कादम्बरी /671
This page has not been fully proofread.
६३८
कादम्बरी ।
[ कथायाम्-
गता, विगतजीवितेव शून्यमुखी, मुखावलोकिनी चन्द्रापीडस्य, पीडितोत्पीडितहृदयापि
रक्षन्ती बाष्पमोक्षम्, उद्दामवृत्तेः शोकादपि मरणादपि कष्टतमामवस्थामनुभवन्ती, तथैवाङ्के
समारोपितचन्द्रापीड चरणद्वया, दूरागमन खिन्नेनापि बुभुक्षितेनाप्य प्रतिपन्नस्नानपानभोजने-
नापि मुक्तात्मना राजपुत्रलोकेन स्वपरिजनेन च सह निराहारा तमशेषं दिवसेमक्षिपत् ।
यथैव च दिवसमशेषं क्षपितवती तथैव तां गम्भीर मेघोपरोधभी मामनवरतगर्जितध्वान-
कम्पित हृदयबन्धामाबद्धकल कैलापिकुल के का कोलाहलाकुलितचेतोवृत्तिमुद्दामदर्दुरारटितबधि-
रितश्रोत्रेन्द्रियां दुर्दर्शतडित्संपात पीडितै दिशर्मं
तिनिहादापादितभुवनज्वरां ज्वलत्खद्योतनिकर-
जर्जरितत रुगँहनतलतमः प्रसरभीषणतमां तमस्विनीमपि दूरीकृत्याऽबलासहभुवं भीतिम्,
अपरित्यक्तचन्द्रापीड चरणकमला, अचेतितस्वशरीरखेदा जाग्रती समुपविष्ठैव क्षणमिव क्षपां
भूपितवती । प्रातश्च तदुन्मीलितं चित्रमिव चन्द्रापीडशरीर मेवलोक्य शनैः शनैः पाणिना
रूपान्तरमाकारान्तरमागतेव । विगतजीवितेव गतप्राणेवात एव शून्यमुखी । चन्द्रापीडस्य मुखमाननमवलोकते
पश्यतीत्येवंशीला । पीडितेन पीडयोत्पीडितं व्याप्तं हृदयं वक्षो यस्या एवंविधापि बाष्पमोक्षमश्रुपातं रक्षन्ती रुन्ध-
न्त्युद्दामा कठिना वृत्तिर्वर्तनं यस्यैवंभूताच्छोकादपि खेदादपि मरणादपि मृत्योरपि कष्टतमामतिशयेन कृच्छ्रा-
मवस्थां दशामनुभवन्ती साक्षात्कुर्वन्ती । तथैव पूर्वोक्तरीत्या अङ्क उत्सङ्गे समारोपितं स्थापितं चन्द्रापीडचर -
णद्वयं यया सा । दूराद्यदागमनं तेन खिन्नेनापि संजातखेदेनापि बुभुक्षितेनापि क्षुधितेनाप्यप्रतिपन्नान्यनङ्गीकृ-
तानि स्नानपानभोजनान्याप्लवपानभक्षणानि येन स तथा तेन । मुक्त आत्मा येन स तथा तेनैवंविधेन राजपुत्र-
लोकेन स्वपरिजनेन च कादम्बरीपरिच्छदेन च सह निराहारा निर्गतभोजना तमशेषं समग्र दिवसं दिनमक्षि-
पर्गियामास ।
यथैव च येन प्रकारेण दिवसमशेषं क्षपितवती तथैव तेन प्रकारेण समुपविषैवासेदुष्येव क्षणमिव क्षपां
त्रियामां क्षपितवतीति दूरेणान्वयः । 'शर्वरी क्षणदा क्षपा' इति हैमः । अथ तां विशेषयन्नाह – गम्भीरो यो
मेघस्तेनोपरोधः प्रतिबन्धस्तेन भीमां भीषणाम् । अनवरतं निरन्तरं यो गर्जितध्वानः स्तनितशब्दस्तेन कम्पितो
हृदयबन्धो भुजान्तरबन्धो यया सा ताम् । आबद्धं मिलितं यत्कलं मनोज्ञं कलापिकुलं मयूरान्ववायस्तस्य केका
वाण्यस्तासां कोलाहलेन कलकलेनाकुलिता व्याकुलीकृता चेतोवृत्तिर्यया सा ताम् । उद्दामं भीषणं यद्दर्दुराणां
मेकानामारटितं पूत्कृतं तेन बधिरितं बधिरीकृतं श्रोत्रेन्द्रियं यया ताम् । दुर्दर्शो दुर्निरीक्ष्यो यस्तडित्संपातो
विद्युत्पातस्तेन पीडिता दिशः ककुभो यया सा ताम् । अतिनिदेनातिगर्जितेनापादितो विहितो भुवनस्य ज्वर
स्तापो यया सा ताम् । ज्वलन्दीप्यमानो यः खद्योतानां ज्योतिरिङ्गणानां निकरः समूहस्तेन जर्ज शिथिली-
भूतं यत्तरुगहनानां तलेऽधोभागे तमोऽन्धकारं तस्य प्रसरो विस्तारस्तेन भीषणतमा मतिभैरवामेतादृशीं तमस्विनीं
तमोयुक्तामप्यबलया सहभुवं सहोत्पन्नां भीतिं भयं दूरीकृत्य निराकृत्य । कीदृशी कादम्बरी । अपरित्यक्तमनु-
ज्झितं चंन्द्रापीडचरणकमलं यया सा । अचेतितोऽविचारितः स्वशरीरखेदो यया सा । जायँती जागरा क्षण-
मिव क्षपां क्षपितवती । अन्वयस्तु प्रागेवोक्तः । प्रातश्चेति । प्रत्यूषे तदुन्मीलितं विकसितं चित्रमिव चित्र-
.
टिप्प० -- 1 त्यक्तात्मना जीवित निरपेक्षेणेत्यर्थः । 2 कुले कलशब्दस्य किं स्वारस्यम् ? भाबद्धः कलः
( मधुराऽस्फुटः स्वनः ) यैः तथाविधानां कलापिकुलानां केकाकोलाहलैरित्यादिरर्थो वाच्यः । 3 तमो-
युक्ता रानिरिति विशिष्य वक्तव्यं, ज्योत्स्न्या अपि रात्रेः सत्वात् । 4 जागरा किम् ? अस्वपतीत्यर्थः ।
पाठा० - १ पीडोत्पीडित २ अक्षपयत् ३ कलापिकेका ४ आकुलीकृत, ५ दृशम् ६ अशनिनिर्घात तर्जनापा-
दित; अशनिनिर्हादतर्जनापादित ७ गहनतर. ८ चरणाचेतितशरीर. ९ आलोक्य,