कादम्बरी /678
This page has been fully proofread once and needs a second look.
तमजीविता वयमपि यावत्पश्यामस्तं तावदनपेक्षितप्राणवृत्तयः
स्नेह [^१]सद्भावनया सद्भृत्या न पश्यन्ती [^२]त्यघटमानक- मिदम् । तद्परिलम्बितं प्रवेश्यताम् । पश्यन्तु देवम् । [^३]सफ- लयित्वागमनपरिश्रमेण सार्धं लोचने ततो यास्यन्ति' इत्याज्ञानन्तरं च मेघनादेन प्रवेशिता [^४]न्दूरत एव समं बाष्पपातेन पञ्चाङ्गालिङ्गि- तमहीतलांश्चन्द्रापीढचरणवन्दनसद्भावनिहितोत्पक्ष्मनिभृतदृष्टींस्ता- ननन्यदृष्टिश्चिरमिवालोक्य कादम्बरी स्वयमेवाभाषत -
'भद्रमुखाः, परित्यज्यतामयं क्रमागतस्नेहसद्भाव [^७]सुलभः शोकावेगः । [^८]यत्खलवनालोचितावधि दुःखावसानमेव दुःखं तन्मरणभीरोर्भवतु नाम शोकावेगाय । यत्पुनः सुखोदर्कं तत्पुरः- स्थितया सुखप्रत्याशयैवान्तरितं नापतति हृदये । तदेष वृत्तान्त एवंविधो येन न केवलमत्र निरवकाशता शोकस्य, प्रत्युत सुदूर- भिन्नवृत्तेर्विस्मयस्यावसरः । किमत्र परिबोधनेन,
[ टि ]-- प्रियं जीवितं प्राणितं येषामेवंविधा वयमपि तं चन्द्रापीडं यावत्पश्यामोऽवलोकयामस्तर्धेह्येते लेखहारका अन-
पेक्षिता असमी- हिताः प्राणवृत्तयो यैरेवंभूताः स्नेहस्य सद्भावो विद्यते यस्यामेवंविध- या स्नेह [^1]सद्भावनया सद्भुत्याः
सदनुचरा न पश्यन्ति न विलो- कयन्तीत्यघटमानकमयुक्तमिदम् । तदपरिलम्बितम विलम्बितं प्र-
वे [^2]श्यतां प्रवेशं
कार्यताम् । देवं चन्द्रापीडं पश्यन्त्ववलोकयन्तु । आगमनपरिश्रमेण प्रयासेन सार्धं लोचने नेत्रे सफलयित्वा
कृतार्थी- कृत्य ततस्तदनन्तरं यास्यन्ति गमिष्यन्तीत्याज्ञा निदेशस्तदनन्तरं च मेघनादेन प्रवेशितान्दूरत एव
दविष्ठादेव बाष्पपातेनाश्रुपातेन समं द्वे जानुनी, द्वौ करौ, उत्तमाङ्ग चेति पञ्चाङ्गैरालिङ्गितमाश्लिष्टं मही- तलं
भूमितलं यैस्ते तथा तान् । चन्द्रापीडस्य चरणयोः पादयोर्वन्दनं नमस्करणं तस्य [^3]सद्भावेऽस्तित्वे निहिताः
स्थापिता उदूर्ध्वं पक्षम नेत्ररोम यासामेवंविधा निभृता निश्चला दृष्टयो दृशो यैस्ते तथा तान् । न विद्यतेऽन्य-
स्मिन्दृष्टिर्यस्याः सैवंभूता कादम्बरी चिरमिव चिरसदृशमालोक्य निरीक्ष्य स्वयमेवात्मनैवाभाषतावोचत् ।
किं तदित्याह - भद्रेति । भो भद्रमुखाः शुभाननाः क्रमागतः परम्प- रायातो यः स्नेहसद्भावः प्रेमसत्ता
तेन सुलभः सुप्रापोऽयं शोकावेग: शुग्रयः परित्यज्यतां परिमुच्यताम् । अनालोचितोऽविमृष्टोऽवधिर्मर्या- दा यस्य
तत्तथा, दुःखमेवावसाने प्रान्ते यस्यैवं तद्दुःखमेव मैर[^4]मर णभीरोः कातरस्य । खल्विति निश्चयेन । शोकावेगाय
भवतु । यत्पुनः सुखः सुखकृदुदर्क उत्तरकालजन्यं फलं यस्यैवंभूतं दुःखं पुरःस्थितयाग्रे वर्तमानया सुखप्रत्या
शयैव सौख्यलिप्सयै [^5]वान्त- रितं व्यवहितं हृदये चित्ते नापतति नागच्छति । 'आयतिस्तूत्तरः काल उदर्कस्त-द्भवं
फलम्' इति हैमः । तत्तस्माद्धेतोरेष वृत्तान्त उदन्त एवंविधो येन कारणेन ( न ) केवलमत्र शोकस्य शुचो निरव --
काशता निःप्रवेशता, प्रत्युत सुदूरं [^6]भिन्नीना वृत्तिर्वर्तनं यस्यैवं- भूतस्य विस्मयस्याश्चर्यस्यावसरः प्रस्तावः । अत्रा-
स्मिन्विषये परि- बोधनेन ज्ञापनेन किम् । न किमपीत्यर्थः । एतदेव विशिनष्टि - अन्यत्र मनुष्येष्वदृष्टपूर्वो
टिप्प० – [^1]F. ' स्नेहसंभावनीयाः' इति पाठः । स्नेहेन संभावनीया आदरणीया: ।
[^2]F. 'प्रवेश्यन्ताम्'
( ते वार्ताहरा: ) इत्येव पाठः ।
[^3]F. असंबद्धमिदम् । वन्दने यः सद्भावः प्रणयस्तेन निहिता उत्पक्ष्मा
निभृता दृष्टिर्यैस्तानित्यर्थः ।
[^4]F. मरणागीद्भीतस्यैव तदिदं दुःखं भोक्तव्यम्, अन्यथा तत्समये मरणमेवो-.
