कादम्बरी /676
This page has been fully proofread once and needs a second look.
र्वतस्तुरगखुरस [^१]हासु भूमिष्वेकदा चन्द्रापीडचरणमूलोपविष्टां कादम्बरीमुपसृत्य मेघनादो व्यजिज्ञपत् -
[^२]'देवो' युवराजश्चिरयतीत्युत्ताभ्यता हृदयेन देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च वार्ताहरा: प्रहिताः । ते च देव्या एव शोकशल्यघटनां परिहरद्भि [^३]र्यथावृत्तं सर्वमाख्यायास्माभि- रभिहिताः - [^४]भवतां हस्ते देवेन चन्द्रापीडेन न किंचित्प्रतिसंदे- ष्टव्यम् । नापि देव्या कादम्बर्या । तदकृतविलम्बा एव गत्वैवमखि- लवृत्तान्तं लो [^५]कार्तिहरायावनितल [^६]पतये देवदे [^७]वाय तारापीडायावेदयत' इत्येवमभिहितास्तु तेऽस्मान्मन्युनिर्भरा: प्रत्य- वदन्- 'यथा भवद्भिः कथितं तत्तथा । तिष्ठतु तावत्क्रमागतस्नेहो भक्तिरनुवृत्तिर्वा कार्यगौरवकृतं कुतूहलमेव देवावलोकनं प्रति बलात्प्रे [^८]रयत्यस्मान् । यदि [^९]भवतामपि वार्तामात्रकोप- लभ्य एवायमर्थः, ततो [^११]युज्यतेऽस्माकं भवद्भ्यः समुपलभ्य प्रतिगमनम् । अथ नयनविषयगामी [^१२]तदा वयमपि नेदृशा [^१३]एवापुण्यकर्माणो ये न पश्यन्ति देवम् । अस्माभिरपि चिरतरं [^१४]चरणपरिचर्यया देवस्य पवित्रित एवात्मा । अस्माकमपि सर्वदा दर्शनगोचरावस्थानेन [^१५]प्रसादं कृत-
[ टि ]-- र्तितेषु क्षुण्णेषु प्राञ्जलवर्मसु सुकुमारमार्गेषु सत्सु। जम्बा- लविगमात्कर्दमापगमात्सर्वतोऽभितस्तुरगानामश्वानां खुराः शफा- स्तान्सहन्ते क्षमन्ते इति तुरगखुरसहास्तास्वेवंविधासु भूमिषु वसु- धास्वेदैकस्मिन्समये चन्द्रापीडस्य चरणयोर्मूलं समीपं तत्रोपविष्टां स्थितां कादम्बरीमुपसृत्य समीपनागत्य मेघनादो व्यजिज्ञपज्ज्ञाप- यामास ।
किं तदित्याह – देवेति । देवो युवराजश्चन्द्रापीडश्चिरयति विलम्बय- तीत्युत्ताम्यतोत्प्राबल्येन खेदं कुर्वता हृदयेन चेतसा देवेन तारापीडे- न देव्या विलासवत्यार्यशुकनासेन च वार्ताहरा लेखहारकाः प्रहिताः प्रेषिताः । ते च वार्ताहरा देव्याः शोक एव शल्यं शरीरान्तर्गतलोह- खण्डस्तस्य घटनां रचनां परिहरद्भिर्वर्जयद्भिरस्माभिर्यथावृत्तं यथा- भूतं सर्वं समग्रमाख्याय कथयित्वाभिहिताः कथिताः। भवतां युष्मा- कं हस्ते देवेन चन्द्रापीडनं न किंचित्प्रतिसंदेष्टव्यं न प्रतिकथनीयम् । नापि देव्या कादम्बर्या । तत्तस्मात्कारणादकृतो विलम्बः काल-
क्षेपो यैरेवंविधा एव गत्वा गमनं कृत्वैवाखिलं समग्रं वृत्तान्तमुदन्तं लोकानां जनानामार्तिः पीडा तस्या हरायावनितलपतये भूतल- स्वामिने देवदेवाय राजाधिराजाय तारापीडायावेदयत [^1]न्यवेद- यत इत्येवमभिहिताः कथितास्तु तेऽस्मान्मन्योः क्रोधस्य निर्भरो येष्वेतादृशाः प्रत्यवदन्प्रत्यूचुः । किं तदित्याशयेनाह - यथेति । यथा येन प्रकारेण भवद्भिः कथितमुक्तं तत्तथा तेन प्रकारेणास्तु । क्रमा- गतः परम्परायातः स्नेहः प्रेम, भक्तिराराध्यत्वेन ज्ञानम्, अनुवृत्ति- रनुवर्तनं वा तिष्ठत्वास्ताम् । परं कार्यस्य कृत्यस्य गौरवं गुरुत्वं तेन कृतं विहितं कुतूहलमेव कौतुकमेव देवस्य चन्द्रापीडस्यावलोकनं वीक्षणं प्रत्यस्मान्बलाद्धठात्प्रेरयति नोदयति । यदि भवतामपि केवलं वार्ता वार्तामात्रकं तेन [^2]उपलभ्य प्राप्य एवायमर्थः प्रयो- जनम् । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । ततो
युज्यते घटतेऽस्माकं भवद्भ्यः [^3]समुपलभ्य कथयित्वा प्रति- गमनं प्रतियानम् । अथ नयनविषयं चक्षुर्गोचरं गच्छतीत्येवंशी- लोऽर्थः, तदा वयमपि नेदृशा एवापुण्यकर्माणोऽशुभकृत्यकारिणो ये न देवं पश्यन्त्यवलोकयन्ति । अस्माभिरपि देवस्य चिरतरं चिर- कालं चरणपरिचर्यया पादसेवयात्मा पवित्रित एव । अस्माकमपि सर्वदा सर्वकालं दर्शनगोचरमवलोकनविषयं यदवस्थानमवस्थिति- स्तेन प्रसादमनुग्रहं देवः कृतवानेव विहितवानेव । अद्य
[^1]F. 'निवेदयत' इत्येव । न्यवेदयतेति लेखकदोष एव स्यात् ।
[^2]F. अर्थात् प्रत्यक्षदर्शनस्य नावसरः, केवलं संवादप्राप्तिरेव वशः ।
[^3]F. प्रवृत्तिम् ( संवादम् ) प्राप्य गमनमित्यर्थ उचितः ।
[^१]G. सहासु संजातासु.
[^२]G. देवि देवः.
[^३]G. अस्माभिर्यथावृत्तं समाख्याय.
[^४]G. भवता तु हस्तेन.
[^५]G. अखिललोक.
[^६]G. हरये.
[^७]G. देवाय.
[^८]G. कारयति.
[^९]G. भवतां वार्ता.
[^१०]G. मात्रकलभ्य:.
[^११]G. युज्यत एव.
[^१२]G. अपि च.
[^१३]G. एव केऽप्यगुणाः.
[^१४]G. देवचरणपरिचर्यया.
[^१५]G. प्रसादीकृतवान्.