2023-12-21 08:20:08 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
६४२
कादम्बरी
[ कथायाम्-
चन्द्रमसोऽवतारः । [^१]तत्कल्याणै: शापावसाने जामात्रा सहैवानन्दवा [^२]बाष्पनिर्भराननारविन्दं ते
द्रक्ष्याव:' इत्यावेदिते निर्वृते [^३]नान्तरात्मना दैवतवदुपचरन्ती तञ्च्चन्द्रापीडशरीरमति- ष्ठत् ।
अथापगतवति जलदसमये, घननिरोधो [^४]द्वबन्धादिवोन्मुक्केते जीव- लोके, प्रसरन्तीष्विवा-.
शासु, फै[^५]फलभारावनम्रकलमवन [^६]पि - ञ्जरासु ग्रामसीमासु, काशकुसुमधवलास्वरण्यस्थलीषु, से
व्यतामुप- गतेषु [^७]प्रासादतलेषु, कहाह्लारहारिषु परल्वलेषु, [^८]कुर्मुदामोद- शीतलासु यामवतीषु, [^९]शेफा-
लिकापरिमलग्राहिषु निशावसान- मातरिश्वसु, चन्द्रप्रभाभिरामेषु प्रदोषेषु, उद्दामफुल्लेन्दीवर-
रजोवा- ससुरभिषु वाँ[^१०]वासरेषु, सै[^११]सलिलापसरणक्रमतरङ्ग्यमाणासु सुकुमारतीर सैकतरेखासु, सुखोत्तारतामापन्नास्वापगासु, पङ्कपरि-
त्तारतामापन्नास्वापगासु, पङ्कपरि हरणशुष्केष्वप्रहरूढ [^१२]तृणोलपच्छन्नेषु मन्दाश्यानकर्दमोद्भि-
द्यमानाभिनवपदवीकेषु पुनरपि [^१३]पार्थिवलोकेन प्रवर्तितेषु प्राञ्जलवर्त्मसु, जम्बालविगमात्स-
[ टि ]-- तत्कल्याणैर्भमङ्गलैः शापस्यावसाने प्रान्ते जामात्रा सहैवा- नन्दबाष्पेण निर्भरं [^1]यदाननारविन्ददं मुखपद्ममं ते तवावां
द्रक्ष्याव आलोकयिष्यावः । इत्यावेदिते कथिते निर्वृतेन स्वस्थेनान्तरात्मना दैवतवद्देववत्तञ्च्चन्द्रापीडशरीरमुप-
चरन्त्युपचर्यं कुर्वन्त्यतिष्ठस्थित- वती ।
अथेति । कियद्दिनानन्तरं जलदसमये मेघकालेऽपगतवति व्यति- क्रान्ते सति घनस्य मेघस्य निरोधोऽवग्रहः स एव बन्धस्तस्मादि-
ग्रहः स एव बन्धस्तस्मादि वोन्मुक्ते पृथग्भूते जीवलोके सत्याशासु दिशासु प्रसरन्तीष्विव प्रसर्पन्तीष्विव, फल-
भारेण सस्यवीवधेनावनम्राण्यवनतानि यानि कलमा: शालयस्तेषां वनान्यरण्यानि तैः पिञ्जरासु पीतरक्तासु
ग्रामसीमासूपशल्येषु । 'पीतरक्तस्तु पिञ्जर: ' हैमः । काशकुसुमै- र्धवलासु श्वेतास्वरण्यस्थलीषु, सेव्यतामुपगतेषु प्राप्तेषु [^2]प्रासा-
गतेषु प्राप्तेषु प्रासा
दतलेषु सौधानामधोभागेषु, कहाह्लारेण सौगन्धिकेन हारिषु मनोहरेषु पल्वलेष्वखातसरःसु,
कुमुदानां कैरवाणामामोदेन शीतलासु शिशिरासु यामवतीषु रात्रिषु, शेफालिका वल्लीविशेषस्तस्याः परिमलमा-
