2023-12-21 13:40:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

स्पृशन्ती पार्श्वस्थितां मदलेखा [^१]मवादीत्– 'प्रियसखि मदलेखे, न वेद्मि किं रुचेर्वशादुत निर्विकारतयैवेति, अहं तु तादृशीमेवेमां तनुमवलोकयामि । तत्त्वमपि तावदादरतो निरूपय' इति । एव- मुक्ता मदलेखा तां प्रत्यवादीत् - 'प्रियसखि, किमत्र निरूपणीयम् । अन्तरात्मनो [^२]विरहाद्व्यापरमात्रकमस्यामुपरतम् । अन्यत्ता- दृशमेवेदं [^३]व्याकोशशतपत्राकारं मनागप्यनुन्मुक्त श्रिया वदनम् । [^४]तथा च संवेल्लिताग्रभागः स्निग्ध: कुन्तलकलापः । तथैवेयमिन्दुशकलानुकारिण: कान्तिर्ललाटस्य । तादृशमेवेदमा- मुकुलितनीलोत्पलद्युतिहारि कर्णान्तायतं [^५]लोचनद्वयम् । तथैव [^६]चेमावहसतोऽपि [^७]विकसितविवोद्भासितकपोल- मूलौ सृक्कोपान्तौ । तादृश एवाभिनवकिसलयच्छविरधरः । तथैव चेदं विद्रुमालोहितनखाङ्गुलीतलं पाणिपादम् । तदे [^८]वेदम- विगलितसहजलावण्य सौकुमार्याणां सौष्ठव [^९]भङ्गानाम् । तत्सत्या [^१०]सा भारती, कपिञ्जला-
 
[ टि ]-- कारालेखितमिव चन्द्रापीडशरीरमवलोक्य निरीक्ष्य शनैः शनैर्मन्दमन्दं पाणिना हस्तेन स्पृशन्ती स्पर्शं कुर्वन्ती पार्श्वस्थितां मदलेखामवादीदभ्यधात् । किमुवाचेयाह – हे प्रियसखि मदलेखे, अहं वेद्मि न जाने ।
 
किं रुचेर्वशादभिलाषवशतः, उत निर्विकारतया निर्विकृतितया चेति । अहं तु तादृशीमेव पूर्वविलोकितामेवेमां तनुमवलोकयामि पश्यामि । तत्त्वमपि तावदादरतः संभ्रमतो निरूपय विलोकयेति । एवमुक्ता प्रतिपादिता मंदलेखा तां प्रत्यवादीत्प्रत्यवोचत् -- हे प्रिसयखि कादम्बरि, किमत्र निरूपणीर्ययं विलोकनीयम् । अन्त- रात्मनो-
ऽन्तर्वर्तिजीवस्य विरहाद्वियोगाव्यापारमात्रकं परिस्फुरणा- दिकमस्यां चन्द्रापीडस्य तनावुपरतं स्थितम् । अन्य-
तादृशमेव पूर्वावलोकितसदृशमेव । एतदेव स्पष्टयन्नाह - इदमिति । व्याकोशं विकसितं यच्छतपत्रं पद्मं तस्या-
[^1]कार आकृतिर्स्यैवंविधं मनागपीषदपि श्रियानुन्मुक्तमत्यक्तमिदं प्रत्यक्षगतं वदनं मुखम् । 'सहस्रपत्रं कमलं
शतपत्रं कुशेशयम्' इत्यमरः । तथा च संवेल्लित- [^2]श्चञ्चलोऽग्रभागो यस्यैवंभूतः स्निग्धः सचिकै [^3]क्कणः कुन्तल- कलापः
केशसमूहः । 'चिकुरः कुन्तलो वालः कचः केशः शिरो- रुहः' इत्यमरः । तथैव चेयसिन्दुशकलं चन्द्रखण्डमनु-
करोत्येवंशी- लस्य ललाटस्यालिकस्य कान्तिद्युतिः । तादृशमेवेदमामुकुलित- माकुङ्ड्मलितं यन्नीलोत्पलं नीलपद्मं तस्य
कान्तिं हरतीत्येवंशीलं कर्णान्तं यावदायतं विस्तीर्णं लोचनद्वयं नेत्रयुग्मम् । तथैव चाह- सतोऽपि हास्यम-
कुर्वतोऽपी मौ विकसिताविव विनिद्राविवोद्भासिते कपोलमूले याभ्यां तावुद्भासितकपोलमूलौ । एवंभूतौ सृक्कयो-
रोष्ठप्रान्तयोरुपान्तौ समीपौ । सृक्कशब्दोऽदन्तः क्लीबश्च'प्रान्ता- वोष्ठस्य सुकिणी' इत्यमरः । तादृश एवा-
भिनवो नूतनो यः किसलयः पल्लवस्तद्वच्छविः कान्तिर्यस्यैवंभूतोऽधर ओष्ठः । तथैव पूर्ववदेवेदं विद्रुमं हेमकन्दल-
स्तद्वदालोहितं रक्तं नखा नखराः अङ्गुलयः करशाखास्तलमधोभागः । नखाश्चाङ्गुलयश्च तलं चेतीतरेतर-
द्वन्द्वः । एतादृशौ पाणि [^4]पादौ यस्य तत् । 'द्वन्द्वश्च प्राणि -' इत्येकव- द्भावः । तदेवेदमविगलितमच्युतं यत्सह-
जलावण्यं स्वाभाविकलव- णिमा तेन सौ [^5]कुमार्याणां मृदूनामङ्गानां हस्तपादानां सौष्ठवं शोभनत्वम् । तत्तस्मात्कार-
णात्सा भारती वाणी सत्या यथार्था, कपिञ्जलेना वेदितो निवेदितश्च शापवृत्तान्तः सत्य इति संभावयामि संभावनां
 
टिप्प० - [^1]F. आकार इवाकारो यस्येत्यर्थः ।
[^
2]F. संवेल्लित आकुञ्चित इत्यर्थो वाव्यः । बोध्य: ।
[^
3]F. धन्यधन्यो
भवान्, 'चिक्कणः' इत्येव मुखारविन्दाद्वक्तव्यम् 'चिक्कणो मसृणः स्निग्धः' इति ह्यमरः ।
[^
4]F. स्वयमेक-
द्भावः सूच्यते, तथापि 'पाणिपादौ' लिख्यते ? अस्पष्टश्च विग्रहः, तस्मात् - विद्रुमवंदालोहितं नखा-
डु
ङ्गुलितलं यस्य तथाविधं पाणिपादमिति वक्तव्यम् ।
[^
5]F. धिक् । न विगलितं स्वाभाविकं लावण्यस्य सौकु
मार्यं येषाम् ।
 
पाठा० -[^]G. आभाष्येदमब्रवीत् - मदलेखे
[^
]G. विरहान्न व्यापारमात्रंकमस्याः परमन्यत् .
[^
]G. सकोश.
[^
]G. तथायं;
तथै
तयैवायम्.
[^
]G. लोचनयुगलम्.
[^
]G. एतौ .
[^
]G. विहसितौ.
[^
]G. तथैव चेदम्.
[^
]G. अङ्गानां लावण्यम्.
[^
१०]G. असौ.