कादम्बरी /673
This page has been fully proofread once and needs a second look.
वेदितश्च शापवृत्तान्त इति संभावयामि' इत्युक्तवत्यां मदलेखाया- मानन्दनिर्भरा महाश्वेतायै दर्शयित्वा चन्द्रापीडचरणतलनिबद्धजी- विताय राजपुत्रलोकायापि दर्शितवती ।
स तु विस्मयोत्फुल्ललोचन: सर्व एवावनितलनिवेशितशिराः प्रणम्य चन्द्रापीडचरणौ रचिताञ्जलिर्जानुद्वयेनावनौ स्थित्वा कादम्बरी [^१]व्यज्ञापयत् - 'देवि, त्वत्प्रभावोऽयं यदेवास्मानपुण्यवतः परि- त्यज्य दूरं गतस्यापि देवस्य तादृशमेवेदं [^३]प्रसन्नेन्दुमण्डलद्यु-
ति हारि वीक्ष्यते वदनम् । तथैव चेदं चरणयुगल [^४]मवभाति पुरेव [^५]प्रोत्फुल्लतामरसच्छायम् । तथैव च [^६]पुनः प्रसादा- [^७]नुभवप्रत्याशालालसं हृदयम् । अन्यच्चैत [^८]न्मनुष्यलोकेषु [^९]केन कदा वा दृष्टं श्रुतमनुभूतं वा यदस्माभिः पुण्यवद्भिः' इत्यभिहितवति राजलोके ससखीजना [^१०]सपरिजना चोत्थाय
स्वयमे [^११]वावचित्य देवतार्चनकुसुमानि स्नात्वा निर्वर्तितचन्द्रा- पीडशरीरपूजासंस्कारा शरीरस्थितिकरणायादिदेश सकलमेव राजलोकम् । निर्वर्तित [^१२]स्नानाशने च तस्मिन्नात्मनापि महा- श्वेतयोपनीतानि तयैव सह सपरिवारा फलान्यु [^१२]पभुक्तवती । कृताहारा च पुनस्तथैव चन्द्रापीडचरणा [^१४]वङ्केनोद्वहन्ती तमपि दिवसमनयत् ।
[ टि ]-- करोमि । इत्युक्तवत्यामिति प्रतिपादितवत्यां मदलेखाया- मानन्देन प्रमोदेन निर्भरा कादम्बरी महाश्वेतायै दर्शयित्वा
दर्शनं कारयित्वा चन्द्रापीडस्य चरणतले निबद्धं जीवितं प्राणितं यस्य स तथा तस्मै राजपुत्रलोकायापि दर्शितवती
दर्शनं कारितवती ।
स तु राजपुत्रलोको विस्मये (ऽऽचर्येणोत्फुल्ले विकसिते लोचने यस्य सः । सर्व एव समग्र एवावानेवनितले निवेशित
स्थापितं शिर उत्तमाङ्गं येन स तथा । चन्द्रापीडचरणौ प्रणम्य नमस्कृत्य रचिताञ्जलिर्नियो- जितकरो
जानुद्वयेन नलकीलयुग्मेनावनौ पृथिव्यां स्थित्वा कादम्ब- रीं व्यज्ञापयद्विज्ञप्तिमकार्षीत् । कां विज्ञप्तिं चकारेत्या-
शयेनाह—देवीति । हे देवि कादम्बरि, अयं त्वत्प्रभावो भवत्या एव माहात्म्यं यदेवास्मानपुण्यवतः सुकृत-
रहितान्परित्यज्य दूरीकृत्य दूरं दविष्टं गतस्यापि प्राप्तस्यापि देवस्य तादृशमेवेदं प्रसन्नं निर्मलं यदिन्दु- मण्डलं
चन्द्रन्तिबिम्बं तस्य द्यतिं कान्तिं हरतीत्येवंशीलं वदनं मुखं वीक्ष्यतेऽवलोक्यते । तथैवेदं चरणयुगलं पादयुग्म -
मवभाति शोभते । कीदृशम् । पुरेव पूर्ववदेव प्रोत्फुल्लं विकसितं यत्तामरसं कमलं तद्वच्छाया कान्तिर्यस्य
तत् । तथैव च पुनः प्रसादस्यानुभवप्रत्याशा- लालसं लम्पटं हृदयं चेतः । अन्यच्चैतन्मनुष्यलोकेष्वैदंयुगीन-
मर्त्यमर्त्य- लोकेषु केन वा कदा वा कस्मिन्काले वा दृष्टमवलोकितं श्रुतमाक- र्णितं यदस्माभिः पुण्यवद्भिरनु-
भूतं साक्षात्कृतम् । इत्यभिहितवति कथितवति राजलोके सह सखीजनेन वर्तते या सा ससखीजना,
सहपरिजनेन परिच्छदेन वर्तते या सा सपरिजना चोत्थायोत्थानं कृत्वा स्वयमेव देवतानामर्चनं पूजनं तदर्थं
कुसुमानि पुष्पाण्यवचि- त्यावचयं कृत्वा स्नात्वा स्नानं विधाय निर्वर्तितो विहितश्चन्द्रापीड- शरीरस्य पूजासंस्कारो
यया सा । तत्र पूजार्चा, संस्कारोऽधिवास- नम् । सकलमेव समग्रमेव राजलोकं शरीरस्य स्थितिर्यस्मात्तच्छ- रीर-
गाज--- तस्य करणं विधानं तदर्थमादिदेशादेशं दत्तवती । निर्व- र्तिते विहिते स्नानाशने येन स तथा तस्मिन् ।
तस्मिंश्च राजलोके सत्यात्मनापि स्वेनापि महाश्वेतयोपनीतान्यानीतानि तथा महाश्वेतया सह तथैव सपरिवारा
फलान्युपभुक्तवती । कृतो विहित आहारो ययैवंविधा च पुनस्तथैव पूर्ववदेव चन्द्रापीड चरणावङ्केनोत्सङ्गेनो- द्वहन्ती
रि
धारयन्ती तमपि दिवसमनयद्यापितवती ।
पाठा०—[^१]G. व्यज्ञपयत् ; व्यजिज्ञपत्.
