कादम्बरी /677
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
६४४
वानेव देवः । किमद्य जातं येन देवस्य पादारविन्द वन्दनाप्रसादेनासंविभज्य विसृज्यामहे ।
त एव वयं पादलमाचरणरेणवः । तद्विज्ञाप्य देवीं देवस्य युवराजस्य पादप्रणामेनास्माकं
सफलयतु भवानागमनपरिश्रमम् । अन्यथा भूमिमेतावतीमागत्य संभवे सत्यप्रत्यक्षीकृतयु-
वराजशरीरा गताः सन्तः किं देवदेवेन तारापीडेन वक्तव्या वयम् । किं वास्माभिर्देवो
विज्ञापयितव्यः' इत्यावेदिते, 'देवी प्रमाणम्' इति विज्ञाप्य पुनस्तूष्णीं स्थितवति मेघनादे,
तत्काल समुत्प्रेक्षितानाश्वास्यश्वशुरकुलवैक्कुव्या, विलीयमानेव शुचा, अन्तःसंचितं बाष्पमाकु-
लिततरलतारकाभ्यामापिबन्ती लोचनाभ्याम् उद्गदिकयावगृह्यमाणकण्ठी, कथंकथमपि
चिरात्कादम्बरी प्रत्युवाच - 'स्थान एव हि तैरगमनमङ्गीकृतम् । अनवलोक्य देवँमेवमेव
याताः सन्तः किमुच्यन्ताम् ? अपि च वृत्तान्त एवायमेवंविधो लोकातीतो यत्रावलोकने-
नापि न संप्रत्ययः समुत्पद्यते, किं पुनरनालोकनेनापि । कैतवमात्रकोपदर्शितप्रेमपल्लवा वल्लभ-
किं जातं किं जज्ञे येन देवस्य चन्द्रापीडस्य पादारविन्दस्य चरणकमलस्य वन्दना नमस्कृतिः सैव प्रसाद -
स्तेनासंविभज्यासंविभागीकृत्य विसृज्यामहे । ते तव वयं पादलग्नाश्चरणरेणवः पादधूलयः । तद्विज्ञाप्य विज्ञप्तिं
कृत्वा देवीं कादम्बरीं देवस्य युवराजस्य पादप्रणामेनास्माकमागमनपरिश्रमं भवान्मेघनादः सफलयतु
सफलीकरोतु । अन्यथोक्तवैपरीये । एतावतीं भूमिमागत्य संभवे सति दर्शनयोग्यतायां सत्यामप्रत्यक्षीकृतं
युवराजशरीरं यैस्तेऽप्रत्यक्षीकृतयुवराजशरीरास्ते च ते गताश्चेति कर्मधारयः । एवंविधा गताः सन्तो
वयं देवदेवेन तारापीडेन किं वक्तव्याः किं कथनीयाः । अस्माभिर्देवस्तारापीडः किं विज्ञापयितव्यः किं वा
निवेदयितव्य इत्यावेदिते ज्ञापिते देवी प्रमाणं यदादिशति देवी तत्कर्तव्यमिति विज्ञाप्य निवेद्य तूष्णीं स्थित-
वति मौनं कृतवति मेघनादे, तत्कालं समुत्प्रेक्षितं वितर्कितमनाश्वास्यमाश्वसनावर्जितं श्वशुरकुलस्य स्वपति-
वंशस्य वैक्लव्यं विह्वलता यया सा तथा । शुचा शोकेन विलीयमानेव विलयं प्राप्यमाणेवान्तः संचितं मध्ये
संघातीकृतं बाष्पमध्वाकुलिते व्याकुलीभूते तरले चञ्चले तारके कनीनिके ययोरेवंभूताभ्यां लोचनाभ्यां नेत्रा-
भ्यामापिबन्ती पानं कुर्वन्ती, उत्प्राबल्येन गद्गदिकया गद्गदस्वरेणावगृह्यमाणो निरुध्यमानः कण्ठो यस्याः सा
तथा । कथंकथमपि महता कष्टेन चिराद्वहुकालेन कादम्बरी प्रत्युवाच प्रत्यब्रवीत् । हि निश्चितम् । तैर्लेख -
हारकैरगमनमयानजीकृतं स्वीकृतं तत्स्थान एव युक्तमेव । देवं चन्द्रापीडमनवलोक्यानिरीक्ष्यैवमेव यथागतं
तथैव याताः पश्चाद्वलिताः सन्तस्तत्र तैः किमुच्यतां किं कथ्यताम् । अपि चेति युक्त्यन्तरे । अयमेवंविधो
वृत्तान्त उदन्तो लोकातीतोऽनिर्वचन स्वरूपो यत्र यस्मिन्वृत्तान्तेऽवलोकनेनापि निरीक्षणेनापि
संप्रत्ययो न
विश्वासः समुत्पद्यते संजायते । अनालोकनेनाप्यनिरीक्षणेनापि किं पुनर्भण्यते । सुतरामविश्वासो भवत्येवेति
भावः । कैतवमात्रेण केवलदम्भेनोपदर्शिताः प्रकटिताः प्रेमपल्लेवाः स्नेहकिसलया यैस्ते तथा वल्लभतममतिशयेन
टिप्प० – 1 'कैतवमात्रोपदर्शितप्रेमफला वल्लभतमजीविता वयमपि यावत्पश्यामस्तम्' इत्येव पाठः ।
कपटमात्रेण प्रकटितं प्रेमफलम् ( प्रणयकार्यम् ) याभिस्ताः, अस्माभिः स्वप्रणयकार्य दम्भरूपेणैव प्रक-
टितं यदि अस्माकं प्रेम सत्यमभविष्यत् तर्हि अस्माभिरपि जीवितमत्यक्ष्यत । अत एव - चन्द्रापीडादपि
वल्लभतमं जीवितं यासाम् ईडइयो वयमिति ।
पाठा० - १ विसर्ज्यामहे २ कृतशरीरा: ३ देवेन. ४ च. ५ तत्कालम् ६ गद्गदिकावगृहमाणकण्ठा; उद्गदि-
कावगृह्यमाणकण्ठी. उद्गदिकया वगृह्यमाणकण्ठी• ७ देवदेवम्. ८ किमुच्यताम् ; किमुच्यन्तात एव. ९ अयमेवं विधो
लोकातीतो वृत्तान्तः• १० फलाः•