This page has not been fully proofread.

६४८
 
कादम्बरी ।
 
[ कथायाम-
नोत्सिच्यन्ते । शिष्यमाणा नपरागं गृह्णन्ति । उच्यमाना न प्रतीपं भाषन्ते । पृष्टा हिते-
प्रियं विज्ञपयन्ति । अनादिष्टा: कुर्वन्ति । कृत्वा न जल्पन्ति । पराक्रम्य न विकत्थन्ते ।
विकस्थ्यमौना अपि लज्जामुद्वहन्ति । महाहवेष्वमतो ध्वजभूता इव लक्ष्यन्ते । दानकाले
पलाय्य पृष्ठतो निलीयन्ते । धनात्स्नेहं बहु मन्यन्ते । जीवितात्पुरो मरणमभिवाञ्छन्ति ।
गृहादपि स्वामिपादमूले सुखं तिष्ठन्ति । येषां च तृष्णा चरणपरिचर्यायाम् असंतोषो हृद-
याराधने, व्यसनमाननावलोकने, वाचालता गुणग्रहणे, कार्पण्यमपरित्यागे भर्तुः । ये च
विद्यमानेऽपि स्वात्मन्यस्वाधीनसकलेन्द्रियवृत्तयः पश्यन्तोऽप्यन्धा इव, शृण्वन्तोऽपि
इव, वाग्मिनोऽपि मूका इव, जानन्तोऽपि जडा इव, अनुपहतकरचरणा अपि पेङ्गव इव,
डीबा इवाकिंचित्करा: स्वात्मनः स्वामिचिन्तादर्श प्रतिबिम्बवद्वर्तन्ते । तत्सर्वमेवंस्थितो
 
>
 
"
 
"
 
क्षिप्यमाणास्तिर स्क्रियमाणा नापरागं विरक्ततां गृह्णन्त्याददते । उच्यमानाः । विरूपमिति शेषः । भाष्य-
माणा न प्रतीपं प्रतिकूलं भाषन्ते ब्रुवते । पृष्टा अनुयोजिता हितं च तत्प्रियं च हितप्रियं विज्ञपयन्ति निवेद-
यन्ति । अनादिष्टा अकथिताः कुर्वन्ति । कार्याणीति शेषः । कृत्वा न जल्पन्ति न कथयन्ति । पराक्रम्य
पराक्रमं कृत्वा न विकत्थन्ते न लावन्ते । विकत्थ्यमाना अपि लाध्यमाना अपि लज्जां त्रपामुद्रहन्ति धार-
यन्ति । महाहवेषु महारणेष्वप्रतो ध्वजभूता इव केतुभूता इव लक्ष्यन्ते विलोक्यन्ते । 'अभ्यामर्द: समाघातः
सङ्ग्रामाभ्यागमाहवाः' इत्यमरः । दानकाले पलाय्य पलायनं कृत्वा पृष्ठतो निलीयन्ते निलीना भवन्ति । धना-
हव्यात्स्नेहं प्रेम बहु मन्यन्तेऽधिकं गणयन्ति । जीवितात्प्राणितात्पुरोऽग्रे । स्वामिन इति शेषः । मरणं मृत्यु-
मभिवाञ्छन्त्यभिलषन्ति । गृहादपि सौधादपि स्वामिपादमूले स्वकीयाधीशचरणोपान्ते सुखं यथा स्यात्तथा
तिष्ठन्ति । येषां च सेवकानां चरणपरिचर्यायां पादसेवायां तृष्णा स्पृहा । हृदयाराधने चित्तप्रसादनेऽसंतोषः ।
आननावलोकने मुखनिरीक्षणे व्यसनमासक्तिः । वाचालता मुखरता गुणग्रहणे परगुणानां शौर्यादीनामादाने ।
भर्तुः स्वामिनोऽपरित्यागेऽमोचने कार्पण्यं कृपणत्वम् । ये च सेवका विद्यमानेऽपि स्वात्मनि जीवति सत्यप्य-
'स्वाधीनस कलेन्द्रियवृत्तयोऽस्वाधीना अनायत्ताः सकलेन्द्रियाणां वृत्तयो येषां ते तथा । पश्यन्तोऽपि विलोकय-
न्तोऽप्यन्धा इव गताक्षा इव । परच्छिद्रान्वेषणेऽन्धत्वमिति भावः । शृण्वन्तोऽप्याकर्णयन्तोऽपि बधिरा इव ।
परापवादश्रवण इत्यर्थः । वाग्मिनोऽपि वचस्विनोऽपि मूका इवावाच इव । परदूषणवक्तव्यतायामिति भावः ।
'वाग्मी वाचस्पतौ पटौ' इति विश्वः । जानन्तोऽप्यवबुद्ध्यन्तोऽपि जडा इव मूर्खा इव । प्रभुप्रतिपादितकथादि-
श्रवणेष्वित्यर्थः । कराश्च चरणाश्च करचरणम् । 'द्वन्द्वश्च प्राणितूर्य-' इत्येकवद्भावः । अनुपहतमखण्डितं
करचरणं येषां ते तथैवंविधा अपि पङ्गव इव श्रोणा इव, क्लीबा इव षण्ढा इव, अकिंचित्करा निरर्थकाः ।
स्वात्मनैः स्वस्वामिनोऽधिपतेश्चिन्ता सैवादर्शो मुकुरस्तस्मिन्प्रतिबिम्बवत्प्रतिच्छायवद्वर्तन्ते । तत्सर्वमेवाव्यक्ते
 
-
 
टिप्प० 1 - 'अनुपहतकरचरणा अपि कुणय इव पङ्गव इव' इत्येव पाठ: । कररहितः कुणिः, विकल-
पादः पशुः, ते तु करपदसत्तायामपि तद्नहिता इत्यर्थः । 2 'स्वात्मना स्वामिचित्तादर्श प्रतिबिम्बवत्'
इत्येव पाठः । स्वामिनश्चित्तरूपे आदर्शे ( दर्पणे ) स्वात्मना प्रतिबिम्बवत् वर्तन्ते, स्वामिनश्चित्ते सर्वदा
येषां स्थितिर्भवतीत्याशयः ।
 
पाठा० -१ अपराधम्; अपरज्यन्ते २ प्रियहितम्; प्रियं हितम् ३ कथ्यमानाः ४ नापि ५ व्यसनतानव-
लोकने. ६ गुणाग्रहणे. ७ आत्मनि. ८ न स्वाधीन ९ कृपणा इव पङ्गवः; कुणप इव पङ्गवः. १० स्वात्मना•
११ चित्ता. १२ सर्वः.