कादम्बरी /672
This page has not been fully proofread.
शरीरस्य निर्विकारतया सर्वेषां प्रमोदः ] उत्तरभागः ।
६३९
स्पृशन्ती पार्श्वस्थितां मदलेखामवादीत्– 'प्रियसखि मदलेखे, न बेझि किं रुचेर्वशादुत
निर्विकारतयैवेति, अहं तु तादृशीमेवेमां तनुमवलोकयामि । तत्त्वमपि तावदादरतो निरूपय
इति । एवमुक्ता मदलेखा तां प्रत्यवादीत्
- 'प्रियसखि, किमत्र निरूपणीयम् । अन्तरात्मनो
विरह व्यापारमात्रकमस्यामुपरतम् । अन्यत्तादृशमेवेदं व्याकोशशतपत्राकारं मनागध्यनुन्मुक्तं
श्रिया वदनम् । तथा च संवेल्लिताप्रभागः स्निग्धं: कुन्तलकलापः । तथैवेयमिन्दुशकलानु-
कारिण: कान्तिर्ललाटस्य । तादृशमेवेदमामुकुलितनीलोत्पलद्युतिहारि कर्णान्तायतं लोचनद्व-
यम् । तथैव चेमावहसतोऽपि विकसित विवोद्भासितकपोलमूलौ सृकोपान्तौ । तादृश
एवाभिनव किसलयच्छविरधरः । तथैव चेदं विद्रुमालोहितनखामुलीतलं पाणिपादम् । तदे
वेदमविगलितसहजलावण्य सौकुमार्याणां सौष्ठवभङ्गानाम् । तत्सत्या सी भारती, कपिञ्जला-
कारालेखितमिव चन्द्रापीडशरीरमवलोक्य निरीक्ष्य शनैः शनैर्मन्दमन्दं पाणिना हस्तेन स्पृशन्ती स्पर्श कुर्वन्ती
पार्श्वस्थितां मदलेखामवादीदभ्यधात् । किमुवाचेयाह – हे प्रियसखि मदलेखे, अहं वेद्मि न जाने ।
किं रुचेर्वशादभिलाषवशतः, उत निर्विकारतया निर्विकृतितया चेति । अहं तु तादृशीमेव पूर्वविलोकिता मेवेमां
तनुमवलोकयामि पश्यामि । तत्त्वमपि तावदादरतः संभ्रमतो निरूपय विलोकयेति । एवमुक्ता प्रतिपादिता
मंदलेखा तां प्रत्यवादीत्प्रत्यवोचत् -- हे प्रिसयखि कादम्बरि, किमत्र निरूपणीर्य विलोकनीयम् । अन्तरात्मनो-
ऽन्तर्वर्तिजीवस्य विरहाद्वियोगाव्यापारमात्रकं परिस्फुरणादिकमस्यां चन्द्रापीडस्य तनावुपरतं स्थितम् । अन्य-
तादृशमेव पूर्वावलोकितसदृशमेव । एतदेव स्पष्टयन्नाह - इदमिति । व्याकोशं विकसितं यच्छतपत्रं पद्मं तस्या-
कार आकृतिर्थस्यैवंविधं मनागपीषदपि श्रियानुन्मुक्तमत्यक्तमिदं प्रत्यक्षगतं वदनं मुखम् । 'सहस्रपत्रं कमलं
शतपत्रं कुशेशयम्' इत्यमरः । तथा च संवेल्लितश्चञ्चलोऽग्रभागो यस्यैवंभूतः स्निग्धः सचिकैणः कुन्तलकलापः
केशसमूहः । 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः । तथैव चेयसिन्दुशकलं चन्द्रखण्डमनु-
करोत्येवंशीलस्य ललाटस्यालिकस्य कान्तिद्युतिः । तादृशमेवेदमामुकुलितमाकुङ्मलितं यन्नीलोत्पलं नीलपद्मं तस्य
तिं हरतीत्येवंशीलं कर्णान्तं यावदायतं विस्तीर्ण लोचनद्वयं नेत्रयुग्मम् । तथैव चाहसतोऽपि हास्यम-
कुर्वतोऽपी मौ विकसिताविव विनिद्राविवोद्भासिते कपोलमूले याभ्यां तावुद्भासितकपोलमूलौ । एवंभूतौ सृक्कयो-
रोष्ठप्रान्तयोरुपान्तौ समीपौ । सृक्कशब्दोऽदन्तः क्लीबश्च । 'प्रान्तावोष्ठस्य सुकिणी' इत्यमरः । तादृश एवा-
भिनवो नूतनो यः किसलयः पल्लवस्तद्वच्छविः कान्तिर्यस्यैवंभूतोऽधर ओष्ठः । तथैव पूर्ववदेवेदं विद्रुमं हेमकन्दल-
स्तद्वदालोहितं रक्तं नखा नखराः अङ्गुलयः करशाखास्तलमधोभागः । नखाश्चाङ्गुलयश्च तलं चेतीतरेतर-
द्वन्द्वः । एतादृशौ पाणिपादौ यस्य तत् । 'द्वन्द्वश्च प्राणि -' इत्येकवद्भावः । तदेवेदमविगलितमच्युतं यत्सह-
जलावण्यं स्वाभाविकलवणिमा तेन सौकुमार्याणां मृदूनामङ्गानां हस्तपादानां सौष्ठवं शोभनत्वम् । तत्तस्मात्कार-
णात्सा भारती वाणी सत्या यथार्था, कपिञ्जलेना वेदितो निवेदितश्च शापवृत्तान्तः सत्य इति संभावयामि संभावनां
टिप्प० - 1 आकार इवाकारो यस्येत्यर्थः । 2 संवेलित आकुञ्चित इत्यर्थो वाव्यः । 3 धन्यधन्यो
भवान्, 'चिक्कणः' इत्येव मुखारविन्दाद्वक्तव्यम् 'चिक्कणो मसृणः स्निग्धः' इति ह्यमरः । 4 स्वयमेक-
बद्भावः सूच्यते, तथापि 'पाणिपादौ' लिख्यते ? अस्पष्टश्च विग्रहः, तस्मात् - विद्रुमवंदालोहितं नखा-
डुलितलं यस्य तथाविधं पाणिपादमिति वक्तव्यम् । 5 धिक् । न विगलितं स्वाभाविकं लावण्यस्य सौकु
मार्य येषाम् ।
पाठा० -१ आभाष्येदमब्रवीत् - मदलेखे २ विरहान्न व्यापारमात्रंकमस्याः परमन्यत् ३ सकोश. ४ तथायं;
तथैवायम्. ५ लोचनयुगलम्. ६ एतौ . ७ विहसितौ. ८ तथैव चेदम्. ९ अङ्गानां लावण्यम्. १० असौ.