2023-12-24 15:43:46 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथायाम्-
^१]तुल्यदुःखितां त्वया सह नयता न खल्वसुखं स्थापितास्मि भगवता विधात्रा । अथ मे शिरः
समुद्घाटितम् । अद्य ते वदनं दर्शयन्ती प्रियसखीति चाभाषमाणा न लज्जे । तवाव्यहमद्यैव

प्रियसखी संजाता । संप्रति मरणं जीवितं वा न दुःखाय मे । तत्कोऽपरः प्रष्टव्यो मया ?
केन वापरेणोपदेष्टव्यम् ? तदेवं गते यत्करणीयं तदु [^२]पादिशतु मे प्रियसखी । नाहमात्मना
किंचि- दपि वेद्मि, किं कृत्वा श्रेयः' इत्युक्तवतीं कादम्बरीं महाश्वेता प्रत्य- वादीत् - 'प्रियसखि,
किमत्र प्रश्नेनोपदेशेन वा । यदेवेयमनतिक्रम- णीया प्रियतमसमागमप्रत्याशा कारयति, तदे
करणीयम् । पुण्ड- रीकवृत्तान्तोऽ [^३]द्य कपिञ्जलाख्यानात्स्फुटीभूतः । [^४]तत्कालं तु वाड्यात्र ङ्मात्रकेणैव
समाश्वासितया मया न पारितमन्यत्किंचिदपि [^६]वक्तुम् । [^७]तत्त्वमन्यत्किं करोषि यस्याः प्रत्यय-
स्थानमिदं चन्द्रापीडशरीरमङ्क एवास्ते । [^८]तदन्यथात्वेऽस्य करे[^९]करणीय- चिन्ता । यावत्पुनरिदम-
[^१०]मविनाशि तिष्ठति तावदेव तस्यानुवृत्तितिं मुक्त्वा किमन्यत्करणीयम् । अप्रत्यक्षाणां हि देवतानां
 

 

 
[ टि ]--
विद्यते यस्याः सा तुल्य [^1]दुःखिनी तस्या भावस्तुल्य- दुःखिता तां नयता प्रापयता भगवता विधात्रा । खलु
निश्चयेन । असुखं न स्थापितास्म्यमुखे न रक्षितास्मि । अद्य मे शिरः [^2]समु- द्घाटितम् । अद्य मया शिरः कर्षित-
मित्यर्थः । अद्य ते तव वदनं दर्शयन्त्यवलोकनं कारयन्ती प्रियसखि इति भाषमाणेति जल्पमाना न लज्जे न
त्रपे । समदुःखत्वादिति भावः । तवापि भवत्या अप्यद्यै- वाहं प्रियसखी वल्लभवयस्या संजाता । पूर्वं भवत्या एव
दुःखित- त्वेन वचनमात्रेण प्रियसखित्वमभूत, सांप्रतं तु समदुःखसुखित्वेनेति भावः । संप्रतीदानीं मरणं जीवितं
वा मे मम पूर्वोक्तहेतोरेव न दुःखाय दुःखहेतवे । तत्तस्माद्धेतोरपरोऽन्यः को मया प्रष्टव्यः पृच्छाविषयीकार्यः ।
केन वापरेणान्येनोपदेष्टव्यमुपदेशो दातव्यः । तदेवं गते प्राप्ते सति यत्करणीयं यदेव विधेयं तत्प्रियसखी मे

ममोपादिशतु कथयतु । नाहमात्मना किंचिदपि वेद्मि किं कृत्वा श्रेयः कल्याणं स्यात् । इत्युक्तवतीं कादम्बरीं
महाश्वेता प्रत्यवादी- त्प्रत्यब्रवीत् - हे प्रियसखि, अत्रास्मिन्नर्थे प्रश्नेन पृच्छयोपदेशेन वा किम् । यदेवेयमनति-
क्रमणीयानुल्लङ्घनीया प्रियतमसमागमप्रत्या- शा वल्लभजनमेलापकसमीहा कारयति निष्पादयति तदेव करणी- यं
कार्यम् । भवत्या इति शेषः । पुण्डरीकस्य वृत्तान्त उदन्तोऽद्य कपिञ्जलस्याख्यानात्कथनात्स्फुटीभूतः प्रकटी-
भूतः । तत्कालं तदात्वे वाङ्मात्रकेणैव वचनमात्रेणैव समाश्वासितयाश्वासनं कारितया मयान्यत्किंचिदपि वक्तुं

कथयितुं न पारितं न शक्तम् । तत्तस्माद्धेतोस्त्वमन्यदितरत्किं करोषि विदधासि । यस्या भवत्याः प्रत्ययस्थानं

विश्वासस्थलमिदं चन्द्रापीडशरीरमक उत्सङ्ग एवास्ते तिष्ठति । तत्तस्मात्कारणादस्य शरीरस्यान्यथात्वेऽनेक स्थायित्वे

करणीयचिन्ता कर्तव्यचिन्ता । यावत्पुनरिदमविनाशि तिष्ठति तावदेव तस्य शरीरस्यानुवृत्ति सपर्या मुक्त्वा

किमन्यत्करणीयं विधेयम् । हि यस्मात्कारणादप्रत्यक्षाणां परोक्षाणां देवतानां देवानां मृन्मृत्तिका, अश्मा दृषत्,
 

 
टिप्प० -1 तुल्यं यथा तथा दुःखिताम् इत्यर्थ उचितः । वस्तुतस्तु - 'तुल्यदुःखताम् ( तुल्यं दुःखं

ययोः ते तुल्यदुःखे, तत्ताम् ) इत्येव पाठः सम्यक् । 2 अद्य मे शिरः समुद्घाटितं समुन्नमितं ( वि-

मात्रा ) । 3 कोर्थ इति स्वयं जानीयात् लेखे प्रमादकारी लेखको वा । कदाचित् 'अनेवस्थायित्वे

करणीया चिन्ता ।' इति पाठः स्यात् । शरीरस्यैवमेव अस्थितौ ( विकारे सति ) चिन्ता कार्या, इति

ह्रदर्थः । 4 सर्वत्र अस्थाने एवकारं प्रगृह्णाति महोदयः । 'तावदखाऽनुवृत्तिं मुक्त्वा' इत्येव पाठः ।
 

 
19
 

 
पाठा० - १ तुल्यदुःखतां कुर्वता तेन चिरात्खल्यच सुखम् २ उपदिशतु ३ त्वद्य ४ हस्तात्. ५ तदा तु.

६ कर्तुम् ७ तत्किमन्यत्. ८ तदन्यथा त्वस्य ९ करणीया १० अविनाशि तानदेव.