2023-12-24 15:24:35 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

महाश्वेतोपदेशात्काद श्चन्द्रा० देहरक्षा ] उत्तरभागः ।
 
G
 
मृदश्म [^१]काष्ठमय्यः प्रतिमाः श्रेयस [^२]पूजासत्कारेणोपचर्यन्ते । किं पुनः [^३]प्रत्यक्षदेवस्य चन्द्रापी-
नामान्तरितस्य चन्द्रमसो मूर्तिरनाराधितंत् [^४]तप्रसन्ना' ।
 
."
 

 
इत्युक्तवत्यां [^५]महाश्वेतायां कादम्बरी [^६]तूष्णीमेवोत्थाय तरलिकया मदलेखया चोत्थाप्य
तामखेदार्हां चन्द्रापीडतनुम्, अन्यतरस्मिन्ञ्छीतवातातप [^७]वर्षादिसर्वद्वन्द्वदोषरहिते शिळाला- तले
[^८]शनैः शनैरखेदयन्ती [^९]स्थापयित्वा, अपनीतशृङ्गार- वेषाभरणा, मङ्गलमात्रकावस्थापितैककररत्नव-
लया, [^१०]स्नान- शुचिर्भूत्वा परिधाय धौतशुचिनी दुकूले, प्रक्षालय पुनःपुनर्गाढलग्न- मधरकिसलये
ताम्बूलरागम्, उपर्युपरि निमीलितागतबाष्पवेगोत्तर- ललोचना, अन्यदेव किंमध्[^११]किमप्यचिन्तितैम-
[^१२]तमनुत्प्रेक्षित मशि- क्षित मै[^१३]मनभ्यस्तमनुचित [^१४]मपूर्व वावं बाला बलाद्विलोम [^१५]प्रकृतिना कार्यपण्डितेन दग्धवे-
धसा कार्यमाणा, यान्येव सुरभिकुसुम [^१६]धूपानुलेपनानि सुरतोपभोगायानीतानि तैरेव देवतो-
चितामपचितिं संपाद्य चन्द्रापीडमूर्तीतौ, मूर्तिमतीव शोकवृत्ति- [^१७]रार्तरूपा रूपान्तरमिव [^१८]क्षणेनेवा-
4
 

 
[ टि ]--
काष्ठं दारु, एतैर्निष्पन्ना मृदश्मकाष्ठमय्यः प्रतिमा मूर्तयः श्रेयो हेतुत्वा [^1]च्छ्रेयसानि दधिदूर्वादीनि, पूजार्चा पुष्पा-
दिभिः, सत्कारोऽभ्युत्थानादिः, एतेषां समाहारस्तेनोपचर्यन्ते पूज्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रा [^2]पीडैना-
डनाम्नोऽन्तरितस्य व्यवहितस्य चन्द्रमसो मूर्तिः प्रतिमाऽनाराधितप्रसन्नानासेवितप्रमुदिता ।
 

 
इत्युक्तवत्यां महाश्वेतायां कादम्बरी तूष्णीं मौनमेवोत्थायोत्थानं कृत्वा तरलिकया मदलेखया च तामखेदा
र्हां सुकुमारां चन्द्रा- पीडतनुमुत्थाप्य तत उत्थानं कारयित्वान्यतरस्मिञ्छीतं च वातश्चातपश्च वर्षा च शीतवातात-
पवर्षारता एवादौ येषामेवंविधाः सर्वद्वन्द्वदोषास्तै रहिते वर्जिते । एतत्प्रतिपक्षग्रहणाद्वन्द्वता बोध्या । शिलातले
शनैः शनैर खेदयन्ती सादमनुत्पादयन्ती स्थापयित्वा स्थापनां कृत्वापनीतो दूरीकृतः शृङ्गारवेष आभरणं च
यया सा । केवलं मङ्गलार्थं मङ्गलमात्रमवस्थापितमवस्थानं कारित [^3]मेकंक- करे रत्नवलयं मणिकटकं यया सा । स्नाने-
नाप्लवेन शुचिर्भूत्वा धौते क्षालिते शुचिनी पवित्रे दुकूले चोचे परिधाय परिधानं कृत्वा गाढलग्नमत्यन्तसंयुक्त
मधरकिसलय ओष्ठपल्लवे ताम्बूलरागं पुनःपुनर्वारंवारं प्रक्षाल्य प्रक्षालनं कृत्वोपर्युपरि निमीलिते मुद्रित आगत-
बाष्पवेगे समागतनेत्राश्रुरये उत्तरललोचने चञ्चलनयने यस्याः सैवंविधा कादम्बरी बाला बलाद्धठाद्विलोमप्रकृ-
तिना प्रतिकूल- स्वभावेनाकार्यपण्डितेनाकृत्यविचक्षणेन दग्धवेधसा ज्वलितविधा- त्रान्यदेव किमप्यचिन्तितमविमृ-
ष्टमनुत्प्रेक्षितमतर्कितमशिक्षितम- पठितमनभ्यस्तं पुनःपुनः कृतापरिवर्तनमनुचितमन्याय्यमपूर्वम- भिनवं कार्यमाणा
विधाप्यमाना, यान्येव सुरभिकुसुमधूपानुलेपनानि सुरभिकुसुमानि सुगन्धपुष्पाणि, धूपः प्रसिद्धः, अनुलेपनं
विलेपनं एतानि सुरतस्य मैथुनस्योपभोगायानीतानि तैरेव चन्द्रापीडमूर्तीतौ चन्द्रापीडस्य शरीरे देवतोचितां देव-
योग्यामपचितिमर्चाचां संपाद्य विधाय । मूर्तिमती देहधारिणी शोकवृत्तिरिवार्तरूपा पीडास्वरूपा क्षणेनेव समयेनेव
 
टिप्प० -

 
[^
1]F. शुद्धः प्रलापः । 'प्रतिमाः श्रेयसे ( कल्याणाय) पूजानमस्का- रेणोपचर्यन्ते' इति पाठः ।
पूजासहितेन नमस्कारेण ।
[^
2]F. चन्द्रापीडेति नाम्ना अन्तरितस्य, वास्तवे चन्द्रमा एव नाम- मात्रस्य व्यव
धानमित्याशयः ।
[^
3]F. अवस्थापितः एकः करे रत्नवलयो यया, एकैकस्मिन् करे एकमेकं वलयमवस्थापि -
तमित्याशयः ।
 
पाठा -

 
[^
]G. काष्ठमया:.
[^
]G. पूजानमस्कारेण चन्द्रस्य .
[^
]G. प्रत्यक्षदेवस्य चन्द्रस्य .
[^
प्रपन्ना. ]G. प्रपन्ना.
[^
]G. महाश्वेतायां तूष्णीम्.

[^
]G. सहोत्थाय.
[^
]G. वर्षादिद्वन्द्व .
[^
]G. शनै:.
[^
]G. स्थापितावशेषरलवल्या ; स्थापयित्वापनीत शृङ्गारवेष- ग्रहणा; मङ्गलमात्रका -
वस्थापितैककरभूषणा.
[^
१० खा]G. स्नाता शुचिः . .
[^
११]G. किंचिदपि.
[^
१२]G. अनुपक्षिप्तम्.
[^
१३]G. अभ्यस्तम्.
[^
१४]G. अपूर्वं विलोम,
.
[^
१५]G. विलोमप्रकृतिना.
[^
१६]G. अनुलेपनादीनि .
[^
१७]G. आर्तिरूपा.
[^
१८]G. तत्क्षणेनैवागता; तत्क्षणेनैवोपगता,
 
.