कादम्बरी /666
This page has been fully proofread once and needs a second look.
स्नेहलतया ते [^१]ममार्द्रीकृतं हृदयम् । तदालोकितं मया। उज्ज- यिन्यामपत्यहेतोस्तपस्यतस्तारापीडनाम्रो राज्ञः सनिदर्शनं चन्द्रमसा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्नः । त्वमपि [^२]तस्य महोपकारिणश्चन्द्रात्मनो राज- पुत्रस्य वाहनतामुपयास्यसि' इति । अहं तु तद्वचनानन्तरमे [^३]वाधः स्थिते महोदधौ न्यपतम् । तस्माच्च तुरङ्गीभूयैवोद-
तिष्ठम् । संज्ञा तु मे [^४]तुरंगमत्वेऽपि [^५]न व्यपगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानुसारी भूमिमेतामानीतो [^६]देवचन्द्रमसोऽवतारश्चन्द्रापीडः । योऽप्यसौ प्राक्तनानुराग- संस्कारादभिलषन्नजानन्त्या त्वया शापाग्निना निर्दग्धः सोऽपि मे वयस्यपुण्डरीकस्यावतारः' इति ।
[^८]एतच्छ्रुत्वा "हा देव पुण्डरीक, जन्मान्तरेष्व विस्मृतमदनुराग, मत्प्रतिबद्धजीवित, मच्छरण, मन्मुखावलोकिन्, मन्मयसकलजीव- लोक, [^९]लोकान्तरगतस्थापि तेऽहमेव राक्षसी विनाशायोपजाता । दग्धप्रजापतेरियदेव मन्निर्माणे दीर्घजीवितप्रधाने च प्रयोजनं निष्पन्नं यत्पुनः पुनस्ते व्यापादनम् । स्वयं हत्वा च पापकारिणी
क [^१०]मुपालभे ? [^११]किं [^१२]ब्रवीमि कि [^१३]माक्रन्दा- मि,
[ टि ]-- धात् । ते तवानया स्नेहलस्य भावः स्नेहलता तयानार्द्रमार्द्रं संपन्नमित्यर्दीकृतं मम हृदयं चतः । तत्तस्मादालोकितं निरीक्षितं मया । उज्जयिन्यां विशालायामपत्यहेतोः संतानार्थं तपस्यतस्तपः कुर्वतस्तारापीडनाम्नो राज्ञः सनिदर्शनं [^1]सदृष्टान्तं चन्द्रमसा चन्द्रेण तनयत्वं पुत्रत्वमुपगन्तव्यमुपयातव्यम् । ते तव वयस्येनापि पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्नस्तनयत्वमुपगन्तव्यं प्राप्तव्यम् । त्वमपि भवानपि तस्य महोपकारिणो महोपकृतिकर्तु- श्चन्द्र एवात्मा यस्यैवंभूतस्य राजपुत्रस्य राजसूनोर्वाहनतामुपयास्य- स्युपगमिष्यसीति । अहं तद्वचनानन्तरमेव तद्भाषितादन्वधः- स्थिते महोदधौ समुद्रे न्यपतं पतितवान् । तस्माच्च महोदधेस्तुरङ्गीभूयैवा- श्वीभूयैवोदतिष्ठमुत्थितोऽभूवम् । तुरंगमत्वेऽपि मे मम संज्ञा नैव व्यपगता नैवापगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानु-
सारी एतामेतावतीं भूमिमानीतो [^2]देवचन्द्रमसोऽवतारश्चन्द्रा- पीडः। योऽप्यसौ वैशम्पायनः प्राक्तनः पूर्वभवसंबन्धी योऽनुरा- गोऽनुरतिस्तस्य संस्काराद्भावनारूपादभिलषन्वाञ्छन्नजानन्त्या- ज्ञायमानया त्वया शापाग्निना निर्दग्धो ज्वालितः सोऽपि मे मम वय- स्य पुण्डरीकस्यावतारः ।
इत्येतच्छ्रुत्वा निशम्य । हा खेदे । हे देव पुण्डरीक, [^3]जन्मा- न्तरेषु भवान्तरेष्वविस्मृतो विस्मृतिमप्राप्तो ममा-
नुरागो यस्य तस्य संबोधनम् । मय्येव प्रतिबद्धं जीवितं प्राणितं यस्य तस्य संबोधनम् । मम शरणं यस्य संबो-
धनम् । मन्मुखमवलोकत इत्येवंशीलस्तस्य संबोधनम् । मन्मयो मध्द्व्याप्तः । मत्स्वरूप इति यावत् । सकलजी-
वलोको यस्य तस्य संबोधनम् । ते तव लोकान्तरगतस्यापि भवान्त- रप्राप्तस्यापि विनाशाय मरणायाहमेव राक्ष-
स्युपजाता प्रादुर्भूता । दग्धप्रजापतेर्भस्मीभूतविधातुर्मन्निर्माणणे मज्जनने दीर्घजीवितप्रदाने च चिरंजीवित्ववि-
तरणे चेयदेवैतावदेव प्रयोजनं कृत्यं निष्पन्नं संजातं यत्पुनःपुनस्ते व्यापादनं मारणम् । स्वयमात्मना हत्वा चाहं
पाप- कारिणी कमुपालभे । कस्योपालम्भं ददामीत्यर्थः । किं ब्रवीमि किं वच्मि । किमाक्रन्दाम्याक्रन्दं करोमि ।
टिप्प० - [^1]F. भगवन् कस्य दृष्टान्तः ? अस्तु सनिदर्शनम् निदर्शनेन अभिज्ञानेन ( अयं चन्द्र एव,
यतो हि चन्द्रापीडेति नामाऽस्याभि- ज्ञानम् इति ) सहितम्, इत्यर्थः ।
[^2]F. 'देवस्य चन्द्रमसः' इति स्यात् ।
वस्तुतस्तु – 'लाआनीतश्चन्द्र- मसोवतार : ' इत्येव पाठः ।
[^3]F. बहुवचनक्षेपो निरर्थकः । 'जन्मान्तरेऽपि
इत्येव पाठः ।
पाठा० - [^१]G. आतिम्. र्दितम्.
