This page has not been fully proofread.

THE
 
६४६
 
कादम्बरी ।
 
[ कथायाम्-
अन्यत्रादृष्टपूर्वो मनुष्येषु प्रत्यक्षीकृत एवायं वृत्तान्तो भवद्भिरपि । दृष्टं च पुरेवाक्षततनो-
देवस्य वदनम् । संभाषणापि या देवेन विना न संभवति सापि संभावितैव । तद्गम्यता-
मधुना वार्तोत्सुकमतेर्देवस्य पादमूलम् । न चायं प्रत्यक्षदृष्टोऽप्युपरवशरीराविनाशवृतान्तः
प्रकाशनीयः । दृष्टोऽस्माभिरच्छोदसरसि तिष्ठत्येतदेवावेदनीयम् । यॆतः कारणादुपरतिः
खल्ववश्यंभाविनी प्राणिनां कथंचित्प्रत्ययमुत्पादयति । शरीराविनाशः पुनः प्राणैर्विनाक-
तानां दृश्यमानोऽध्यश्रद्धेय एव । तदस्याऽऽवेदनेन सुदूरस्थितमपि गुरुजनं मरणसंशये
निक्षिप्य वर्तमाने प्रयोजनमेव नास्ति । प्रत्यागतजीविते जीवितेश्वरे स्वयमेवायमद्भुतभू-
तोऽर्थो गुरुजनेष्वाप्रकटीभविष्यति' ।
 
इत्येवमादिष्टाश्च ते व्यज्ञापयन्– 'देवि, किं' विज्ञापयामः । द्वाभ्यामेवापरिज्ञानमस्य
वस्तुनः संभवेद्गमनेनास्मदीयेनाकथनेन वा । तदस्माकं तु हस्ते द्वयमप्येतन्नास्ति । युवरा-
जवैशम्पायनयोर्वार्ता विना दुःखं तिष्ठता देवेन तारापीडेन देव्या विलासवत्यार्य शुकनासेन
 
9.9
 
ऽनवलोकितपूर्वोऽयं वृत्तान्तो भवद्भिरपि युष्माभिरपि प्रत्यक्षीकृत एष साक्षात्कृत एवेति भावः । अक्षत-
तनोरखण्डितशरीरस्य देवस्य चन्द्रापीडस्य वदनं पुरेव दृष्टमवलोकितम् । संभाषणाप्यन्योन्यालापोऽपि या
देवेन विना न संभवति नोपपद्यते सापि संभाषेणापि संभावितैव संभावनाविषयीकृतैव । तदिति हेत्वर्थे ।
तत्तस्मात्कारणाद्वार्तायां प्रवृत्तौ उत्सुकोत्कण्ठिता मतिर्बुद्धिर्यस्यैवंविधस्य देवस्य तारापीडस्य पादमूलं चरणस-
मीपं युष्माभिरधुना गम्यतां यायताम् । अयं प्रत्यक्षदृष्टोऽपि साक्षान्निरीक्षितोऽप्युपरतं निर्जीवं यच्छरीरं
तस्याविनाशस्तथैवावस्थानं तस्य वृत्तान्त उदन्तो न च प्रकाशनीयो न प्रकटीकार्यः । तार्हे किं वाच्यमित्याशये-
नाह–दृष्ट इति । अच्छोदसरसि तिष्ठति विद्यते, दृष्टो विलोकितोऽस्माभिरेतदेवावेदनीयं कथनीयम् । यतः
कारणादुपरतिर्मरणम् । खलु निश्चयेन । प्राणिनामवश्यंभाविनी कथंचित्प्रत्ययं विश्वासमुत्पादयति । प्राणैर्विना-
कृतानां रहितानां शरीराविनाश: पुनर्दृश्यमानोऽपि विलोक्यमानोऽप्यश्रद्धेय एवास्थारहित एव । तदस्या-
वेद ज्ञापन सुदूरस्थितमप्यति दविष्ठस्थितमपि गुरुजनं श्वशुरजनं मरणसंशये मृत्युद्वापरे निक्षिप्य वर्त-
माने प्रयोजनमेवार्थ एव नास्ति । प्रत्यागतं पश्चादागतं जीवितं यस्यैवंविधे जीवितं प्राणितं तस्य ईश्वरे
चन्द्रापीडे स्वयमेवायमद्भुतोऽर्थो गुरुजनेषु श्वशुरकुलेष्वा समन्तात्प्रकटीभविष्यति सर्वविदितं भविष्यति ।
 
इत्येवमादिष्टाः कथिताश्च ते व्यज्ञापयन्विज्ञप्तिं चक्रुः । हे देवि, किं विज्ञापयामः कां विज्ञप्तिं कुर्मः । अनि
वेदनरूपस्यास्य वस्तुनो द्वाभ्यामेवापरिज्ञानं संभवेत् । एतदेव स्पष्टयन्नाह - अगमनेनेति । अस्मदीये-
नाऽगमनेनाऽयानेनाऽकथनेन वाऽनिवेदनेन वा, तद्वयमप्यस्माकं तु हस्ते पाणौ नास्ति । अस्मदधीनं न विद्यत
इत्यर्थः । तत्प्रदर्शयन्नाह - युवराजेति । युवराजश्चन्द्रापीडो वैशम्पायनो मन्त्रिसुत तयोर्वार्ता प्रवृत्तिं विना
दुःखं तिष्ठता कृच्छ्रेण स्थितिं कुर्वता देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च संभाव्य विचार्य प्रेषि-
टिप्प० - 1 नीचैः पाठो द्रष्टव्यः । जीवाद्विना संभावना ( शरीरगता कान्तिः ) न संभवति, सा
भवद्भिः संभावितैव दृष्टैवेत्याशयः । 2 'भाइ' निपातस्य नासीत्स्वारस्यम् । अत एव 'गुरुजने जने वा
इति पाठगतस्य 'वा'पदस्य सत्तां सूचयति । 3 'संभाग्य' (सौम्याः ! गम्यतामित्यादरेण संबोध्य )
इत्येव पाठो योग्यः ।
 
पाठा० - १ प्रत्यक्षतः. २ च दृष्टं च; दुष्टो दुष्टं च ३ पुनरेवाक्षत; पुनरेवाविकृत ४ संभावनापि या जीवा-
द्विना. ५ यतः कारणम्; किं कारणम् ६ न कथंचित् ७ गुरुजने जने वा प्रकटीभविष्यति, ८ व्यशपयन्.
९ किंचिज्ज्ञापयामः, १० हस्तात्. ११ विना वार्तान्; वार्तया विना.