2023-12-24 09:47:13 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

गता, विगतजीवितेव शून्यमुखी, मुखावलोकिनी चन्द्रापीडस्य, [^१]पीडितोत्पीडितहृदयापि रक्षन्ती बाष्पमोक्षम्, उद्दामवृत्तेः शोकादपि मरणादपि कष्टतमामवस्थामनुभवन्ती, तथैवाङ्के समा- रोपितचन्द्रापीडचरणद्वया, दूरागमनखिन्नेनापि बुभुक्षितेनाप्यप्रति- पन्नस्नानपानभोजनेनापि मुक्तात्मना राजपुत्रलोकेन स्वपरिजनेन च सह निराहारा तमशेषं दिव [^२]समक्षिपत् ।
 
यथैव च दिवसमशेषं क्षपितवती तथैव तां गम्भीरमेघोपरोधभीमा- मनवरतगर्जितध्वानकम्पितहृदयबन्धामाबद्धकल [^३]कलापिकु-
लकेकाकोलाह [^४]लाकुलितचेतोवृत्तिमुद्दामदर्दुरारटितबधिरित- श्रोत्रेन्द्रियां दुर्दर्शतडित्संपातपीडि [^५]तदिश [^६]मतिनिह्रादा- पादितभुवनज्वरां ज्वलत्खद्योतनिकरजर्जरिततरु [^७]गहनतल- तमः प्रसरभीषणतमां तमस्विनीमपि दूरीकृत्याऽबलासहभुवं भी- तिम्, अपरित्यक्तचन्द्रा [^८]पीडचरणकमला, अचेतितस्वशरीर- खेदा जाग्रती समुपविष्टैव क्षणमिव क्षपां क्षपितवती । प्रातश्च तदु- न्मीलितं चित्रमिव चन्द्रापीडशरीर [^९]मवलोक्य शनैः शनैः पाणिना
 
[ टि ] -- रूपान्तरमाकारान्तरमागतेव । विगतजीवितेव गतप्राणे- वात एव शून्यमुखी । चन्द्रापीडस्य मुखमाननमवलोकते पश्यती- त्येवंशीला । पीडितेन पीडयोत्पीडितं व्याप्तं हृदयं वक्षो यस्या एवं- विधापि बाष्पमोक्षमश्रुपातं रक्षन्ती रुन्धन्त्युद्दामा कठिना वृत्तिर्वर्तनं यस्यैवंभूताच्छोकादपि खेदादपि मरणादपि मृत्योरपि कष्टतमाम- तिशयेन कृच्छ्रामवस्थां दशामनुभवन्ती साक्षात्कुर्वन्ती । तथैव पूर्वोक्तरीत्या अङ्क उत्सङ्गे समारोपितं स्थापितं चन्द्रापीडचरणद्वयं यया सा । दूराद्यदागमनं तेन खिन्नेनापि संजातखेदेनापि बुभुक्षिते- नापि क्षुधितेनाप्यप्रतिपन्नान्यनङ्गीकृतानि स्नानपानभोजनान्याप्लव- पानभक्षणानि येन स तथा तेन । [^1]मुक्त आत्मा येन स तथा तेनैवंविधेन राजपुत्रलोकेन स्वपरिजनेन च कादम्बरीपरिच्छदेन च सह निराहारा निर्गतभोजना तमशेषं समग्रं दिवसं दिनमक्षिपन्निर्ग- यामास ।
 
यथैव च येन प्रकारेण दिवसमशेषं क्षपितवती तथैव तेन प्रकारेण समुपविष्टैवासेदुष्येव क्षणमिव क्षपां त्रियामां क्षपितवतीति दूरेणा- न्वयः । 'शर्वरी क्षणदा क्षपा' इति हैमः । अथ तां विशेषयन्नाह – गम्भीरो यो मेघस्तेनोपरोधः प्रतिबन्धस्तेन भीमां भीषणाम् । अन- वरतं निरन्तरं यो गर्जितध्वानः स्तनितशब्दस्तेन कम्पितो हृदय- बन्धो भुजान्तरबन्धो यया सा ताम् । आबद्धं मिलितं य [^2]त्कलं मनोज्ञं कलापिकुलं मयूरान्ववायस्तस्य केका
वाण्यस्तासां कोला- हलेन कलकलेनाकुलिता व्याकुलीकृता चेतोवृत्तिर्यया सा ताम् । उद्दामं भीषणं यद्दर्दुराणां
मे
भेकानामारटितं पूत्कृतं तेन बधिरितं बधिरीकृतं श्रोत्रेन्द्रियं यया ताम् । दुर्दर्शो दुर्निरीक्ष्यो यस्तडित्संपातो
विद्युत्पातस्तेन पीडिता दिशः ककुभो यया सा ताम् । अतिनिर्ह्रा- देनातिगर्जितेनापादितो विहितो भुवनस्य ज्वर
स्तापो यया सा ताम् । ज्वलन्दीप्यमानो यः खद्योतानां ज्योतिरिङ्गणानां निकरः समूह- स्तेन जर्जरितं शिथिली-
भूतं यत्तरुगहनानां तलेऽधोभागे तमोऽन्ध- कारं तस्य प्रसरो विस्तारस्तेन भीषणतमा मतिभैरवामेतादृशीं तमस्विनीं
[^3]तमोयुक्तामप्यबलया सहभुवं सहोत्पन्नां भीतिं भयं दूरीकृत्य निराकृत्य । कीदृशी कादम्बरी । अपरित्यक्तमनु-
ज्झितं चंन्द्रापीडचरणकमलं यया सा । अचेतितोऽविचारितः स्वशरीरखेदो यया सा । [^4]जायँग्रती जागरा क्षण-
मिव क्षपां क्षपितवती । अन्वय- स्तु प्रागेवोक्तः । प्रातश्चेति । प्रत्यूषे तदुन्मीलितं विकसितं चित्रमिव चित्र-

[^1]F
.
 
टिप्प० -- 1
त्यक्तात्मना जीवित निरपेक्षेणेत्यर्थः ।
[^
2]F. कुले कलशब्दस्य किं स्वारस्यम् ? भाबद्धः कलः
( मधुराऽस्फुटः स्वनः ) यैः तथाविधानां कलापिकुलानां केकाको-
लाहलैरित्यादिरर्थो वाच्यः ।
[^
3]F. तमो-
युक्ता रानित्रिरिति विशिष्य वक्तव्यं, ज्योत्स्न्या अपि रात्रेः सत्वात् ।
[^
4]F. जागरा किम् ? अस्वपतीत्यर्थः ।
 
पाठा० - [^]G. पीडोत्पीडित .
[^
]G. अक्षपयत् .
[^
]G. कलापिकेका .
[^
]G. आकुलीकृत, .
[^
]G.  दृशम् .
[^
]G. अशनिनिर्घात तर्जनापा-
दित; अशनिनिर्हाह्रादतर्जनापादित .
[^
]G. गहनतर.
[^
]G. चरणाचेतितशरीर.
[^
]G. आलोक्य,
 
.