2023-12-25 05:58:30 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६३४
 
कादम्बरी ।
 
[
थायाम्-
[^१]मुपयामि शरणम्, को वा करोतु मयि दयाम्, याचेऽहे- [^२]हमात्मनैवाधुना । 'देव, प्रसीद ।
कुरु दयाम् । देहि मे प्रतिवचनम्' इत्येतान्यक्षराण्युञ्च्चारयन्त्यपि लज्जे । मन्ये च तवा-

प्ये [^३]वमुत्पन्नं मन्दभाग्यायां मयि बैवैराग्यं येनैवमपि [^४]विप्रै- पन्त्यां न प्रतिवचनं [^५]ददासि ।
हा, हतास्म्यनेनैवात्मनो जीवित- स्यो [^६]पर्यनिर्वेदेन" इत्युन्मुक्तार्तनादा सोरखा [^७]स्ताडमवना- वात्मान-
मपातयत् ।
 

 
कपिञ्जलस्तु [^८]तथार्तकृतप्रलापां तां सानुकम्पमवादीत्
- 'गन्धर्व- राजपुत्रि, कस्तवात्र दोषों
षो येनैवमनिन्दनीयमात्मानं निन्दा पदैर्योज- यसि । [^९]को नाम बावाधुना [^१०]सुखपाकेऽनुभवनीये
दुःखस्या- वसरः, येनै [^११]वात्मानं शुचा व्यापादयसि । यदसा[^१२]यदसह्यतरं तै[^१३]तत्त्वया निर्व्यूढं [^१४]हतहृदयस्यास्यैव
समागमप्रत्याशया । यथा च शापदोषादिदमुप [^१५]गतं भवत्योर्द्वयोरपि दुःखं तथा मया कथित
मेव । चन्द्रमसोऽपि भारती भवतीभ्यां श्रुतैव तदुन्मुच्य- तामयमात्मनो वयस्यस्य चात्श्रे-
यस्करः [^१६]शोकानुबन्धः । द्वयो- [^१७]रेव श्रेयसे यदेव भवत्याङ्गीकृतं देषावानुवष्यतां व्रतपरिग्रहो- चितं
 

 
[ टि ]--
कं शरणं त्राणमुपयामि गच्छामि। मयि विषये दयां कृपां को वा करोतु विदधातु । अधुना सांप्रतमहमा-
त्मनैव याचे प्रार्थये । हा देव, प्रसीद प्रसन्नो भव । दयां कृपां कुरु । मे मम प्रतिवचनं प्रत्युत्तरं देहि वितर ।
इत्येतान्यक्षराणि वर्णानुच्चारयन्त्यपि कथ- यन्त्यपि लज्जे त्रपे । मन्ये च जाने च मन्दभाग्यायां भाग्यरहितायां

मयि वैराग्यं विरक्तत्वं तवाप्येवमुत्पन्नं संजातं येनैवं विप्रलपन्त्या- मपि विलापं कुर्वन्त्यामपि प्रतिवचनं प्रत्युत्तरं
न ददासि न प्रयच्छसि । हा इति खेदे । अहं हता व्यापादितास्मि । अनेनैवात्मनः स्वस्य जीवितस्य प्राणित-
स्थो
स्योपर्य निर्वेवेदेनाऽस्वावमानेनेत्युन्मुक्त आर्तनादः करुणस्वरो यया सा । 'निर्वेदः खास्वावमाननम्' इति । सोरस्ता
डं स वक्षस्ताडनं यथा स्यात्तथावनौ पृथिव्यामात्मानमपातयत्पातितवती ।
 

 
कपिञ्जलस्तु तथा तेन प्रकारे [^1]णार्तः करुणः कृतो विहितः प्रलापो यया सा तां सानुकम्पं सदयं यथा स्यात-
थाबावादीदवोचत् –
हे गन्धर्वराजपुत्रि, कस्तव भवत्या अत्र दोषो दूषणम्, येनैवमनिन्द- नीयमगर्हणीयमात्मानं
स्वं निन्दापदैर्गर्हावाक्यैर्यॊयोजयसि संयुक्तं करोषि । नामेति कोमलामन्त्रणे । को बावाधुनेदानीं सुखपाकेऽनुभ- वनीये
सति सुखफलस्य साक्षात्कारे कर्तव्ये सति दुःखस्य कृच्छ्र- स्यावसरः प्रस्तावः । येनै [^2]व येन हेतुना शुचा कृत्वा -
त्मानं व्यापादयसि शरीरात्पृथक्करोषि । यदसह्यतरं सोढुमशक्यं तत्त्वया निर्व्यूढमतिक्रान्तं हृतं [^3]हृदयं यस्यैवंभू-
तस्यास्य पुण्डरीकस्य समागमो मेलापस्तस्य प्रत्याशया वाच्ञ्छया । यथा च भवत्योर्द्वयोः शापदोषादिदं दुःख-
मसातमुपगतं प्राप्तं मया कथितमेव निवेदि- तमेव । चन्द्रमसोऽपि चन्द्रस्यापि भारती वाणी भवतीभ्यां श्रुतैवा-
बा
कर्णितैव । तदयमात्मनो वयस्यस्य चाश्रेयस्करोऽकल्याणकृच्छो- कानुबन्धः शोचनप्रबन्ध उन्मुच्यतां त्यज्य -
ताम् । द्वयोरेव श्रेयसे शुभार्थं यदेव भवत्यायङ्गीकृतं स्वीकृतं तदेव व्रतपरिग्रह उचितं योग्यं तपोऽनुबध्यतां
 
टिप्प० –

 
[^
1]F. विचित्रो बहुव्रीहिष्टीकाकारकृपा । 'तथा कृतार्तप्रलापाम्' इत्येव पाठः ।
[^
2]F. अत्र एव-
कारस्य किं प्रयोजनमिति टीकाकारस्य नावधानम् । 'येनैवमात्मानं शुचा व्यापादयसि' इत्येव पाठः ।
येनाऽत्रसरेण एवम् ( अनेन प्रकारेण ) भात्मानं व्यापादयसीति तदर्थः ।
[^
3]F. टीकाकारस्त्वेवमाह ।
किन्तु 'यदसह्यं तस्त्त्वया निर्यूम्,
दृ
ढीकृतं च हृदयं समागमप्रत्याशया' इति पाठान्तरम् । यथेच्छ-
मु.
पादीयतां विज्ञैः ।
 
पाठा० -

 
[^
]G. किम्.
[^
]G. अपराद्धा.
[^
]G. उत्पन्नमेव.
[^
]G. विलपन्त्या.
[^
]G. मे ददासि .
[^
]G. अनिर्वेदना.
[^
]G. सोरस्ताडनम्.

[^
]G. तथा कृतार्तं.
[^
]G. को वा.
[^
१०]G. सुखमात्रके.
[^
११]G. यदेवम्.
[^
१२]G. अलङ्घ्यतरम्.
[^
१३]G. तु.
[^
१४]G. दृढीकृत हृदयस्य.

[^
१५]G. उपनतम् .
[^
१६]G. शोकानुबन्धावेग: .
[^
१७]G. अपि
 
.