मोदं गृह्णन्तीत्येवंशीलेषु निशाया रात्रेरवसानं प्रान्तस्तस्य मातरिश्वसु वायुषु सत्सु, चन्द्रप्रभाः शशिज्योत्स्नास्ता-
भिरभिरामेषु मनोहरेषु प्रदोषेषु यामिनीमुखेषु । 'प्रदोषो यामिनीमुखम्' इति हैमः । उद्दामफुल्लानि विकसि-
तानि यानीन्दीवराणि नीलकमलानि तेषां रजः परागस्तस्य वासो गन्धस्तेन सुरभिषु सुगन्धिषु वासरेषु दिनेषु
सत्सु, सलिलस्य पानीयस्यापसरणं दूरीभवनं तस्य क्रमस्तेन तरङ्ग्यमा [^3]णासूत्कलिकायमानासु सुकुमारं मृदु यत्तीरं
तटं तै[^4]तस्य सैकतरेखासु जलोज्झितस्थलपङ्क्तिषु, सुखेनोत्तार उत्तरणं तस्य भावः सुखोत्तारता तामापन्नासु प्राप्ता-
स्खास्वापगासु नदीषु सत्सु, पङ्कस्य कर्दमस्य परिहरणं दूरीकरणं तेन शुष्केषु वहूल्लूरेषु । 'वल्लूरं स्याद्वनक्षेत्रे वाहनोष-
रयोरपि । वल्लूरमाहुः संशुष्कमांशूक- रमांसयोः' इति विश्वः । अप्रहंहतान्य [^5]विनष्टानि यानि रूढानि प्रादुर्भूतानि
तृणानि यवसानि तेषामुलपा: समूहास्तैश्छन्नेष्वाच्छादि- तेषु । मन्दस्तुच्छोंछो य आश्यानोऽशुष्कः कर्दमः पङ्कस्ते-
नोद्भिद्यमाना प्रादुर्भूयमानाभिनवा प्रत्यग्रा पदवी मार्गो येषु तानि तेषु । पुनरपि पार्थिव [^6]लोकेन राजलोकेन प्रव-
-
टिप्प० -
[^1]F. 'निर्भरमाननारविन्दम्' इति पाठः, समासचातुर्य टीकायाः स्यात् ।
[^2]F. वर्षासु किं
प्रासादतलानि परित्याज्यानीति राजाज्ञा ? तस्मात् - 'सेव्यतामुपगतेषु पादपतलेषु' इति पाठः । वर्षाभ-
यात् वृक्षाधस्तले न शक्यमवस्थातुम् । संप्रति तु न तथेत्याशयः ।
[^3]F. जलेऽपगतेपि वालुकासु तरङ्ग-
चिह्नः सतरङ्गास्विवेत्याशयः ।
[^4]F. सुकुमाराः तीरस्य सैकतरेखा यासां तासु ।
[^5]F. अप्रहतेषु खिलेषु
(धान्यनिवेशस्थानेषु ) रूढैः तृणोपलै : आवृतेषु । 'हेद्वे खिलाप्रहते समे' कोषः इति ।
[^6]F. 'पान्थलोकेनेत्येव
पाठः । राजभिः क्षुण्णे तु मार्गे दूरदूरं पान्थपदव्येव लुप्यते ।
पाठा० -
[^१ तस्]G. तत्कतिपयेनैव कालेन.
[^२]G. निर्भरमानन.
[^३]G. निर्वृत्तेन .
[^४]G. बन्धात् .
[^५]G. फलभरादवनत्रम्र ; कणिशभ-
रावनत्र. रावनम्र.
[^६]G. आपिञ्जरासु.
[^७]G. पादपतलेषु.
[^८]G. कुसुम .
[^९]G. शेफाली; काली.
[^१०]G. सलिलाशयेषु.
[^११ ]G.सलिलापसरणक्रम-
तरंगमाणपाण्डुसुकुमारतीरसैकत
रेखासु.
[^१२]G. रूढोलप, .
[^१३]G. पान्थलोकेन.