चितमित्याशयः ।
[^5]F. सुखस्य प्रत्याशा दुःखे व्यवधानभूता भवति, अत एव दुःखं न जायत इत्यर्थः ।
[^6]F. अतिविरुद्धा वृत्तिर्यस्य, एवं विधस्थले विस्मयो न संभवती- त्याशयः ।
0
पाठा० -[^१]G. सद्भावनीया: .
[^२]G. अघटमानम् .
[^३]G. सफलयन्तु, .
[^४]G. अदूरतः, .
[^५]G. चिरमवलोक्य .
[^६]G. अलपत्.
[^७]G. सुलभ, .
[^८]G. न खलु.
स्नेह [^१]सद्भावनया सद्भृत्या न पश्यन्ती [^२]त्यघटमानक- मिदम् । तद्परिलम्बितं प्रवेश्यताम् । पश्यन्तु देवम् । [^३]सफ- लयित्वागमनपरिश्रमेण सार्धं लोचने ततो यास्यन्ति' इत्याज्ञानन्तरं च मेघनादेन प्रवेशिता [^४]न्दूरत एव समं बाष्पपातेन पञ्चाङ्गालिङ्गि- तमहीतलांश्चन्द्रापीढचरणवन्दनसद्भावनिहितोत्पक्ष्मनिभृतदृष्टींस्ता- ननन्यदृष्टिश्चिरमिवालोक्य कादम्बरी स्वयमेवाभाषत -
'भद्रमुखाः, परित्यज्यतामयं क्रमागतस्नेहसद्भाव [^७]सुलभः शोकावेगः । [^८]यत्खलवनालोचितावधि दुःखावसानमेव दुःखं तन्मरणभीरोर्भवतु नाम शोकावेगाय । यत्पुनः सुखोदर्कं तत्पुरः- स्थितया सुखप्रत्याशयैवान्तरितं नापतति हृदये । तदेष वृत्तान्त एवंविधो येन न केवलमत्र निरवकाशता शोकस्य, प्रत्युत सुदूर- भिन्नवृत्तेर्विस्मयस्यावसरः । किमत्र परिबोधनेन,
[ टि ]-- प्रियं जीवितं प्राणितं येषामेवंविधा वयमपि तं चन्द्रापीडं यावत्पश्यामोऽवलोकयामस्तर्
वे [^2]श्यतां प्रवेशं
किं तदित्याह - भद्रेति । भो भद्रमुखाः शुभाननाः क्रमागतः परम्प- रायातो यः स्नेहसद्भावः प्रेमसत्ता
काशता निःप्रवेशता, प्रत्युत सुदूरं [^6]भिन्
[^2]F. 'प्रवेश्यन्ताम्'
[^3]F. असंबद्धमिदम् । वन्दने यः सद्भावः प्रणयस्तेन निहिता उत्पक्ष्मा
[^4]F. मरणा
[^5]F. सुखस्य प्रत्याशा दुःखे व्यवधानभूता भवति, अत एव दुःखं न जायत इत्यर्थः ।
[^6]F. अतिविरुद्धा वृत्तिर्यस्य, एवं विधस्थले विस्मयो न संभवती- त्याशयः ।
पाठा० -
[^२]G. अघटमानम्
[^३]G. सफलयन्तु
[^४]G. अदूरतः
[^५]G. चिरमवलोक्य
[^६]G. अलपत्.
[^८]G. न खलु.