कादम्बरी /680
This page has not been fully proofread.
तत्वीकृत्य तैः सह त्वरितकप्रेषणम् ] उत्तरभागः ।
६४७
च संभाव्य प्रेषितानामप्रोषितजीविताना मैगमनं तु दूरापेतमेव । गत्वापि दयिततमतनय-
वार्ता श्रवणलालसस्य राज्ञो देव्या आर्यशुकनासस्य दुःखप्लुताक्षीण्युद्वीक्ष्य मुखानि निर्विका -
रवदनानामस्माकमैव स्थानमशक्यमेव इति विज्ञापिता तैः 'एवमेतत्' इत्युक्त्वा कादम्बरी
मेघनादमवादीत्– 'मेघनाद, बेझि संस्तुतजनस्यैतदनुचितमिति । तथापि गुरूणां चेतःपी-
डामवेक्ष्यमाणया मयैवमभिहितम् । इतरदपि दुःखमायाति । कीदृशं भवति किं पुनरिं
महावज्रपतनसदृशम् । तदेतदपि भवतु । एभिः सहापरः कच्छ्रिद्धेयवचाः प्रत्यक्षदृष्ट-
सकलवृत्तान्तः संप्रत्ययाय व्रजतु' इति ।
एवमादिष्टस्तु मेघनादो व्यज्ञापयत् - 'देवि, राजलोके तु का कथा । मृत्यवर्गोऽपि
सकल एवायं कन्दमूलफलाशी निश्चयं कृत्वा स्थितो यथास्माकं मध्यादेकेनापि देवपादा-
न्विना न प्रतीपं गन्तव्यमिति । भृत्या अपि त एव ये संपत्तेर्विपत्तौ सविशेषं सेवन्ते ।
समुन्नम्यमानाः सुतरामवनमन्ति आलाध्यमाना न समालापाः संजायन्ते । स्तूयमाना
तानां प्रहितानामप्रोषितजीवितानाममृतानामगमनं तु दूराषेतमेव दूरापास्तमेव । द्वितीयं पक्षं प्रतिक्षिपन्नाह-
गत्वेति । तत्र गत्वापि दयिततमोऽतिवल्लभो यस्तनयः सुतस्तस्य वार्ता प्रवृत्तिस्तस्याः श्रवणमाकर्णनं तत्रं
लालसस्य सस्पृहस्य राज्ञो देव्या आर्यशुकनासस्य दुःखेन प्लुतानि ब्रुडितान्यक्षीणि येष्वेवंविधानि मुखानि
वाण्युत्प्राबल्येन वीक्ष्य निरीक्ष्य निर्विकारवदनानां शोकादिविकृतिवर्जितानामस्माकमवस्थान मशक्यमेव
दुष्करमेव । तैर्लेखहार कैरिति विज्ञापितेति निवेदिता एवमेतत्सत्यमेवेदमित्युक्त्वा कादम्बरी मेघनादमवादीद-
ब्रवीत् । किं तदित्याह – मेघनादेति । हे मेघनाद, अहं वेधि जानामि संस्तुतजनस्य परिचितजनस्यैतद -
निवेदनरूपमनुचितमयोग्यमिति । तथापि गुरूणां श्वशुरादीनां चेतःपीडामवेक्ष्यमाणया विलोक्यमानया मयै-
तत्पूर्वोक्तमभिहितं कथितम् । इतरदप्येतद्भिन्नमपि दुःखमायाति तदा कीदृशं महावज्रपतनसदृशं महापविपात-
तुल्यं भवति । किं पुनरिदं दुःखम् । तदेतदपि 'तुष्यतु दुर्जनः' इति न्यायेन वज्रपतनोपमं दुःखमपि भवति
पततु । परमेभिर्लेखहारकैः सह श्रद्धेयं मान्यं वचो यस्य स तथा प्रत्यक्षं दृष्टोऽवलोकितः सकलवृत्तान्तः
समग्रोदन्तो येनैवंविधोऽपर एतद्भिन्नः कश्चित्संप्रत्ययाय विश्वासाय व्रजतु गच्छतु ।
एवमादिष्टस्त्वेवं प्रोक्तस्तु मेघनादो व्यज्ञापयत् । हे देवि राजलोके नृपवर्गे तु का कथा का वार्ता कथ्यते ।
सकल एवायं मृत्यवर्गोऽपि सेवकसमूहोऽपि कन्दमूलफलान्यश्नातीत्येवंशील इति निश्चयं निर्णयं कृत्वा स्थितोऽ-
स्ति निषिद्धोऽस्ति । कोऽयं निश्चय इत्यपेक्षायामाह - यथेति । यथास्माकं मध्यादेकेनापि देवपादांश्चन्द्रा-
पीडचरणान्विना न प्रतीपं विलोमं गन्तव्यं न व्याघुट्य यातव्यमिति । मृत्या अपि अनुचरा अपि त एव ये
संपत्तेः संपत्तितः विपत्तौ विपदि सविशेषं पूर्वतोऽधिकं सेवन्ते सपर्यं कुर्वन्ति । समुन्नम्यमानाः समुन्नतिं
प्राप्यमाणाः सुतरामत्यर्थमवनमन्ति नम्रीभवन्ति । आलाप्यमानाः संभाष्यमाणाः सम आलापो येषां
ते समालापाः सदृशभाषिणो न संजायन्ते न भवन्ति । स्तूयमाना नूयमाना नोत्सिच्यन्ते नोत्सेकं गच्छन्ति ।
-
टिप्प० - 1 'अवेक्षमाणया' इति स्थाने अयं पाठो लेखकदोष एव । यदि तु टीकाकारकृपा तर्हि तु
कोऽस्य पुरस्कार : ? 2 'इतरदपि दुःखमतर्कितं कीदृशं भवति, ( अर्थात् साधारणप्रियवियोग्ज नित-
दुःखमेव अनिर्वाच्यं भवति ), इदं ( पुत्रवियोगजम् ) तु किं पुन: ? अयमेव पाठः ।
पाठा० -१ संभाष्य. २ अगमनं दूरत एव. ३ अवस्थानमनुचित मशक्यमेव ४ अवेक्षमाणया; अपेक्षमाणया.
५ आपतति; अतः ६ श्रद्धेयवाक्य: ७ नजतु संप्रत्ययायेति. ८ भृत्यवर्गेऽपि.