कादम्बरी /673
This page has been fully proofread once and needs a second look.
कादम्बरी ।
[ कथायाम्-
स तु विस्मयोत्फुल्ललोचन: सर्व एवावनितलनिवेशितशिराः प्रणम्य चन्द्रापीडचरणौ
ति हा
स्वयमे [^११]वावचित्य देवतार्चनकुसुमानि स्नात्वा निर्वर्तितचन्द्रा- पीडशरीर
[ टि ]-
चरणोद्वहन्ती तमपि दिवसमनयत् ।
दर्शनं कारयित्वा चन्द्रापीडस्य चरणतले निबद्धं जीवितं प्राणितं यस्य स तथा तस्मै राजपुत्रलोकायापि दर्शितवती
दर्शनं कारितवती ।
स तु राजपुत्रलोको विस्मये (चर्येणोत्फुल्ले विकसिते लोचने यस्य सः । सर्व एव समग्र एवावानेतले निवेशित
स्थापितं शिर उत्तमाङ्गं येन स तथा । चन्द्रापीडचरणौ प्रणम्य नमस्कृत्य रचिताञ्जलिर्नियोजितकरो
जानुद्वयेन नलकीलयुग्मेनावनौ पृथिव्यां स्थित्वा कादम्बरीं व्यज्ञापयद्विज्ञप्तिमकार्षीत् । कां विज्ञप्तिं चकारेत्या-
शयेनाह—देवीति । हे देवि कादम्बरि, अयं त्वत्प्रभावो भवत्या एव माहात्म्यं यदेवास्मानपुण्यवतः सुकृत-
रहितान्परित्यज्य दूरीकृत्य दूरं दविष्टं गतस्यापि प्राप्तस्यापि देवस्य तादृशमेवेदं प्रसन्नं निर्मलं यदिन्दुमण्डलं
चन्द्रन्ति हरतीत्येवंशीलं वदनं मुखं वीक्ष्यतेऽवलोक्यते । तथैवेदं चरणयुगलं पादयुग्म -
मवभाति शोभते । कीदृशम् । पुरेव पूर्ववदेव प्रोत्फुल्लं विकसितं यत्तामरसं कमलं तद्वच्छाया कान्तिर्यस्य
तत् । तथैव च पुनः प्रसादस्यानुभवप्रत्याशालालसं लम्पटं हृदयं चेतः । अन्यच्चैतन्मनुष्यलोकेष्वैदंयुगीन-
मर्त्यलोकेषु केन वा कदा वा कस्मिन्काले वा दृष्टमवलोकितं श्रुतमाकर्णितं यदस्माभिः पुण्यवद्भिरनु-
भूतं साक्षात्कृतम् । इत्यभिहितवति कथितवति राजलोके सह सखीजनेन वर्तते या सा ससखीजना,
सहपरिजनेन परिच्छदेन वर्तते या सा सपरिजना चोत्थायोत्थानं कृत्वा स्वयमेव देवतानामर्चनं पूजनं तदर्थं
कुसुमानि पुष्पाण्यवचित्यावचयं कृत्वा स्नात्वा स्नानं विधाय निर्वर्तितो विहितश्चन्द्रापीडशरीरस्य पूजासंस्कारो
यया सा । तत्र पूजार्चा, संस्कारोऽधिवासनम् । सकलमेव समग्रमेव राजलोकं शरीरस्य स्थितिर्यस्मात्तच्छरीर-
गाज तस्य करणं विधानं तदर्थमादिदेशादेशं दत्तवती । निर्वर्तिते विहिते स्नानाशने येन स तथा तस्मिन् ।
तस्मिंश्च राजलोके सत्यात्मनापि स्वेनापि महाश्वेतयोपनीतान्यानीतानि तथा महाश्वेतया सह तथैव सपरिवारा
फलान्युपभुक्तवती । कृतो विहित आहारो ययैवंविधा च पुनस्तथैव पूर्ववदेव चन्द्रापीड चरणावङ्केनोत्सङ्गेनोद्वहन्ती
रि
धारयन्ती तमपि दिवसमनयद्यापितवती ।
पाठा०—१ व्यज्ञपयत् ; व्यजिज्ञपत्. २ तथैव. ३ प्रसन्नमिन्दुः प्रसन्नप्रभमिन्दुः ४ अविकारि ५ प्रणम्यते.
६ पुनःपुनः ७ अनुभवन. ८ मानुष्येषु एतम्मनुष्येषु. ९ कदा वा; केन कदा. १० सपरिवारा. ११ उचितदेव-
तार्चनकुसुमा. १२ निवर्तित १३ उपयुक्तवती. १४ अङ्के कृत्वोहन्ती.