कादम्बरी /674
This page has not been fully proofread.
शरीरस्य निर्विकारतया सर्वेषां प्रमोदः ] उत्तरभागः ।
६४१
अन्येयुश्च संजातढतरप्रत्यया चन्द्रापीडशरीराविनाशं प्रति मदलेखामवादीत् - 'प्रिय-
सखि, देवस्य शरीरमिदमुपचरन्तीर्भिरवश्यमाशयाऽऽशापक्षया दस्माभिरघुनात्र स्थातव्यम् ।
तदिदत्यद्भुतं वृत्तान्तं तातस्याम्बायाश्च गत्वा निवेदय । येन नान्यथा मां संभावयतो
दुःखेन वा मदीयेन न तिष्ठतः । यथा मामेवंविधां दुःखभागिनीमागत्य न पश्यतस्तथा
करिष्यसि । न शक्नोम्यहं तातमम्बां च दृष्ट्वा शोकवेगं धारयितुम् । मैया चोपरतमेव देव-
मालोक्य न रुदितम् । सा किमपरमधुना निःसंशयितजीविते देवे प्रतिपन्न नियमा रोदिमि'
इत्यभिधाय तां व्यसर्जयत् ।
गत्वाऽऽगतया च तया 'प्रियसखि, सिद्धं तेऽभिवाञ्छितम् । एवं संदिष्टं तातेन चित्र -
रथेनाम्बया च मदिरया गाढं गाढं पुनरालिङ्ग्य शिरस्युपाघ्राय च वक्तव्यावयोर्वचनात्
'वत्से, कालमेतावन्तं मनस्येव नैतदावयोरासीद्यथा जामातृसहिता वत्सा द्रष्टव्येति । तद्-
यमेवावयोः परमानन्दो यंद्वत्सया स्वयं जामाता वृतः । तत्राप्यपरं भगवतो लोकपालस्य
अन्येद्युरन्यस्मिन्काले चन्द्रापीडशरीरस्याविनाशोऽविनश्वरत्वं तं प्रति संजातः समुत्पन्नोऽतिशयैन दृष्टो दृढ़-
तरः प्रत्ययो विश्वासो यस्याः सा तथा मदलेखामवादीदभ्यधात् — हे श्रियसखि, देवस्य चन्द्रापीडस्येदं शरी-
रमुपचरन्तीभिरुपचारं कुर्वन्तीभिरा शापक्षयाच्छापक्षयं यावदस्माभिरघुना सांप्रतमवश्यं निश्चितमाशया वाञ्छ-
यात्राच्छोदसरसोऽभ्यर्णे स्थातव्यम् । तदिदमत्यद्भुतमत्याश्चर्य वृत्तान्तमुदन्तं तातस्याम्बायाश्च गत्वा निवेदय
कथय । येनान्यथान्यप्रकारेण मां कादम्बरी ( न ) संभावयतो विचारयतो मदीयेन दुःखेन वा तिष्ठतः स्थित-
वतः । यथा मामेवंविधां दुःखभागिनीमागत्य समेत्य न पश्यतो नालोकयतः मातापितराविति शेषः । तथा
त्वं करिष्यसि रचयिष्यसि । अहं तातं पितरमम्बां मातरं च दृष्ट्वावलोक्य शोकवेगं धारयितुं स्तम्भयितुं न
शक्नोमि न समर्था भवामि । मया चोपरतमेव निवृत्तमेव देवं चन्द्रापीडमालोक्य न रुदितं न रुदनं कृतम् ।
निःसंशयितं निश्चितं जीवितं यस्यैवंविधे देदे चन्द्रापीडे न रोदिमि इति प्रतिपन्नः स्वीकृतो नियमोऽभिग्रहो
यया सैवंविधा साहमधुना किमपरं रोदिमीत्यभिधायेत्युक्त्वा च तां मदलेखां व्यसर्जयत्प्राहिणोत् ।
गत्वाऽऽगतया च तत्र गमनं कृत्वा प्रतिनिवृत्तया च तथा मदलेखया हे प्रियसखि, ते तवाभिवाञ्छितं सिद्धं
निष्पन्नम् । तातेन चित्ररथेनाम्बया च मदिरयैवं संदिष्टं कथितम् । एवमिति किमित्यपेक्षाणमाह - गाढं
गाढ मिति । गाढं गाढं पुनः पुनरालियोपगूहनं कृत्वा शिरस्युत्तमाङ्ग उपाघ्रायावघ्राय चावयोर्वचनादस्मद्भा
षिताद्वक्तव्या भाषितव्या । हे वत्से, एतावन्तं कालं मनस्येव नैतदात्रयोरासीद्यथा जामातृसहिता दुहितुः
पतियुक्ता वत्सा पुत्री द्रष्टव्या विलोक्येति । तत्तस्मात्कारणादयमेवावयोः परम उत्कृष्ट आनन्दो यद्वत्सया पुत्र्या
सयमेव जामाता वृतोऽङ्गीकृतः 1 तत्रापि वरणेऽप्यपरमन्यद्भगवतो लोकपालस्य चन्द्रमसोऽवतारः ।
टिप्प० - 1 कियप्रलापो निवार्यताम् ? मदीयेन दुःखेन दुःखितौ न तिष्ठतः (न तिष्ठेताम् ) इत्या-
शयः । 2 कोयं प्रलापः ? दुहितुः पतियुक्ता वत्सेत्यनेन वत्साया अपि दुहिता, तस्याः पतिरित्यर्थः
प्रतीयते । निजपतियुक्ता वत्सा ( पुत्री ) द्रष्टव्येति सरला व्याख्या ।
पाठा० -१ प्रतिपद्य. २ अवश्यमा. ३ अत्यद्भुतं भूतम् ; अद्भुतरूपम्. ४ येनान्यथा. ५ यया ६ अपि.
७ गतागतया ८ गाढतरमालिङ्ग्य. ९ वत्सयैव,
का० ८१