कादम्बरी /667
This page has not been fully proofread.
६३४
कादम्बरी ।
[ कथायाम्-
कमुपयामि शरणम्, को वा करोतु मयि दयाम्, याचेऽहेमात्मनैवाधुना । 'देव, प्रसीद ।
कुरु दयाम् । देहि मे प्रतिवचनम्' इत्येतान्यक्षराण्युञ्चारयन्त्यपि लज्जे । मन्ये च तवा-
प्येवमुत्पन्नं मन्दभाग्यायां मयि बैराग्यं येनैवमपि विप्रैलपन्त्यां न प्रतिवचनं ददासि ।
हा, हतास्म्यनेनैवात्मनो जीवितस्योपर्यनिर्वेदेन" इत्युन्मुक्तार्तनादा सोरखाडमवनावात्मान-
मपातयत् ।
कपिञ्जलस्तु तथार्तकृतप्रलापां तां सानुकम्पमवादीत्
- 'गन्धर्वराजपुत्रि, कस्तवात्र दोषों
येनैवमनिन्दनीयमात्मानं निन्दापदैर्योजयसि । को नाम बाधुना सुखपाकेऽनुभवनीये
दुःखस्यावसरः, येनैवात्मानं शुचा व्यापादयसि । यदसातरं तैत्त्वया निर्व्यूढं तहृदयस्यास्यैव
समागमप्रत्याशया । यथा च शापदोषादिदमुपगतं भवत्योर्द्वयोरपि दुःखं तथा मया कथित
मेव । चन्द्रमसोऽपि भारती भवतीभ्यां श्रुतैव तदुन्मुच्यतामयमात्मनो वयस्यस्य चात्रे-
यस्करः शोनुबन्धः । द्वयोरेव श्रेयसे यदेव भवत्याङ्गीकृतं वदेषानुवष्यतां व्रतपरिग्रहोचितं
कं शरणं त्राणमुपयामि गच्छामि। मयि विषये दयां कृपां को वा करोतु विदधातु । अधुना सांप्रतमहमा-
त्मनैव याचे प्रार्थये । हा देव, प्रसीद प्रसन्नो भव । दयां कृपां कुरु । मे मम प्रतिवचनं प्रत्युत्तरं देहि वितर ।
इत्येतान्यक्षराणि वर्णानुच्चारयन्त्यपि कथयन्त्यपि लज्जे त्रपे । मन्ये च जाने च मन्दभाग्यायां भाग्यरहितायां
मयि वैराग्यं विरक्तत्वं तवाप्येवमुत्पन्नं संजातं येनैवं विप्रलपन्त्यामपि विलापं कुर्वन्त्यामपि प्रतिवचनं प्रत्युत्तरं
न ददासि न प्रयच्छसि । हा इति खेदे । अहं हता व्यापादितास्मि । अनेनैवात्मनः स्वस्य जीवितस्य प्राणित-
स्थोपर्य निर्वेवेनाऽस्वावमानेनेत्युन्मुक्त आर्तनादः करुणखरो यया सा । 'निर्वेदः खावमाननम्' इति । सोरस्ता
स वक्षस्ताडनं यथा स्यात्तथावनौ पृथिव्यामात्मानमपातयत्पातितवती ।
कपिजलस्तु तथा तेन प्रकारेणातः करुणः कृतो विहितः प्रलापो यया सा तां सानुकम्पं सदयं यथा स्यात-
थाबादीदवोचत् – हे गन्धर्वराजपुत्रि, कस्तव भवत्या अत्र दोषो दूषणम्, येनैवमनिन्दनीयमगर्हणीयमात्मानं
स्वं निन्दापदैर्गर्हावाक्यैर्यॊजयसि संयुक्तं करोषि । नामेति कोमलामन्त्रणे । को बाधुनेदानीं सुखपाकेऽनुभवनीये
सति सुखफलस्य साक्षात्कारे कर्तव्ये सति दुःखस्य कृच्छ्रस्यावसरः प्रस्तावः । येनैव येन हेतुना शुचा कृत्वा -
त्मानं व्यापादयसि शरीरात्पृथक्करोषि । यदसह्यतरं सोढुमशक्यं तत्त्वया निर्व्यूढमतिक्रान्तं हृतं हृदयं यस्यैवंभू-
तस्यास्य पुण्डरीकस्य समागमो मेलापस्तस्य प्रत्याशया वाच्छया । यथा च भवत्योर्द्वयोः शापदोषादिदं दुःख-
मसातमुपगतं प्राप्तं मया कथितमेव निवेदितमेव । चन्द्रमसोऽपि चन्द्रस्यापि भारती वाणी भवतीभ्यां श्रुतै-
बाकर्णितैव । तदयमात्मनो वयस्यस्य चाश्रेयस्करोऽकल्याणकृच्छोकानुबन्धः शोचनप्रबन्ध उन्मुच्यतां त्यज्य -
ताम् । द्वयोरेव श्रेयसे शुभार्थं यदेव भवत्यागीकृतं स्वीकृतं तदेव व्रतपरिग्रह उचितं योग्यं तपोऽनुबध्यतां
टिप्प० – 1 विचित्रो बहुव्रीहिष्टीकाकारकृपा । 'तथा कृतार्तप्रलापाम्' इत्येव पाठः । 2 अत्र एव-
कारस्य किं प्रयोजनमिति टीकाकारस्य नावधानम् । 'येनैवमात्मानं शुचा व्यापादयसि' इत्येव पाठः ।
येनाऽत्रसरेण एवम् ( अनेन प्रकारेण ) भात्मानं व्यापादयसीति तदर्थः । 3 टीकाकारस्त्वेवमाह ।
किन्तु 'यदसयं तस्वया नियूटम्, डढीकृतं च हृदयं समागमप्रत्याशया' इति पाठान्तरम् । यथेच्छमु.
पादीयतां विज्ञैः ।
पाठा० -१ किम्. २ अपराद्धा. ३ उत्पन्नमेव. ४ विलपन्त्या. ५ मे ददासि ६ अनिवेदना. ७ सोरस्ताडनम्.
८ तथा कृतार्तं. ९ को वा. १० सुखमात्रके. ११ यदेवम्. १२ अलङ्घयतरम्. १३ तु. १४ दृढीकृत हृदयस्य.
१५ उपनतम् १६ शोकानुबन्धावेग: १७ अपि