कादम्बरी /675
This page has not been fully proofread.
६४२
कादम्बरी
[ कथायाम्-
चन्द्रमसोऽवतारः । तत्कल्याणै: शापावसाने जामात्रा सहैवानन्दवाष्पनिर्भराननारविन्दं ते
द्रक्ष्याव:' इत्यावेदिते निर्वृतेनान्तरात्मना दैवतवदुपचरन्ती तञ्चन्द्रापीडशरीरमतिष्ठत् ।
अथापगतवति जलदसमये, घननिरोधोद्वन्धादिवोन्मुक्के जीवलोके, प्रसरन्तीष्विवा-.
शासु, फैलभारावनम्रकलमवनपि जरासु ग्रामसीमासु, काशकुसुमधवलास्वरण्यस्थलीषु, से
व्यतामुपगतेषु प्रासादतलेषु, कहारहारिषु परवलेषु, कुर्मुदामोदशीतलासु यामवतीषु, शेफा-
लिकापरिमलग्राहिषु निशावसानमातरिश्वसु, चन्द्रप्रभाभिरामेषु प्रदोषेषु, उद्दामफुल्लेन्दीवर-
रजोवाससुरभिषु वाँसरेषु, सैलिलापसरणक्रमतरयमाणासु सुकुमारतीर सैकतरेखासु, सुखो-
त्तारतामापन्नास्वापगासु, पङ्कपरिहरणशुष्केष्वप्रहरूढतृणोलपच्छन्नेषु मन्दाश्यानकर्दमोद्भि-
द्यमानाभिनवपदवीकेषु पुनरपि पार्थिवलोकेन प्रवर्तितेषु प्राञ्जलवर्त्मसु, जम्बालविगमात्स-
तत्कल्याणैर्भङ्गलैः शापस्यावसाने प्रान्ते जामात्रा सहैवानन्दबाष्पेण निर्भरं यदाननारविन्द मुखपद्म ते तवावां
द्रक्ष्याव आलोकयिष्यावः । इत्यावेदिते कथिते निर्वृतेन स्वस्थेनान्तरात्मना दैवतवद्देववत्तञ्चन्द्रापीडशरीरमुप-
चरन्त्युपचर्यं कुर्वन्त्यतिष्ठस्थितवती ।
अथेति । कियद्दिनानन्तरं जलदसमये मेघकालेऽपगतवति व्यतिक्रान्ते सति घनस्य मेघस्य निरोधोऽव-
ग्रहः स एव बन्धस्तस्मादिवोन्मुक्ते पृथग्भूते जीवलोके सत्याशासु दिशासु प्रसरन्तीष्विव प्रसर्पन्तीष्विव, फल-
भारेण सस्यवीवधेनावनम्राण्यवनतानि यानि कलमा: शालयस्तेषां वनान्यरण्यानि तैः पिञ्जरासु पीतरक्तासु
ग्रामसीमासूपशल्येषु । 'पीतरक्तस्तु पिञ्जर: ' हैमः । काशकुसुमैर्धवलासु श्वेतास्वरण्यस्थलीषु, सेव्यतामुप-
गतेषु प्राप्तेषु प्रासादतलेषु सौधानामधोभागेषु, कहारेण सौगन्धिकेन हारिषु मनोहरेषु पल्वलेष्वखातसरःसु,
कुमुदानां कैरवाणामामोदेन शीतलासु शिशिरासु यामवतीषु रात्रिषु, शेफालिका वल्लीविशेषस्तस्याः परिमलमा-
मोदं गृह्णन्तीत्येवंशीलेषु निशाया रात्रेरवसानं प्रान्तस्तस्य मातरिश्वसु वायुषु सत्सु, चन्द्रप्रभाः शशिज्योत्स्नास्ता-
भिरभिरामेषु मनोहरेषु प्रदोषेषु यामिनीमुखेषु । 'प्रदोषो यामिनीमुखम्' इति हैमः । उद्दामफुल्लानि विकसि-
तानि यानीन्दीवराणि नीलकमलानि तेषां रजः परागस्तस्य वासो गन्धस्तेन सुरभिषु सुगन्धिषु वासरेषु दिनेषु
सत्सु, सलिलस्य पानीयस्यापसरणं दूरीभवनं तस्य क्रमस्तेन तरङ्ग्यमाणासूत्कलिकायमानासु सुकुमारं मृदु यत्तीरं
तटं तैस्य सैकतरेखासु जलोज्झितस्थलपतिषु, सुखेनोत्तार उत्तरणं तस्य भावः सुखोत्तारता तामापन्नासु प्राप्ता-
स्खापगासु नदीषु सत्सु, पङ्कस्य कर्दमस्य परिहरणं दूरीकरणं तेन शुष्केषु वहूरेषु । 'वल्लूरं स्याद्वनक्षेत्रे वाहनोष-
रयोरपि । वल्लूरमाहुः संशुष्कमांशूकरमांसयोः' इति विश्वः । अप्रहंतान्यविनष्टानि यानि रूढानि प्रादुर्भूतानि
तृणानि यवसानि तेषामुलपा: समूहास्तैश्छन्नेष्वाच्छादितेषु । मन्दस्तुच्छों य आश्यानोऽशुष्कः कर्दमः पङ्कस्ते-
नोद्भिद्यमाना प्रादुर्भूयमानाभिनवा प्रत्यग्रा पदवी मार्गो येषु तानि तेषु । पुनरपि पार्थिवलोकेन राजलोकेन प्रव-
-
टिप्प० - 1 'निर्भरमाननारविन्दम्' इति पाठः, समासचातुर्य टीकायाः स्यात् । 2 वर्षासु किं
प्रासादतलानि परित्याज्यानीति राजाज्ञा ? तस्मात् - 'सेव्यतामुपगतेषु पादपतलेषु' इति पाठः । वर्षाभ-
यात् वृक्षाधस्तले न शक्यमवस्थातुम् । संप्रति तु न तथेत्याशयः । 3 जलेऽपगतेपि वालुकासु तरङ्ग-
चिह्नः सतरङ्गास्विवेत्याशयः । 4 सुकुमाराः तीरस्य सैकतरेखा यासां तासु । 5 अप्रहतेषु खिलेषु
(धान्यनिवेशस्थानेषु ) रूढैः तृणोपलै : आवृतेषु । 'हे खिलाप्रहते समे' कोषः इति । 6 'पान्थलोकेनेत्येव
पाठः । राजभिः क्षुण्णे तु मार्गे दूरदूरं पान्थपदव्येव लुप्यते ।
पाठा० - १ तस्कतिपयेनैव कालेन. २ निर्भरमानन. ३ निर्वृत्तेन ४ बन्धात् ५ फलभरादवनत्र; कणिशभ-
रावनत्र. ६ आपिञ्जरासु. ७ पादपतलेषु. ८ कुसुम ९ शेफाली; काली. १० सलिलाशयेषु. ११ सलिलापसरणक्रम-
तरंगमाणपाण्डुसुकुमारतीरसैकतरेखासु. १२ रूढोलप, १३ पान्थलोकेन.