन्ता सैवादर्शो मुकुर- स्तस्मिन्प्रतिबिम्बवत्प्रतिच्छायवद्वर्तन्ते । तत्सर्वमेवाव्यक्ते
 
-
 
टिप्प०

 
[^
1 -]F. 'अनुपहतकरचरणा अपि कुणय इव पङ्गव इव' इत्येव पाठ: । कररहितः कुणिः, विकल-
पादः पशुःङ्गु:, ते तु करपदसत्ता- यामपि तद्हिता इत्यर्थः ।
[^
2]F. 'स्वात्मना स्वामिचित्तादर्शे प्रतिबिम्बवत्'
इत्येव पाठः । स्वामिनश्चित्तरूपे आदर्शे ( दर्पणे ) स्वात्मना प्रतिबिम्बवत् वर्तन्ते, स्वामिनश्चित्ते सर्वदा
येषां स्थितिर्भवतीत्याशयः ।
 
पाठा० -

 
[^
]G. अपराधम्; अपरज्यन्ते .
[^
]G. प्रियहितम्; प्रियं हितम् .
[^
]G. कथ्यमानाः .
[^
]G. नापि .
[^
]G. व्यसनतानव-
लोकने.
[^
]G. गुणाग्रहणे.
[^
]G. आत्मनि.
[^
]G. न स्वाधीन .
[^
]G. कृपणा इव पङ्गवः; कुणप इव पङ्गवः.
[^
१०]G. स्वात्मना
.
[^
११]G. चित्ता.
[^
१२]G. सर्वः.