2023-12-25 05:37:25 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कपिजलकृतं सान्त्वनतपः । तपसो [^१]हि सम् ]
 
उत्तरभागः
 
ako
 
तपः । तपसो हि सम्य
यक्कृतस्य नास्त्यसाध्यं नाम किंचित् । देव्या हि [^२]गौर्या तपसः प्रभावाद -
तिदुरासदं स्मरारेरपि यौ[^३]यावदासादितं देहार्धपदम् । एवं त्वमपि [^४]नचिरात्तथैव मे वयस्यस्या
ङ्गे निर्जेज [^५]तपःप्रभावात्पदमवाप्स्यसि इति महाश्वेतां पर्यबोधयत् । उपशान्तमन्युवेगायां च महा-
श्वेतायां विषण्णदीनमुखी कादम्बरी कपिञ्जलमप्राक्षीत् – [^६]'भगवन्कपिञ्जल, पत्रलेखया त्वया
चास्मिन्सरसि जलप्रवेशः कृतस्तत्किं [^७]तस्याः पत्रलेखा- याः संवृत्तमित्यावेदनेन प्रसादं करोतु
'भगवान्' इति । स तु प्रत्य- वादीत् - 'राज [^८]पुत्रि, सलिल [^९]पातानन्तरं न कश्चिदपि तद्वृत्तान्तो
मया ज्ञातः । तदधुना क्व चन्द्रात्मकस्य चन्द्रापीडस्य, कं [^१०]क्व [^११]पुण्डरीकात्मनो वैशम्पायनस्य
जन्म, किं वास्याः पत्रलेखाया वृत्तमिति सर्वथैवास्य वृत्तान्तस्यो [^१२]स्यावगमनाय गतोऽहं प्रत्यक्ष-
लोकत्रयस्य तातस्य श्वेतकेतोः पादमूलम्' इत्यभिदधान एव गगनमुदपतत् ।
 

 
अथ गते तस्मिन्विस्मयान्तरितशोक [^१३]वृतान्ता चन्द्रापीडमा- लोक्य [^१४]गलितनयनपयसि यथास्थान [^१५]मपसृत्य [^१६]स्थितवति सपरिजने राजपुत्रलोके कादम्बरी महाश्वेतामवा- दीत् - 'प्रियसखि,
 
[ टि ] -- क्रियताम् । हि यस्माद्धेतो: सम्यक्प्रकारेण कृतस्य तपस- श्चान्द्रायणादेः । नामेति कोमलामन्त्रणे । किंचिदसाध्यमकर्तव्यं नास्ति । अत्रार्थे निदर्शनं प्रदर्शयन्नाह — गौर्या पार्वत्या तपसञ्चा- न्द्रायणादेः प्रभावान्माहात्म्यात्स्मरारेपि महादेवस्यापि अतिः दुखे- नासाद्यत इति दुरासदम् । अर्धं देहस्य देहार्धः । 'अर्धं नपुंसकं' इति समासः । तदेव पदं स्थानमासादितं प्राप्तम् । एवं त्वमपि नचिरात्स्तोककालेन तथैव वयस्यस्य पुण्डरीकस्याङ्के क्रोडे निज- तपःप्रभावात्पदमवाप्स्यसीति महाश्वेतां पर्यबोधयत्प्रतिबोधयामास । उपशान्तः प्रशान्तो मन्युवेगः शोकरयो यस्याः सा तस्यां महाश्वेतायां च विषण्णा विलक्षा चासौ दीनमुखी च विषण्णदीनमुखी कादम्बरी
कपिञ्जलमप्राक्षीदपृच्छत् - हे भगवन्कपिञ्जल, पत्रलेखया त्वया चा- स्मिन् सरसि अच्छोदतटाके जलप्रवेशः पानीयावगाहः कृतः। तदि- ति हेत्वर्थे । तत्तस्मात्तस्याः पत्रलेखायाः किं संवृत्तं किं संजातमित्या- वेदनेनेति प्रकथनेन भगवन्कपिञ्जलः प्रसादमनुग्रहं करोतु विदधातु । स तु मुनिः प्रत्यवादीत्प्रत्यब्रवीत् । किं तदित्याह--राजपुत्रीति । हे राजपुत्रि नृपसुते, सलिलपातानन्तरं जलपतनाव्यवहितं तद्वृत्तान्तः पत्रलेखोदन्तो न कश्चिदपि मया ज्ञातोऽवगतः । तस्मादधुना सांप्रतं क्व चन्द्रात्मकस्य शशिस्वरूपस्य चन्द्रापीडस्य [^1]जन्मोत्पत्तिः, क्व पुण्डरीकात्मनो वैशम्पायनस्य जन्म, अस्याः पत्रलेखायाः किं वा वृत्तं जातमिति सर्वस्य वृत्तान्तस्यावगमनाय ज्ञानाय प्रत्यक्षलोकत्रय- स्य साक्षात्कृतत्रिविष्टपस्य श्वेतकेतुनाम्नो मत्तातस्य पादमूलं चरण- समीपमहं गतः प्राप्त इत्यभिदधान इति ब्रुवाणो गगनं व्योमोदपत- दुत्पतितो बभूव ।
 