[^२]G. तथैव.
[^३]G. प्रसन्नमिन्दुः प्रसन्नप्रभमिन्दुः .
[^४]G. अविकारि .
[^५]G. प्रणम्यते.
[^६]G. पुनःपुनः .
[^७]G. अनुभवन.
[^८]G. मानुष्येषु एतम्न्मनुष्येषु.
[^९]G. कदा वा; केन कदा.
[^१०]G. सपरिवारा.
[^११]G. उचितदेव-
तार्चनकुसुमा.
[^१२]G. निवर्तित .
[^१३]G. उपयुक्तवती.
[^१४]G. अङ्के कृत्वोद्वहन्ती.
स तु विस्मयोत्फुल्ललोचन: सर्व एवावनितलनिवेशितशिराः प्रणम्य चन्द्रापीडचरणौ रचिताञ्जलिर्जानुद्वयेनावनौ स्थित्वा कादम्बरी [^१]व्यज्ञापयत् - 'देवि, त्वत्प्रभावोऽयं यदेवास्मानपुण्यवतः परि- त्यज्य दूरं गतस्यापि देवस्य तादृशमेवेदं [^३]प्रसन्नेन्दुमण्डलद्यु-
ति हारि वीक्ष्यते वदनम् । तथैव चेदं चरणयुगल [^४]मवभाति पुरेव [^५]प्रोत्फुल्लतामरसच्छायम् । तथैव च [^६]पुनः प्रसादा- [^७]नुभवप्रत्याशालालसं हृदयम् । अन्यच्चैत [^८]न्मनुष्यलोकेषु [^९]केन कदा वा दृष्टं श्रुतमनुभूतं वा यदस्माभिः पुण्यवद्भिः' इत्यभिहितवति राजलोके ससखीजना [^१०]सपरिजना चोत्थाय
स्वयमे [^११]वावचित्य देवतार्चनकुसुमानि स्नात्वा निर्वर्तितचन्द्रा- पीडशरीरपूजासंस्कारा शरीरस्थितिकरणायादिदेश सकलमेव राजलोकम् । निर्वर्तित [^१२]स्नानाशने च तस्मिन्नात्मनापि महा- श्वेतयोपनीतानि तयैव सह सपरिवारा फलान्यु [^१२]पभुक्तवती । कृताहारा च पुनस्तथैव चन्द्रापीडचरणा [^१४]वङ्केनोद्वहन्ती तमपि दिवसमनयत् ।
[ टि ]-- करोमि । इत्युक्तवत्यामिति प्रतिपादितवत्यां मदलेखाया- मानन्देन प्रमोदेन निर्भरा कादम्बरी महाश्वेतायै दर्शयित्वा
स तु राजपुत्रलोको विस्मये
मर्त्य
सहपरिजनेन परिच्छदेन वर्तते या सा सपरिजना चोत्थायोत्थानं कृत्वा स्वयमेव देवतानामर्चनं पूजनं तदर्थं
गाज
रि
[^२]G. तथैव.
[^३]G. प्रसन्नमिन्दुः प्रसन्नप्रभमिन्दुः
[^४]G. अविकारि
[^५]G. प्रणम्यते.
[^६]G. पुनःपुनः
[^७]G. अनुभवन.
[^८]G. मानुष्येषु एत
[^९]G. कदा वा; केन कदा.
[^१०]G. सपरिवारा.
[^११]G. उचितदेव
[^१२]G. निवर्तित
[^१३]G. उपयुक्तवती.
[^१४]G. अङ्के कृत्वोद्वहन्ती.