2023-12-15 10:28:01 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

च [^१]संभाव्य प्रेषितानामप्रोषितजीविताना [^२]मगमनं तु दूरा- पेतमेव । गत्वापि दयिततमतनयवार्ताश्रवणलालसस्य राज्ञो देव्या आर्यशुकनासस्य दुःखप्लुताक्षीण्युद्वीक्ष्य मुखानि निर्विकारवदना- नामस्माक [^३]मवस्थानमशक्यमेव इति विज्ञापिता तैः 'एवमेतत्' इत्युक्त्वा कादम्बरी मेघनादमवादीत्– 'मेघनाद, वेद्मि संस्तुतजन- स्यैतदनुचितमिति । तथापि गुरूणां चेतःपी [^४]डामवेक्ष्यमाणया मयैवमभिहितम् । इतरदपि दुःख [^५]मायाति । कीदृशं भवति किं पुनरिदं महावज्रपतनसदृशम् । तदेतदपि भवतु । एभिः सहा- परः कश्चि [^६]च्छ्रद्धेयवचाः प्रत्यक्षदृष्टसकलवृत्तान्तः सं [^७]प्रत्य- याय व्रजतु' इति ।
 
एवमादिष्टस्तु मेघनादो व्यज्ञापयत् - 'देवि, राजलोके तु का कथा । मृ[^८]भृत्यवर्गोऽपि
सकल एवायं कन्दमूलफलाशी निश्चयं कृत्वा स्थितो यथास्माकं मध्यादेकेनापि देवपादा-
न्विना न प्रतीपं गन्त- व्यमिति । भृत्या अपि त एव ये संपत्तेर्विपत्तौ सविशेषं सेवन्ते ।
समुन्नम्यमानाः सुतरामवनमन्ति आलाध्प्यमाना न समालापाः संजा- यन्ते । स्तूयमाना
 
[ टि ]--तानां प्रहितानामप्रोषितजीवितानाममृतानामगमनं तु दूराषे- पेतमेव दूरापास्तमेव । द्वितीयं पक्षं प्रतिक्षिपन्नाह-
गत्वेति । तत्र गत्वापि दयिततमोऽतिवल्लभो यस्तनयः सुतस्तस्य वार्ता प्रवृत्ति- स्तस्याः श्रवणमाकर्णनं तत्रं
लालसस्य सस्पृहस्य राज्ञो देव्या आर्य- शुकनासस्य दुःखेन प्लुतानि ब्रुडितान्यक्षीणि येष्वेवंविधानि मुखानि
वा
वक्राण्युत्प्राबल्येन वीक्ष्य निरीक्ष्य निर्विकारवदनानां शोकादिविकृ- तिवर्जितानामस्माकमवस्थान मशक्यमेव
दुष्करमेव । तैर्लेखहार- कैरिति विज्ञापितेति निवेदिता एवमेतत्सत्यमेवेदमित्युक्त्वा काद- म्बरी मेघनादमवादीद-
ब्रवीत् । किं तदित्याह – मेघनादेति । हे मेघनाद, अहं वेधिद्मि जानामि संस्तुतजनस्य परिचितजनस्यैतद -
निवे- दनरूपमनुचितमयोग्यमिति । तथापि गुरूणां श्वशुरादीनां चेतः- पीडामवेक्ष्य [^1]माणया विलोक्यमानया मयै-
तत्पूर्वोक्तमभिहितं कथितम् । इतरदप्येतद्भिन्नमपि दुःखमायाति [^2]तदा कीदृशं महावज्रपतनसदृशं महापविपात-
तुल्यं भवति । किं पुनरिदं दुःखम् । तदेतदपि 'तुष्यतु दुर्जनः' इति न्यायेन वज्रपतनोपमं दुःखमपि भवति
पततु । परमेभिर्लेखहारकैः सह श्रद्धेयं मान्यं वचो यस्य स तथा प्रत्यक्षं दृष्टोऽवलोकितः सकलवृत्तान्तः
समग्रोदन्तो येनैवं- विधोऽपर एतद्भिन्नः कश्चित्संप्रत्ययाय विश्वासाय व्रजतु गच्छतु ।
 
एवमादिष्टस्त्वेवं प्रोक्तस्तु मेघनादो व्यज्ञापयत् । हे देवि राजलोके नृपवर्गे तु का कथा का वार्ता कथ्यते ।
सकल एवायं मृभृत्यवर्गोऽपि सेवकसमूहोऽपि कन्दमूलफलान्यश्नातीत्येवंशील इति निश्चयं निर्ण- यं कृत्वा स्थितोऽ-
स्ति निषिद्धोऽस्ति । कोऽयं निश्चय इत्यपेक्षायामाह - यथेति । यथास्माकं मध्यादेकेनापि देवपादांश्चन्द्रा-
पीडचरणान्विना न प्रतीपं विलोमं गन्तव्यं न व्याघुट्य यातव्यमिति । मृ। भृत्या अपि अनुचरा अपि त एव ये
संपत्तेः संपत्तितः विपत्तौ विपदि सविशेषं पूर्वतोऽधिकं सेवन्ते सपर्यं कुर्वन्ति । समुन्नम्यमानाः समुन्नतिं
ति प्राप्य- माणाः सुतरामत्यर्थमवनमन्ति नम्रीभवन्ति । आलाप्यमानाः संभाष्यमाणाः सम आलापो येषां
ते समालापाः सदृशभाषिणो न संजायन्ते न भवन्ति । स्तूयमाना नूयमाना नोत्सिच्यन्ते नोत्सेकं गच्छन्ति ।
 
-
 
टिप्प० -
[^1]F. 'अवेक्षमाणया' इति स्थाने अयं पाठो लेखकदोष एव । यदि तु टीकाकारकृपा तर्हि तु
कोऽस्य पुरस्कार : ?
[^
2]F. 'इतरदपि दुःखमतर्कितं कीदृशं भवति, ( अर्थात् साधारण- प्रियवियोग् नित-
दुःखमेव अनिर्वाच्यं भवति ), इदं ( पुत्रवियोगजम् ) तु किं पुन: ? अयमेव पाठः ।
 
पाठा० -[^]G. संभाष्य.
[^
]G. अगमनं दूरत एव.
[^
]G. अवस्थानमनुचित मशक्यमेव .
[^
]G. अवेक्षमाणया; अपेक्षमाणया.
[^]G. आपतति; अतः .
[^
]G. श्रद्धेयवाक्य: .
[^
]. व्रजतु संप्रत्ययायेति.
[^
]G. भृत्यवर्गेऽपि.