This page has not been fully proofread.

दूतानां कुमारदर्शनाग्रहः ]
 
उत्तरभागः ।
 
र्वतस्तुरगखुरसहासु भूमिध्वेकदा चन्द्रापीडचरणमूलोपविष्टां कादम्बरीमुपसृत्य मैघनादो
व्यजिज्ञपत्
-
 
'देवो' युवराजश्चिरयतीत्युत्ताभ्यता हृदयेन देवेन तारापीडेन देव्या विलासवत्यार्यशुक-
नासेन च वार्ताहरा: प्रहिताः । ते च देव्या एव शोकशल्यघटनां परिहरद्भिर्यथावृत्तं सर्व-
माख्यायास्माभिरभिहिताः - भवतां हस्ते देवेन चन्द्रापीडेन न किंचित्प्रतिसंदेष्टव्यम् । नापि
देव्या कादम्बर्या । तद्कृतविलम्बा एव गत्वैवमखिलवृत्तान्तं लोकार्तिहरायावनितलपतये
देवदेवाय तारांपीडायावेदयत' इत्येवमभिहितास्तु तेऽस्मान्मम्युनिर्भरा: प्रत्यवदन्- 'यथा
भवद्भिः कथितं तत्तथा । तिष्ठतु तावत्क्रमागतस्नेहो भक्तिरनुवृतिर्वा कार्यगौरवकृतं कुतू.
हलमेव देवावलोकनं प्रति बलात्प्रेरयत्यस्मान् । यदि भवतामपि वार्तामात्रकोपलभ्य एवा-
यमर्थः, ततो युज्यतेऽस्माकं भवद्भ्यः समुपलभ्य प्रतिगमनम् । अथ नयनविषयगामी तेंदा
वयमपि नेहशा एवापुण्यकर्माणो ये न पश्यन्ति देवम् । अस्माभिरपि चिरतरं चरणपरि-
चर्यया देवस्य पवित्रित एवात्मा । अस्माकमपि सर्वदा दर्शनगोचरावस्थानेन प्रसादं कृत-
4
 
र्तितेषु क्षुण्णेषु प्राञ्जलवसु सुकुमारमार्गेषु सत्सु । जम्बालविगमात्कर्दमापगमात्सर्वतोऽभितस्तुरगानामश्वानां
खुराः शफास्तान्सहन्ते क्षमन्ते इति तुरगखुरसहास्तास्वे॒वंविधासु भूमिषु वसुधास्खेकदैकस्मिन्समये चन्द्रापीड
चरणयोर्मूलं समीपं तत्रोपविष्टां स्थितां कादम्बरीमुपसृत्य समीपनागत्य मेघनादो व्यजिज्ञपज्ज्ञापयामास ।
 
किं तदित्याह – देवेति । देवो युवराजश्चन्द्रापीडश्चिरयति विलम्बयतीत्युत्ताम्यतोत्प्राबल्येन खेदं कुर्वता
हृदयेन चेतसा देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च वार्ताहरा लेखहारकाः प्रहिताः प्रेषिताः ।
ते च वार्ताहरा देव्याः शोक एव शल्यं शरीरान्तर्गत लोहखण्डस्तस्य घटनां रचनां परिहरद्भिर्वर्जयद्भिरस्मा-
भिर्यथावृत्तं यथाभूतं सर्वं समग्रमाख्याय कथयित्वाभिहिताः कथिताः । भवतां युष्माकं हस्ते देवेन चन्द्रा-
पीडनं न किंचित्प्रतिसंदेष्टव्यं न प्रतिकथनीयम् । नापि देव्या कादम्बर्या । तत्तस्मात्कारणादकृतो विलम्बः काल-
क्षेपो यैरेवंविधा एव गत्वा गमनं कृत्वैवाखिलं समग्र वृत्तान्तमुदन्तं लोकानां जनानामार्तिः पीडा तस्या हराया-
वनितलपतये भूतलखामिने देवदेवाय राजाधिराजाय तारापीडायावेदयत न्यवेदयत इत्येवमभिहिताः कथि-
तास्तु तेऽस्मान्मन्योः क्रोधस्य निर्भरो येष्वेतादृशाः प्रत्यवदन्प्रत्यूचुः । किं तदित्याशयेनाह - यथेति । यथा येन
प्रकारेण भवद्भिः कथितमुक्तं तत्तथा तेन प्रकारेणास्तु । क्रमागतः परम्परायातः स्नेहः प्रेम, भक्तिराराध्यत्वेन ज्ञानम्,
अनुवृत्तिरनुवर्तनं वा तिष्ठत्वास्ताम् । परं कार्यस्य कृत्यस्य गौरवं गुरुत्वं तेन कृतं विहितं कुतूहलमेव कौतुकमेव
देवस्य चन्द्रापीडस्यावलोकनं वीक्षणं प्रत्यस्मान्बलाद्धठात्प्रेरयति नोदयति । यदि भवतामपि केवलं वार्ता वार्ता -
मात्रकं तेन उपलभ्य प्राप्य एवायमर्थः प्रयोजनम् । 'अर्थोऽभिधेयरैवस्तुप्रयोजन निवृत्तिषु' इत्यमरः । ततो
युज्यते घटतेस्माकं भवद्भ्यः समुपलभ्य कथयित्वा प्रतिगमनं प्रतियानम् । अथ नयनविषयं चक्षुर्गोचरं गच्छ-
तीत्येवंशीलोऽर्थः, तदा वयमपि नेदृशा एवापुण्यकर्माणोऽशुभकृत्यकारिणो ये न देवं पश्यन्त्यवलोकयन्ति ।
अस्माभिरपि देवस्य चिरतरं चिरकालं चरणपरिचर्यया पादसेवयात्मा पवित्रित एव । अस्माकमपि सर्वदा सर्व-
कालं दर्शन गोचरमवलोकन विषयं यदवस्थानमवस्थितिस्तेन प्रसादमनुग्रहं देवः कृतवानेव विहितवानेव । अद्य
 
टिप्प० - 1 'निवेदयत' इत्येव । न्यवेदयतेति लेखकदोष एव स्यात् । 2 अर्थात् प्रत्यक्षदर्शनस्य
नावसरः, केवलं संबादप्राप्तिरेव वशः । 3 प्रवृत्तिम् ( संवादम् ) प्राध्य गमनमित्यर्थ उचितः ।
 
पाठा०-
-१ सहासु संजातासु. २ देवि देवः. ३ अस्माभिर्यथावृत्तं समाख्याय ४ भवता तु हस्तेन. ५ अखिल-
लोक. ६ हरये. ७ देवाय. ८ कारयति ९ भवतां वार्ता. १० मात्रकलभ्य: ११ युज्यत एव. १२ अपि च.
१३ एव केऽव्यगुणाः १४ देवचरणपरिचर्यया. १५ प्रसादीकृतवान्.