2023-12-18 06:56:18 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथायाम्-
६४४
वानेव देवः । किमद्य जातं येन देवस्य पादारविन्द वन्दनाप्रसादेना- संविभज्य [^१]विसृज्यामहे ।
त एव वयं पादलमाग्नाश्चरणरेणवः । तद्विज्ञाप्य देवीं देवस्य युवराजस्य पादप्रणामेनास्माकं
सफलयतु भवानागमनपरिश्रमम् । अन्यथा भूमिमेतावतीमागत्य संभवे सत्य- प्रत्यक्षी [^२]कृतयु-
वराजशरीरा गताः सन्तः किं [^३]देवदेवेन तारापीडेन वक्तव्या वयम् । किं [^४]वास्माभिर्देवो
विज्ञापयितव्यः' इत्यावेदिते, 'देवी प्रमाणम्' इति विज्ञाप्य पुनस्तूष्णीं स्थितवति मेघनादे,
[^५]तत्काल समुत्प्रेक्षितानाश्वास्यश्वशुरकुलवैक्कुव्या, विलीयमानेव शुचा, अन्तःसंचितं बाष्पमाकु-
लिततरलतारकाभ्या- मापिबन्ती लोचनाभ्याम् ,[^६]उद्गदिकयावगृह्यमाणकण्ठी, कथं- कथमपि
चिरात्कादम्बरी प्रत्युवाच - 'स्थान एव हि तैरगमनमङ्गी- कृतम् । अनवलोक्य देवँ[^७]देवमेवमेव
याताः सन्तः [^८]किमुच्य- न्ताम् ? अपि च [^९]वृत्तान्त एवायमेवंविधो लोकातीतो यत्रावलो- कने-
नापि न संप्रत्ययः समुत्पद्यते, किं पुनरनालोकनेनापि । कैतवमात्रकोपदर्शित [^१०]प्रेमपल्लवा वल्लभ-

 
[ टि ]--
किं जातं किं जज्ञे येन देवस्य चन्द्रापीडस्य पादारविन्दस्य चरणकमलस्य वन्दना नमस्कृतिः सैव प्रसाद -
स्तेनासंविभज्यासंवि- भागीकृत्य विसृज्यामहे । ते तव वयं पादलग्नाश्चरणरेणवः पादधूलयः । तद्विज्ञाप्य विज्ञप्तिं
कृत्वा देवीं कादम्बरीं देवस्य युवराजस्य पाद- प्रणामेनास्माकमागमनपरिश्रमं भवान्मेघनादः सफलयतु
सफली- करोतु । अन्यथोक्तवैपरीत्ये । एतावतीं भूमिमागत्य संभवे सति दर्शनयोग्यतायां सत्यामप्रत्यक्षीकृतं
युवराजशरीरं यैस्तेऽप्रत्यक्षी- कृतयुवराजशरीरास्ते च ते गताश्चेति कर्मधारयः । एवंविधा गताः सन्तो
वयं देवदेवेन तारापीडेन किं वक्तव्याः किं कथनीयाः । अस्माभिर्देवस्तारापीडः किं विज्ञापयितव्यः किं वा
निवेदयितव्य इत्यावेदिते ज्ञापिते देवी प्रमाणं यदादिशति देवी तत्कर्तव्यमिति विज्ञाप्य निवेद्य तूष्णीं स्थित-
वति मौनं कृतवति मेघनादे, तत्कालं समुत्प्रेक्षितं वितर्कितमनाश्वास्यमाश्वसनावर्जितं श्वशुरकुलस्य स्वपति-
वंशस्य वैक्लव्यं विह्वलता यया सा तथा । शुचा शोकेन विलीयमानेव विलयं प्राप्यमाणेवान्तः संचितं मध्ये
संघातीकृतं बाष्पमध्श्र्वाकुलिते व्याकुलीभूते तरले चञ्चले तारके कनीनिके ययोरेवंभूताभ्यां लोचनाभ्यां नेत्रा-
भ्यामापिबन्ती पानं कुर्वन्ती, उत्प्राबल्येन गद्गदिकया गद्गदस्वरेणावगृह्यमाणो निरुध्यमानः कण्ठो यस्याः सा
तथा । कथंकथमपि महता कष्टेन चिराद्हुका-
लेन कादम्बरी प्रत्युवाच प्रत्यब्रवीत् । हि निश्चितम् । तैर्लेख हारकै-
हारकै
रगमनमयानजीङ्गीकृतं स्वीकृतं तत्स्थान एव युक्तमेव । देवं चन्द्रापीड- मनवलोक्यानिरीक्ष्यैवमेव यथागतं
तथैव याताः पश्चाद्वलिताः सन्तस्तत्र तैः किमुच्यतां किं कथ्यताम् । अपि चेति युक्त्यन्तरे । अयमेवंविधो
वृत्तान्त उदन्तो लोकातीतोऽनिर्वचन स्वरूपो यत्र यस्मिन्वृत्तान्तेऽवलोकनेनापि निरीक्षणेनापि
संप्रत्ययो न
विश्वासः समुत्पद्यते संजायते । अनालोकनेनाप्यनिरीक्षणेनापि किं पुन- र्भण्यते । सुतरामविश्वासो भवत्येवेति
भावः । कैतवमात्रेण केवलदम्भेनोपदर्शिताः प्रकटिताः प्रेम [^1]पल्लेवाः स्नेहकिसलया यैस्ते तथा वल्लभतममतिशयेन
 
टिप्प० –

 
[^
1]F. 'कैतवमात्रोपदर्शितप्रेमफला वल्लभतमजीविता वयमपि यावत्पश्यामस्तम्' इत्येव पाठः ।
कपटमात्रेण प्रकटितं प्रेमफलम्
( प्रणयकार्यम् ) याभिस्ताः, अस्माभिः स्वप्रणयकार्यं दम्भरूपेणैव प्रक-
टितं यदि अस्माकं प्रेम सत्यमभविष्यत् तर्हि अस्माभिरपि जीवितमत्यक्ष्यत । अत एव - चन्द्रापीडादपि
वल्लभतमं जीवितं यासाम् ईडइदृश्यो वयमिति ।
 
पाठा० -

 
[^
]G. विसर्ज्यामहे .
[^
]G. कृतशरीरा:
[^
]G. देवेन.
[^
]G. च.
[^
]G. तत्कालम् .
[^
]G. गद्गदिकावगृह्यमाणकण्ठा; उद्गदि-
कावगृह्यमाणकण्ठी. उद्गदिकया वगृह्यमाणकण्ठी.
[^
]G. देवदेवम्.
[^
]G. किमुच्यताम् ; किमुच्यन्तात एव.
[^
]G. अयमेवं विधो
लोकातीतो वृत्तान्तः.
[^
१०]G. फलाः
 
.