This page has not been fully proofread.

सभामण्डपवर्णनम् ]
 
पूर्वभागः ।
 
३५
 
मवाससुरभिणा चन्दनेनानुलिप्तसर्वाङ्गो विरचितामोदिमालती कुसुमशेखरः कृतवस्त्र परिवर्तो
रखकर्णपूरमात्राभरण: समुचितभोजनैः सह भूपतिभिराहारमभिमतरसास्वादजातप्रीतिरब-
निपो निर्वर्तयामास ।
 
परिपीर्तेधूमवर्तिरुपस्पृश्य च गृहीत ताम्बूलस्तस्मात्प्रमृष्टमणिकैट्टिमप्रदेशादुत्थाय नातिदूरव
तिन्या. ससंभ्रमप्रधावितया प्रतीहार्या प्रसारितं बाहुमवलम्ब्य वेत्रैलता ग्रहणप्रसङ्गादतिजर
ठकि-
सलयानुकारिकैरतलं करेण, अभ्यन्तरसंचार समुचितेन परिजनेनानुगम्यमानो, धवलांशुकंप-
रिगतपर्यन्ततया स्फटिकमणिमयभित्तिनिषैद्धमिवोपलक्ष्यमाणम् अतिसुरभिणा मृगनाभिप-
-
 

 
समग्र शरीरावयवा येन स तथा । इतो राज्ञो विशेषणानि - विरचितेति । विरचितो रचनाविशेषेण निर्मित
आमोदिमालतीकुसुमानि सुगन्धिजातिपुष्पाणि तेषां शेखरः शिरोभूषणं येन स तथा । कृतेति । कृतो विहितः
पूर्वपरिहितवस्त्रस्य परिवर्तः परावर्तो येन स तेथा । कृतं वस्त्रस्य क्षीरोदवस्त्रस्य परिवर्त उपरिवस्त्र येति वा ।
रत्नेति । रत्नखचितः कर्णपूरः कर्णाभरणं तन्मात्रमाभरणं यस्य स तथा । ननु नीचजनप्रदर्शनार्थ बहुतरभूषण-
धारणमिति मात्रपदव्यङ्ग्यम् । एकपको समुचितं योग्यं भोजनं येषामेवंभूतैर्भूपतिभिर्नृपतिभिः सहेति भिन्नक्रमः ।
अभीति । अभिमताः श्रेष्ठा ये रसा मधुरादयस्तेषामाखादो ग्रहणं तेन जातोत्पन्ना प्रीतिः संतुष्टियस्य स तथा ।
 
परीति । मुखसौगन्ध्यप्रतिपादनार्थ परि सामस्त्येन पीता गृहीता धूमवर्तिद्रव्यविशेषो येनस तथा । किं
कृत्वा । उपस्पृश्याचम्य। 'उपस्पर्शस्त्वाचमनम्' इति कोशः । पुनः किं कृत्वा । भुक्त्वा । भोजनं विधाय ।
आस्थानमण्डपं परिषन्मण्डपमयासी जगामेत्यन्वयः । गृहीतमात्तं ताम्बूलं नागवल्लीदलं येन स तथा ।
तस्मात्प्राङ्किर्दिष्टात् प्रसृष्टेति । प्रमृष्टं सातिशयं मृष्टं मणिकुट्टिमं यस्मिन्नेवंभूतात्प्रदेशात्स्थलात् उत्थाय ।
उत्थानं कृत्वेत्यर्थः । नातिदूरं वर्तते या सा तया । पुनः कीदृश्या । ससंभ्रमं सभयं प्रधावितया त्वरितं
गच्छन्त्या एवंभूतया । प्रतीहार्या । 'पुंवत्प्रगल्भा या नारी वक्तुं या च विचक्षणा । सा प्रतीहारी' इति ।
तया प्रसारितः संनिहितः कृतो बाहुर्भुजरतमवलम्ब्य । तदाश्रयमास्थायेत्यर्थः । परीति । परिजनेन सेव-
इति राज्ञो विशेषणम् । अथ सेवकजनं विशेषयन्नाह - वेत्रेति । वेत्रस्य वेतसस्य या
 
लता सरलयष्टिस्तस्या ग्रहणं धारणं तस्य प्रसङ्गोऽभ्यासस्त स्मादतिजर ठमतिकठिनं यत्किसलयं तदनुकरोति
तादृशं करतलं पाण्यधोभागो यस्यैवविधः करो हस्तो यस्य स तथा तेन । अभ्यन्तरेति । अभ्यन्तरं
बाह्यजनागम्यो यो गृहप्रदेशस्तत्र यः संचारः संचरणं तत्र समुचितो योग्यः स तथा तेन । अथा-
स्थानमण्डपं विशिनष्टि - धवलेति । धवलं शुभ्रं यत् अंशुकं वस्त्रं तेन परिगतः सहितो यः
पर्यन्तः प्रान्तस्तस्य भागस्तत्ता तया । स्फटिकमणिमयी या भित्तिः कुडधं तया निबद्धं निर्मितमिवोपलक्ष्य-
माणं दृश्यमानम् । अनेनांशुकानां श्वेतत्वसौक्ष्म्यातिशयो व्यज्यते । अतीति । अतिसुरभिणा मृग-
टिप्प० – 1 धृताऽपरवस इति यावत् । 2 पीता अग्निसंयोगेन धूमसंयुक्तताम्रकूटादिनिर्मिता वर्ति-
र्येन । 3 वेत्रलतेत्यादिविशेषणं प्रतीहार्या बाहो: । अन्यपरिजनस्य वेत्रग्रहणाऽसंबन्धात्, संबन्धेऽपि
अनुगामिन: परिजनस्य करतलकठोरतावर्णनेऽत्र स्वारस्याभावात् । तेनैवं पाठः अन्वयश्योचितः-
'प्रतीहार्या प्रसारित क्षेत्रलता ग्रहणप्रसङ्गादतिजरठ किसलयानुकारिकरतलं बाहुं करेण ( राजा इत्यर्थः)
भवलम्ब्य' । व्याख्या तु उपरितो ज्ञेया ।
 
पाठा०-
- १ कृताम्बर. २ परिवर्तो ३ निवर्तयामास ४ धूप; धूपधूम. ५ कुट्टिमात्. ६ प्रसारितबाहुम्;
प्रसारितम्. ७ अनवरतवेत्र. ८ प्रसङ्गानति; प्रसङ्गादनति ९ करतलकरेण १० जवनिकापरिगत ११ स्फटिकमय.
१२ नद्ध. १३ अतिसुरभि १४ परिमलेन.