This page has not been fully proofread.

कादम्बरी ।
 
[ कथामुखे-
पटहझल्लरीमृदङ्गवेणुवीणा गीत निनादानुगम्यमानो बन्दिवृन्दकोलाहलाकुलो भुवनविवरव्यापी
लानशङ्खानामा पूर्यमाणानामँतिमुखरो ध्वनिः ।
 
३४
 
एवं च क्रमेण निर्वर्तितभिषेको विषधरनिर्मोकपरिलघुनी धवले परिधाय धातवाससी
शरदम्बरैकदेश इव जलक्षालन निर्मलतनुः, अतिधवलजलघरच्छेदशुचिना दुकूलपट्टपलवेन
तुहिनगिरिरिव गगनसरित्स्रोतसा कृतशिरोवेष्टनः, संपादितपितृजलक्रियो मत्रपूततोयाञ्ज-
लिना दिवसकरमभिप्रणम्य देवगृहमगमत् । उपरचितपशुपतिपूँजश्च निष्क्रम्य देवगृहन्त्रि-
वर्तिताग्निकार्यो विलेपनभूमौ झङ्कारिभिरलिकदम्बकैरनुबध्यमान
परिमलेन मृगमदकर्पूरकुड-

 
अतिशयेन मुखरस्तारतरः । किंविशिष्टानां शङ्खानाम् । आपूर्यमाणानां वाद्यमानानाम् । पुनः कीदृशः । अनेकेति ।
अनेकप्रकारेण प्रहता वादिताः पटवः समर्था ये पटहा दुन्दुभयो, झल्लरी प्रसिद्धा, मृदनो मर्दलो, वेणुर्वंशो, वीणा
बल्लकी, गीतानि गानानि चैतेषां यो निनादो ध्वनितं तमनुलक्षीकृत्य गम्यमानः प्रवर्तमानः । पुनः कीदृक् ।
बन्दिनां वैतालिकानां वृन्दं समुदायस्तस्य कोलाहलः कलकलस्तेनाकुलो मिश्रितः । पुनः कीदृक् । भुवनेति ।
भुवनानां विष्टपानां विवराणि छिद्राणि व्याप्नोतीत्येवंशीलः स तथा ।
 
एवं च पूर्वोक्तप्रकारेण क्रमेण परिपाट्या निर्वर्तितो विहितोऽभिषेको यस्यैवंभूतो नृपो देवगृहं चैत्यमगमदित्य-
न्वयः । किं कृत्वा । विषेति । विषधराः सर्पास्तेषां निर्मोकः कञ्चुस्तद्वत्परिलघुनी अतिहखे, अत एव धवले
शुभ्रे धौतवाससी प्रक्षालितवस्त्रे परिधाय परिधानं कृत्वा । अथ राजानं विशिष्टि - जलेति । जलेन पानीयेन
यत्क्षालनं तेन निर्मलापगतमला तनुः शरीरं यस्य स तथा । किमिव । शरदिति । शरदि घनात्यये यदम्बरं
गगनं तस्यैकदेशो भागस्तद्वदिव । शरद्यम्बरं वृष्टेरभावान्निर्मलमेवेति भावः । अतीति । अतिधवलो यो जलधरो
मेघस्तस्य यश्छेदः खण्डस्तद्वच्छुचिना निर्मलेन दुकूलपट्टः क्षीरोदपट्टस्तस्य पल्लवेन प्रान्तेन कृतं विहितं शिरोवेष्टन-
मुत्तमाङ्गवेष्टनं येन स तथा । क इव । तुहिनगिरिरिव हिमाचल इव । गिरिं विशिनष्टि --- गगनेति । गगनसरि
त्स्वर्धुनी तस्या यत्स्रोतः प्रवाहस्तेन कृतशिरोवेष्टनः । संपादित इति । संपादिता निष्पादिता पितॄणां जलक्रिया
येन सः । मन्त्रेति । मन्त्रैर्वेदोक्तैः पूतं पवित्रं यत्तोयं पानीयं तस्याञ्जलिः प्रसृतिस्तेन दिवसकर सूर्यमंभि संमुख
प्रणम्य नमस्कृत्य। उपेति । उपरचिता निष्पादिता पशुपैंतेरीश्वरस्य पूजार्चा येनैवंभूतः सन् तस्माद्देवगृहान्निष्क्रम्य
बहिरागत्यावनिपो राजाऽऽहारमशनादिकं निर्वर्तयामास कृतवानित्यन्वयः । निर्वर्तितेति । निर्वर्तितं कृतमग्निकार्य
होमादि येन सः । विलेपनभूमावङ्गरागनिष्पादनस्थले झङ्कारिभिर्झङ्कारशब्द कुर्वाणैरलिकदम्बकैमरसमूहैरनुबध्य-
मानो नियम्यमानः परिमल आमोदो यस्य स तथा तेन । मृगमदेति । मृगमदः कस्तूरी, कर्पूरो हिमवालुका,
कुङ्कुमं केसरमेतेषां यो वासः परिमलस्तेन सुरभिणा सुगन्धिनैवंभूतेन चन्दनेन मलयजेनानुलिप्तं लेपितं सर्वाङ्ग
 
टिप्प० - 1 भतीवसूक्ष्मे । 2 क्षौम ( कौशेय) पट एव पलवः नवकिसलयः । अथवा क्षौमपट्टस्य
पलवो विस्तारः 'पल्लवो बिस्तरे पिङ्गे किसले विटपे वने' इति त्रिकाण्डशेषः । तेन । शिवपूजनापूर्व
सूर्याय अर्घ्यदानं तु ' यावश दीयते चार्ग्य भास्कराय महात्मने । तावन्न पूंजयेद्विष्णुं शङ्करं वा महे
श्वरीम् ॥ इति ब्रह्मपुराणवचनात् ।
 
पाठा-
-१ कोलाहलो. २ भवन. ३ मुखरो. ४ निवर्तित ५ धौते वाससी. ६ आक्षालन. ७ विमल. ८ संपन्न.
९ उपचरित १० पूजनश्च. ११ निवर्तित,