कादम्बरी /668
This page has not been fully proofread.
कपिजलकृतं सान्त्वनम् ]
उत्तरभागः
ako
तपः । तपसो हि सम्यकृतस्य नास्त्यसाध्यं नाम किंचित् । देव्या हि गौर्या तपसः प्रभावाद -
तिदुरासदं स्मरारेरपि यौवदासादितं देहार्धपदम् । एवं त्वमपि नचिरात्तथैव मे वयस्यस्या
निर्जेतपःप्रभावात्पदमवाप्स्यसि इति महाश्वेतां पर्यबोधयत् । उपशान्तमन्युवेगायां च महा-
श्वेतायां विषण्णदीनमुखी कादम्बरी कपिझलमप्राक्षीत् – 'भगवन्कपिञ्जल, पत्रलेखया त्वया
चास्मिन्सरसि जलप्रवेशः कृतस्तत्किं तस्याः पत्रलेखायाः संवृत्तमित्यावेदनेन प्रसादं करोतु
'भगवान्' इति । स तु प्रत्यवादीत् - 'राजपुत्रि, सलिलपातानन्तरं न कश्चिदपि तद्वृत्तान्तो
मया ज्ञातः । तदधुना क चन्द्रात्मकस्य चन्द्रापीडस्य, कं पुण्डरीकात्मनो वैशम्पायनस्य
जन्म, किं वास्याः पत्रलेखाया वृत्तमिति सर्वथैवास्य वृत्तान्तस्योवगमनाय गतोऽहं प्रत्यक्ष-
लोकत्रयस्य तातस्य श्वेतकेतोः पादमूलम्' इत्यभिदधान एव गगनमुदपतत् ।
अथ गते तस्मिन्विस्मयान्तरितशोक वृतान्ता चन्द्रापीडमालोक्य गलितनयनपयसि यथा-
स्थान पेसृत्य स्थिति सपरिजने राजपुत्रलोके कादम्बरी महाश्वेतामवादीत् - 'प्रियसखि,
क्रियताम् । हि यस्माद्धेततॊः सम्यक्प्रकारेण कृतस्य तपसश्चान्द्रायणादेः । नामेति कोमलामन्त्रणे । किंचिदसाध्यम-
कर्तव्यं नास्ति । अत्रार्थे निदर्शनं प्रदर्शयन्नाह — गौर्या पार्वत्या तपसञ्चान्द्रायणादेः प्रभावान्माहात्म्यात्स्मरारेपि
महादेवस्यापि अतिः दुखेनासाद्यत इति दुरासदम् । अर्ध देहस्य देहार्धः । 'अर्ध नपुंसकं' इति समासः ।
तदेव पदं स्थानमासादितं प्राप्तम् । एवं त्वमपि नचिरात्स्तोककालेन तथैव वयस्यस्य पुण्डरीकस्याङ्के कोडे
निजतपःप्रभावात्पदमवाप्स्यसीति महाश्वेतां पर्यबोधयत्प्रतिबोधयामास । उपशान्तः प्रशान्तो मन्युवेगः
शोकरयो यस्याः सा तस्यां महाश्वेतायां च विषण्णा विलक्षा चासौ दीनमुखी च विषण्णदीनमुखी कादम्बरी
कपिजलमप्राक्षीदपृच्छत् - हे भगवन्कपिञ्जल, पत्रलेखया त्वया चास्मिन् सरसि अच्छोदतटाके जलप्रवेशः
पानीयावगाहः कृतः । तदिति हेत्वर्थे । तत्तस्मात्तस्याः पत्रलेखायाः किं संवृत्तं किं संजातमित्यावेदनेनेति प्रकथनेन
भगवान्कपिज्जलः प्रसादमनुग्रहं करोतु विदधातु । स तु मुनिः प्रत्यवादीत्प्रत्यब्रवीत् । किं तदित्याह--राज-
पुत्रीति । हे राजपुत्रि नृपसुते, सलिलपातानन्तरं जलपतनाव्यवहितं तद्वृत्तान्तः पत्रलेखोदन्तो न कश्चिदपि
मया ज्ञातोऽवगतः । तस्मादधुना सांप्रतं क्व चन्द्रात्मकस्य शशिखरूपस्य चन्द्रापीडस्य जन्मोत्पत्तिः, क्व पुण्डरी-
कात्मनो वैशम्पायनस्य जन्म, अस्याः पत्रलेखायाः किं वा वृत्तं जातमिति सर्वस्य वृत्तान्तस्यावगमनाय ज्ञानाय
प्रत्यक्षलोकत्रयस्य साक्षात्कृतत्रिविष्टपस्य श्वेतकेतुनाम्नो मत्तातस्य पादमूलं चरणसमीपमहं गतः प्राप्त इत्यभिदधान
इति ब्रुवाणो गगनं व्योमोदपतदुत्पतितो बभूव ।
अथेति । उत्पतनानन्तरं तस्मिन्कपिञ्जले गते याते सति विस्मयेनाश्चर्येणान्तरितो व्यवहितः शोकवृत्तान्तो
यस्याः सैवंविधा कादम्बरी महाश्वेतामवादीदवोचत् । कस्मिन्सति । यथास्थानमपसृत्य संस्थितवति सपरिजने
सपरिच्छदे राजपुत्रलोके सति । कीदृशे । चन्द्रापीडमालोक्य निरीक्ष्य गलितं च्युतं नयनपयो नेत्रजलं यस्य स
तस्मिन् । किमवाबीत्तदाह - प्रियेति । हे प्रियसखि हे वल्लभवयस्ये, त्वया सह भवत्या सार्धं तुल्यं सदृशं दुःखं
टिप्प० – 1 'क चन्द्रात्मकस्य चन्द्रापीडस्यास्मा, पुण्डरीकात्मकस्य वैशम्पायनस च जन्म,' इति
पाठः । 2 'प्रस्थितोहम्' इति पाठः । अयमहं प्रस्थितो भवामीत्याशयः ।
पाठा० - १ अपि. २ गौर्यास्त : ३ समासादितम् ४ अचिरात् ५ निजतपसः ६ भगवन् ७ तस्याः संवृ.
त्तम्. ८ भगवति ९ आयात. १० आत्मा. ११ पुण्डरीकात्मकस्य १२ अवगमाय. १३ वृत्तान्ते. १४ आलोक्या-
लोक्य. १५ अपसृत्यापसृत्य. १६ संस्थितक्ती.