कादम्बरी /671
This page has been fully proofread once and needs a second look.
कादम्बरी ।
[ कथायाम्-
यथैव च दिवसमशेषं क्षपितवती तथैव तां गम्भीर
ल
भू
[ टि ] -- रूपान्तरमाकारान्तरमागतेव । विगतजीवितेव गतप्राणे- वात एव शून्यमुखी । चन्द्रापीडस्य मुखमाननमवलोकते
यथैव च येन प्रकारेण दिवसमशेषं क्षपितवती तथैव तेन प्रकारेण समुपवि
वाण्यस्तासां कोलाहलेन कलकलेनाकुलिता व्याकुलीकृता चेतोवृत्तिर्यया सा ताम् । उद्दामं भीषणं यद्दर्दुराणां
मेकानामारटितं पूत्कृतं तेन बधिरितं बधिरीकृतं श्रोत्रेन्द्रियं यया ताम् । दुर्दर्शो दुर्निरीक्ष्यो यस्तडित्संपातो
विद्युत्पातस्तेन पीडिता दिशः ककुभो यया सा ताम् । अतिनिदेनातिगर्जितेनापादितो विहितो भुवनस्य ज्वर
स्तापो यया सा ताम् । ज्वलन्दीप्यमानो यः खद्योतानां ज्योतिरिङ्गणानां निकरः समूहस्तेन जर्ज शिथिली-
भूतं यत्तरुगहनानां तलेऽधोभागे तमोऽन्धकारं तस्य प्रसरो विस्तारस्तेन भीषणतमा मतिभैरवामेतादृशीं तमस्विनीं
तमोयुक्तामप्यबलया सहभुवं सहोत्पन्नां भीतिं भयं दूरीकृत्य निराकृत्य । कीदृशी कादम्बरी । अपरित्यक्तमनु-
ज्झितं चंन्द्रापीडचरणकमलं यया सा । अचेतितोऽविचारितः स्वशरीरखेदो यया सा । जायँती जागरा क्षण-
मिव क्षपां क्षपितवती । अन्वयस्तु प्रागेवोक्तः । प्रातश्चेति । प्रत्यूषे तदुन्मीलितं विकसितं चित्रमिव चित्र-
.
टिप्प० -- 1 त्यक्तात्मना जीवित निरपेक्षेणेत्यर्थः । 2 कुले कलशब्दस्य किं स्वारस्यम् ? भाबद्धः कलः
( मधुराऽस्फुटः स्वनः ) यैः तथाविधानां कलापिकुलानां केकाकोलाहलैरित्यादिरर्थो वाच्यः । 3 तमो-
युक्ता रानिरिति विशिष्य वक्तव्यं, ज्योत्स्न्या अपि रात्रेः सत्वात् । 4 जागरा किम् ? अस्वपतीत्यर्थः ।
पाठा० - १ पीडोत्पीडित २ अक्षपयत् ३ कलापिकेका ४ आकुलीकृत, ५ दृशम् ६ अशनिनिर्घात तर्जनापा-
दित; अशनिनिर्हादतर्जनापादित ७ गहनतर. ८ चरणाचेतितशरीर. ९ आलोक्य,