कादम्बरी /670
This page has not been fully proofread.
महाश्वेतोपदेशात्काद श्चन्द्रा० देहरक्षा ] उत्तरभागः ।
G
मृदश्मकाष्ठमय्यः प्रतिमाः श्रेयसपूजासत्कारेणोपचर्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रापी-
इनामान्तरितस्य चन्द्रमसो मूर्तिरनाराधितंत्रसन्ना' ।
."
इत्युक्तवत्यां महाश्वेतायां कादम्बरी तूष्णीमेवोत्थाय तरलिकया मदलेखया चोत्थाप्य
तामखेदाहां चन्द्रापीडतनुम् अन्यतरस्मिन्छीतवातातपवर्षादिसर्वद्वन्द्वदोषरहिते शिळातले
शनैः शनैरखेदयन्ती स्थापयित्वा, अपनीतशृङ्गारवेषाभरणा, मङ्गलमात्रकावस्थापितैककररत्नव-
लया, स्नानशुचिर्भूत्वा परिधाय धौतशुचिनी दुकूले, प्रक्षालय पुनःपुनर्गाढलममधरकिसलये
ताम्बूलरागम्, उपर्युपरि निमीलितागतबाष्पवेगोत्तरललोचना, अन्यदेव किंमध्यचिन्तितैम-
नुत्प्रेक्षित मशिक्षित मैनभ्यस्तमनुचितमपूर्व वाला बलाद्विलोमप्रकृतिना कार्यपण्डितेन दग्धवे-
धसा कार्यमाणा, यान्येव सुरभिकुसुमधूपानुलेपनानि सुरतोपभोगायानीतानि तैरेव देवतो-
चितामपचितिं संपाद्य चन्द्रापीडमूर्ती, मूर्तिमतीव शोकवृत्तिशर्तरूपा रूपान्तरमिव क्षणेनेवा-
4
काष्ठं दारु, एतैर्निष्पन्ना मृदश्मकाष्ठमय्यः प्रतिमा मूर्तयः श्रेयो हेतुत्वाच्छ्रेयसानि दधिदूर्वादीनि, पूजार्चा पुष्पा-
दिभिः, सत्कारोऽभ्युत्थानादिः, एतेषां समाहारस्तेनोपचर्यन्ते पूज्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रापीडैना-
म्नोऽन्तरितस्य व्यवहितस्य चन्द्रमसो मूर्तिः प्रतिमाऽनाराधितप्रसन्नानासेवितप्रमुदिता ।
इत्युक्तवत्यां महाश्वेतायां कादम्बरी तूष्णीं मौनमेवोत्थायोत्थानं कृत्वा तरलिकया मदलेखया च तामखेदा
सुकुमारां चन्द्रापीडतनुमुत्थाप्य तत उत्थानं कारयित्वान्यतरस्मिञ्छीतं च वातश्चातपश्च वर्षा च शीतवातात-
पवर्षारता एवादौ येषामेवंविधाः सर्वद्वन्द्वदोषास्तै रहिते वर्जिते । एतत्प्रतिपक्षग्रहणाद्वन्द्वता बोध्या । शिलातले
शनैः शनैर खेदयन्ती सादमनुत्पादयन्ती स्थापयित्वा स्थापनां कृत्वापनीतो दूरीकृतः शृङ्गारवेष आभरणं च
यया सा । केवलं मङ्गलार्थं मङ्गलमात्रमवस्थापितमवस्थानं कारितमेकंकरे रत्नवलयं मणिकटकं यया सा । स्नाने-
नाप्लवेन शुचिर्भूत्वा धौते क्षालिते शुचिनी पवित्रे दुकूले चोचे परिधाय परिधानं कृत्वा गाढलग्नमत्यन्तसंयुक्त
मधरकिसलय ओष्ठपल्लवे ताम्बूलरागं पुनःपुनर्वारंवारं प्रक्षाल्य प्रक्षालनं कृत्वोपर्युपरि निमीलिते मुद्रित आगत-
बाष्पवेगे समागतनेत्राश्रुरये उत्तरललोचने चञ्चलनयने यस्याः सैवंविधा कादम्बरी बाला बलाद्धठाद्विलोमप्रकृ-
तिना प्रतिकूलस्वभावेनाकार्यपण्डितेनाकृत्यविचक्षणेन दग्धवेधसा ज्वलितविधात्रान्यदेव किमप्यचिन्तितमविमृ-
टमनुत्प्रेक्षितमतर्कितमशिक्षितम पठितमनभ्यस्तं पुनःपुनः कृतापरिवर्तनमनुचितमन्याय्यमपूर्वमभिनवं कार्यमाणा
विधाप्यमाना, यान्येव सुरभिकुसुमधूपानुलेपनानि सुरभिकुसुमानि सुगन्धपुष्पाणि, धूपः प्रसिद्धः, अनुलेपनं
विलेपनं एतानि सुरतस्य मैथुनस्योपभोगायानीतानि तैरेव चन्द्रापीडमूर्ती चन्द्रापीडस्य शरीरे देवतोचितां देव-
योग्यामपचितिमर्चा संपाद्य विधाय । मूर्तिमती देहधारिणी शोकवृत्तिरिवार्तरूपा पीडास्वरूपा क्षणेनेव समयेनेव
टिप्प० - 1 शुद्धः प्रलापः । 'प्रतिमाः श्रेयसे ( कल्याणाय) पूजानमस्कारेणोपचर्यन्ते' इति पाठः ।
पूजासहितेन नमस्कारेण । 2 चन्द्रापीडेति नाम्ना अन्तरितस्य, वास्तवे चन्द्रमा एव नाममात्रस्य व्यव
धानमित्याशयः । 3 अवस्थापितः एकः करे रखवलयो यया, एकैकस्मिन् करे एकमेकं वलयमवस्थापि -
तमित्याशयः ।
पाठा -१ काष्ठमया:. २ पूजानमस्कारेण चन्द्रस्य ३ प्रत्यक्षदेवस्य चन्द्रस्य ४ प्रपन्ना. ५ महाश्वेतायां तूष्णीम्.
६ सहोत्थाय. ७ वर्षादिद्वन्द्व ८ शनै: • ९ स्थापितावशेषरलवल्या; स्थापयित्वापनीत शृङ्गारवेषग्रहणा; मङ्गलमात्रका -
वस्थापितैककरभूषणा॰ १० खाता शुचिः . ११ किंचिदपि. १२ अनुपक्षिप्तम्. १३ अभ्यस्तम्० १४ अपूर्व विलोम,
१५ विलोमप्रकृतिना. १६ अनुलेपनादीनि १७ आर्तिरूपा. १८ तत्क्षणेनैवागता; तत्क्षणेनैवोपगता,