[^२]G. तस्यैव परमोपकारिणः .
[^३]G. अधःस्थितः .
[^४]G. तुरंगमत्वेन.
[^५]G. नैवोपयाता.
[^६]G. तदेव.
[^७]G. प्राक्तनादेव.
[^८]G. एतच्छ्रुत्वा महाश्वेता.
[^९]G. कथं लोकान्तर .
[^१०]G. किम्, .
[^११]G. कम्.
[^१२]G. ब्रवीमि कस्यै कथयामि, .
[^१३]G. कम्.
८० का०
तिष्ठम् । संज्ञा तु मे [^४]तुरंगमत्वेऽपि [^५]न व्यपगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानुसारी भूमिमेतामानीतो [^६]देवचन्द्रमसोऽवतारश्चन्द्रापीडः । योऽप्यसौ प्राक्तनानुराग- संस्कारादभिलषन्नजानन्त्या त्वया शापाग्निना निर्दग्धः सोऽपि मे वयस्यपुण्डरीकस्यावतारः' इति ।
[^८]एतच्छ्रुत्वा "हा देव पुण्डरीक, जन्मान्तरेष्व विस्मृतमदनुराग, मत्प्रतिबद्धजीवित, मच्छरण, मन्मुखावलोकिन्, मन्मयसकलजीव- लोक, [^९]लोकान्तरगतस्थापि तेऽहमेव राक्षसी विनाशायोपजाता । दग्धप्रजापतेरियदेव मन्निर्माणे दीर्घजीवितप्रधाने च प्रयोजनं निष्पन्नं यत्पुनः पुनस्ते व्यापादनम् । स्वयं हत्वा च पापकारिणी
क [^१०]मुपालभे ? [^११]किं [^१२]ब्रवीमि कि [^१३]माक्रन्दा- मि,
[ टि ]-- धात् । ते तवानया स्नेहलस्य भावः स्नेहलता तयानार्द्रमार्द्रं संपन्नमित्यर्दीकृतं मम हृदयं चतः । तत्तस्मादालोकितं निरीक्षितं मया । उज्जयिन्यां विशालायामपत्यहेतोः संतानार्थं तपस्यतस्तपः कुर्वतस्तारापीडनाम्नो राज्ञः सनिदर्शनं [^1]सदृष्टान्तं चन्द्रमसा चन्द्रेण तनयत्वं पुत्रत्वमुपगन्तव्यमुपयातव्यम् । ते तव वयस्येनापि पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्नस्तनयत्वमुपगन्तव्यं प्राप्तव्यम् । त्वमपि भवानपि तस्य महोपकारिणो महोपकृतिकर्तु- श्चन्द्र एवात्मा यस्यैवंभूतस्य राजपुत्रस्य राजसूनोर्वाहनतामुपयास्य- स्युपगमिष्यसीति । अहं तद्वचनानन्तरमेव तद्भाषितादन्वधः- स्थिते महोदधौ समुद्रे न्यपतं पतितवान् । तस्माच्च महोदधेस्तुरङ्गीभूयैवा- श्वीभूयैवोदतिष्ठमुत्थितोऽभूवम् । तुरंगमत्वेऽपि मे मम संज्ञा नैव व्यपगता नैवापगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानु-
सारी एतामेतावतीं भूमिमानीतो [^2]देवचन्द्रमसोऽवतारश्चन्द्रा- पीडः। योऽप्यसौ वैशम्पायनः प्राक्तनः पूर्वभवसंबन्धी योऽनुरा- गोऽनुरतिस्तस्य संस्काराद्भावनारूपादभिलषन्वाञ्छन्नजानन्त्या- ज्ञायमानया त्वया शापाग्निना निर्दग्धो ज्वालितः सोऽपि मे मम वय- स्य पुण्डरीकस्यावतारः ।
इत्येतच्छ्रुत्वा निशम्य । हा खेदे । हे देव पुण्डरीक, [^3]जन्मा- न्तरेषु भवान्तरेष्वविस्मृतो विस्मृतिमप्राप्तो ममा
वलोको यस्य तस्य संबोधनम् । ते तव लोकान्तरगतस्यापि भवान्त- रप्राप्तस्यापि विनाशाय मरणायाहमेव राक्ष
[^2]F. 'देवस्य चन्द्रमसः' इति स्यात् ।
[^3]F. बहुवचनक्षेपो निरर्थकः । 'जन्मान्तरेऽपि
[^२]G. तस्यैव परमोपकारिणः
[^३]G. अधःस्थितः
[^४]G. तुरंगमत्वेन.
[^५]G. नैवोपयाता.
[^६]G. तदेव.
[^७]G. प्राक्तनादेव.
[^८]G. एतच्छ्रुत्वा महाश्वेता.
[^९]G. कथं लोकान्तर
[^१०]G. किम्
[^११]G. कम्.
[^१२]G. ब्रवीमि कस्यै कथयामि
[^१३]G. कम्.