This page has not been fully proofread.

दूतानां सान्त्वनम् ]
 
उत्तरभागः ।
 
६४५
 
तमजीविता वयमपि यावत्पश्यामस्तं तावदनपेक्षितप्राणवृत्तयः स्नेहसद्भावनया सद्धृत्या
न पश्यन्तीत्यंघटमानकमिदम् । तद्परिलम्बितं प्रवेश्यताम् । पश्यन्तु देवम् । सफलयित्वा-
गमनपरिश्रमेण सार्धं लोचने ततो यास्यन्ति' इत्याज्ञानन्तरं च मेघनादेन प्रवेशितान्दूरत
एवं समं वाष्पपातेन पञ्चाङ्गालिङ्गितमहीतलांश्चन्द्रापीढचरणवन्दनसद्भावनिहितोत्पक्ष्मनिभृ-
तदृष्टींस्ताननन्यदृष्टिश्चिरमिवालोक्य कादम्बरी स्वयमेवाभाषत -
 
B
 
'भद्रमुखाः, परित्यज्यतामयं क्रमागत स्नेहसद्भाव सुलभः शोकावेगः । यंत्खलवनालोचिता-
वधि दुःखावसानमेव दुःखं तन्मरणभीरोर्भवतु नाम शोकावेगाय । यत्पुनः सुखोदकं
तत्पुरः स्थितया सुखप्रत्याशयैवान्तरितं नापतति हृदये । तदेष वृत्तान्त एवंविधो येन न केव-
लमन्त्र निरवकाशता शोकस्य, प्रत्युत सुदूरभिन्नवृत्तेर्विस्मयस्यावसरः । किमत्र परिबोधनेन,
 
प्रियं जीवितं प्राणितं येषामेवंविधा वयमपि तं चन्द्रापीडं यावत्पश्यामोऽवलोकयामस्तर्धेते लेखहारका अन-
पेक्षिता असमीहिताः प्राणवृत्तयो यैरेवंभूताः स्नेहस्य सद्भावो विद्यते यस्यामेवंविधया स्नेहसद्भावनया सद्भुत्याः
सदनुचरा न पश्यन्ति न विलोकयन्तीत्यघटमानकमयुक्तमिदम् । तदपरिलम्बितम विलम्बितं प्रवेश्यतां प्रवेशं
कार्यताम् । देवं चन्द्रापीडं पश्यन्त्ववलोकयन्तु । आगमनपरिश्रमेण प्रयासेन सार्धं लोचने नेत्रे सफलयित्वा
कृतार्थीकृत्य ततस्तदनन्तरं यास्यन्ति गमिष्यन्तीत्याज्ञा निदेशस्तदनन्तरं च मेघनादेन प्रवेशितान्दूरत एव
दविष्ठादेव बाष्पपातेनाश्रुपातेन समं द्वे जानुनी, द्वौ करौ, उत्तमाङ्ग चेति पञ्चाङ्गैरालिङ्गितमाश्लिष्टं महीतलं
भूमितलं यैस्ते तथा तान् । चन्द्रापीडस्य चरणयोः पादयोर्वन्दनं नमस्करणं तस्य सद्भावेऽस्तित्वे निहिताः
स्थापिता उदूर्ध्वं पक्षम नेत्ररोम यासामेवंविधा निभृता निश्चला दृष्टयो दृशो यैस्ते तथा तान् । न विद्यतेऽन्य-
स्मिन्दृष्टिर्यस्याः सैवंभूता कादम्बरी चिरमिव चिरसदृशमालोक्य निरीक्ष्य स्वयमेवात्मनैवाभाषतावोचत् ।
 
किं तदित्याह - भद्रेति । भो भद्रमुखाः शुभाननाः क्रमागतः परम्परायातो यः स्नेहसद्भावः प्रेमसत्ता
तेन सुलभः सुप्रापोऽयं शोकावेग: शुग्रयः परित्यज्यतां परिमुच्यताम् । अनालोचितोऽविमृष्टोऽवधिर्मर्यादा यस्य
तत्तथा, दुःखमेवावसाने प्रान्ते यस्यैवं तद्दुःखमेव मैरणभीरोः कातरस्य । खल्विति निश्चयेन । शोकावेगाय
भवतु । यत्पुनः सुखः सुखकृदुदर्क उत्तरकालजन्यं फलं यस्यैवंभूतं दुःखं पुरःस्थितयाग्रे वर्तमानया सुखप्रत्या
शयैव सौख्यलिप्सयैवान्तरितं व्यवहितं हृदये चित्ते नापतति नागच्छति । 'आयतिस्तूत्तरः काल उदर्कस्त-द्भवं
फलम्' इति हैमः । तत्तस्माद्धेतोरेष वृत्तान्त उदन्त एवंविधो येन कारणेन ( न ) केवलमत्र शोकस्य शुचो निरव -
काशता निःप्रवेशता, प्रत्युत सुदूरं भिन्नी वृत्तिर्वर्तनं यस्यैवंभूतस्य विस्मयस्याश्चर्यस्यावसरः प्रस्तावः । अत्रा-
स्मिन्विषये परिबोधनेन ज्ञापनेन किम् । न किमपीत्यर्थः । एतदेव विशिनष्टि - अन्यत्र मनुष्येष्वदृष्टपूर्वो
 
टिप्प० – 1 ' स्नेहसंभावनीयाः' इति पाठः । स्नेहेन संभावनीया आदरणीया: । 2 'प्रवेश्यन्ताम्'
( ते वार्ताहरा: ) इत्येव पाठः । 3 असंबद्धमिदम् । वन्दने यः सद्भावः प्रणयस्तेन निहिता उत्पक्ष्मा
निभृता दृष्टिर्यैस्तानित्यर्थः । 4 मरणागीतस्यैव तदिदं दुःखं भोक्तव्यम्, अन्यथा तत्समये मरणमेवो-.
चितमित्याशयः । 5 सुखस्य प्रत्याशा दुःखे व्यवधानभूता भवति, अत एव दुःखं न जायत इत्यर्थः ।
6 अतिविरुद्धा वृत्तिर्यस्य, एवं विधस्थले विस्मयो न संभवतीत्याशयः ।
 
0
 
पाठा० -१ सद्भावनीया: २ अघटमानम् ३ सफलयन्तु, ४ अदूरतः, ५ चिरमवलोक्य ६ अलपत्.
 
७ सुलभ, ८ न खलु.