अथेति । उत्पतनानन्तरं तस्मिन्कपिञ्जले गते याते सति विस्मयेना- श्चर्येणान्तरितो व्यवहितः शोकवृत्तान्तो यस्याः सैवंविधा कादम्बरी महाश्वेतामवादीदवोचत् । कस्मिन्सति । यथास्थानमपसृत्य संस्थि- तवति सपरिजने सपरिच्छदे राजपुत्रलोके सति । कीदृशे । चन्द्रा-
पीडमालोक्य गलितनयनपयसि यथा-
स्थान पेसृत्य स्थिति सपरिजने राजपुत्रलोके कादम्बरी महाश्वेतामवादीत् - 'प्रियसखि,
 
क्रियताम् । हि यस्माद्धेततॊः सम्यक्प्रकारेण कृतस्य तपसश्चान्द्रायणादेः । नामेति कोमलामन्त्रणे । किंचिदसाध्यम-
कर्तव्यं नास्ति । अत्रार्थे निदर्शनं प्रदर्शयन्नाह — गौर्या पार्वत्या तपसञ्चान्द्रायणादेः प्रभावान्माहात्म्यात्स्मरारेपि
महादेवस्यापि अतिः दुखेनासाद्यत इति दुरासदम् । अर्ध देहस्य देहार्धः । 'अर्ध नपुंसकं' इति समासः ।
तदेव पदं स्थानमासादितं प्राप्तम् । एवं त्वमपि नचिरात्स्तोककालेन तथैव वयस्यस्य पुण्डरीकस्याङ्के कोडे
निजतपःप्रभावात्पदमवाप्स्यसीति महाश्वेतां पर्यबोधयत्प्रतिबोधयामास । उपशान्तः प्रशान्तो मन्युवेगः
शोकरयो यस्याः सा तस्यां महाश्वेतायां च विषण्णा विलक्षा चासौ दीनमुखी च विषण्णदीनमुखी कादम्बरी
कपिजलमप्राक्षीदपृच्छत् - हे भगवन्कपिञ्जल, पत्रलेखया त्वया चास्मिन् सरसि अच्छोदतटाके जलप्रवेशः
पानीयावगाहः कृतः । तदिति हेत्वर्थे । तत्तस्मात्तस्याः पत्रलेखायाः किं संवृत्तं किं संजातमित्यावेदनेनेति प्रकथनेन
भगवान्कपिज्जलः प्रसादमनुग्रहं करोतु विदधातु । स तु मुनिः प्रत्यवादीत्प्रत्यब्रवीत् । किं तदित्याह--राज-
पुत्रीति । हे राजपुत्रि नृपसुते, सलिलपातानन्तरं जलपतनाव्यवहितं तद्वृत्तान्तः पत्रलेखोदन्तो न कश्चिदपि
मया ज्ञातोऽवगतः । तस्मादधुना सांप्रतं क्व चन्द्रात्मकस्य शशिखरूपस्य चन्द्रापीडस्य जन्मोत्पत्तिः, क्व पुण्डरी-
कात्मनो वैशम्पायनस्य जन्म, अस्याः पत्रलेखायाः किं वा वृत्तं जातमिति सर्वस्य वृत्तान्तस्यावगमनाय ज्ञानाय
प्रत्यक्षलोकत्रयस्य साक्षात्कृतत्रिविष्टपस्य श्वेतकेतुनाम्नो मत्तातस्य पादमूलं चरणसमीपमहं गतः प्राप्त इत्यभिदधान
इति ब्रुवाणो गगनं व्योमोदपतदुत्पतितो बभूव ।
 
अथेति । उत्पतनानन्तरं तस्मिन्कपिञ्जले गते याते सति विस्मयेनाश्चर्येणान्तरितो व्यवहितः शोकवृत्तान्तो
यस्याः सैवंविधा कादम्बरी महाश्वेतामवादीदवोचत् । कस्मिन्सति । यथास्थानमपसृत्य संस्थितवति सपरिजने
सपरिच्छदे राजपुत्रलोके सति । कीदृशे । चन्द्रापीडमालोक्य
निरीक्ष्य गलितं च्युतं नयनपयो नेत्रजलं यस्य स

तस्मिन् । किमवाबीदीत्तदाह - प्रियेति । हे प्रियसखि हे वल्लभवय- स्ये, त्वया सह भवत्या सार्धं तुल्यं सदृशं दुःखं
 
टिप्प० –

 
[^
1]F. 'क्व चन्द्रात्मकस्य चन्द्रापीडस्यास्त्मा, पुण्डरीकात्मकस्य वैशम्पायनस च जन्म,' इति
पाठः ।
[^
2]F. 'प्रस्थितोहम्' इति पाठः । अयमहं प्रस्थितो भवामीत्याशयः
 
पाठा० -

 
[^
]G. अपि.
[^
]G. गौर्यास्त : .
[^
]G. समासादितम् .
[^
]G. अचिरात् .
[^
]G. निजतपसः .
[^
]G. भगवन् .
[^
]G. तस्याः संवृ.
त्तम्.
[^
]G. भगवति .
[^
]G. आयात.
[^
१०]G. आत्मा.
[^
११]G. पुण्डरीकात्मकस्य .
[^
१२]G. अवगमाय.
[^
१३]G. वृत्तान्ते.
[^
१४]G. आलोक्या-
लोक्य.
[^
१५]G. अपसृत्यापसृत्य.
[^
१६]G. संस्थितक्ती.
 
.