This page has not been fully proofread.

कपिञ्जलस्य वृत्तान्तः ]
 
उत्तरभागः ।
 
६३३
 
स्नेहलतया ते ममाद्रकृतं हृदयम् । तदालोकितं मया। उज्जयिन्यामपत्यहे तोस्तपस्यतस्तारा-
पीडनाम्रो राज्ञः सनिदर्शनं चन्द्रमसा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण
तन्मत्रिण एव शुकनासनाम्नः । त्वमपि तस्य महोपकारिणश्चन्द्रात्मनो राजपुत्रस्य वाहनता-
मुपयास्यसि' इति । अहं तु तद्वचनानन्तरमेवाधः स्थिते महोदधौ न्यपतम् । तस्माच्च तुर-
ङ्गीभूयैवोदतिष्ठम् । संज्ञा तु मे तुरंगमत्वेऽपि ने व्यपगता । येनायं मयास्यैवार्थस्य कृते
किंनर मिथुनानुसारी भूमिमेतामानीतो देवचन्द्रमसोऽवतारश्चन्द्रापीडः । योऽप्यसौ प्राक्तनानु-
रागसंस्काराद्भिलषन्नजानन्त्या त्वया शांपाग्निना निर्दग्धः सोऽपि मे वयस्यपुण्डरीकस्या-
वतारः' इति ।
 
एतच्छ्रुत्वा "हा देव पुण्डरीक, जन्मान्तरेष्व विस्मृतमदनुराग, मत्प्रतिबद्धजीवित, मच्छ-
रण, मन्मुखावलोकिन्, मन्मयसकलजीवलोक, लोकान्तरगतस्थापि तेऽहमेव राक्षसी विना-
शायोपजाता । दुग्धप्रजापतेरियदेव मन्निर्माणे दीर्घजीवितप्रधाने च प्रयोजनं निष्पन्नं यत्पु-
नः पुनस्ते व्यापादनम् । स्वयं हत्वा च पापकारिणी कपालभे ? किं ब्रवीमि किमाँकन्दामि,
 

 
धात् । ते तवानया हलस्य भावः स्नेहलता तयानार्द्रमार्द्रं संपन्नमित्याशकृतं मम हृदयं चेतः । तत्तस्मादालो कितं
निरीक्षितं मया । उज्जयिन्यां विशालायामपत्य हेतोः संतानार्थं तपस्यतस्तपः कुर्वतस्तारापीडनाम्रो राज्ञः सनिदर्शनं
सदृष्टान्तं चन्द्रमसा चन्द्रेण तनयत्वं पुत्रत्वमुपगन्तव्यमुपयातव्यम् । ते तव वयस्येनापि पुण्डरीकेण तन्मन्त्रिण
 
शुकनासनाम्नस्तनयत्वमुपगन्तव्यं प्राप्तव्यम् । त्वमपि भवानपि तस्य महोपकारिणो महोपकृतिकर्तुश्चन्द्र एवात्मा
यस्यैवंभूतस्य राजपुत्रस्य राजसूनोर्वाहनतामुपयास्यस्युपगमिष्यसीति । अहं तद्वचनानन्तरमेव तद्भाषितादन्वधः-
स्थिते महोदधौ समुद्रे न्यपतं पतितवान् । तस्माच्च महोदधेस्तुरङ्गीभूयैवाश्वीभूयैवोदतिष्ठमुत्थितोऽभूवम् । तुरंग-
मत्वेऽपि मे मम संज्ञा नैव व्यपगता नैवापगता । येनायं मयास्यैवार्थस्य कृते किंनर मिथुनानुसारी एतामे तावदीं
भूमिमानीतो देवँचन्द्रमसोऽवतारश्चन्द्रापीडः । योऽप्यसौ वैशम्पायनः प्राक्तनः पूर्वभवसंबन्धी योऽनुरागोऽनु-
रतिस्तस्य संस्काराद्भावनारूपादभिलषन्वाञ्छन्नजानन्त्याज्ञायमानया त्वया शापाग्निना निर्दग्धो ज्वालितः
सोऽपि में मम वयस्य पुण्डरीकस्यावतारः ।
 
इत्येतच्छ्रुत्वा निशम्य । हा खेदे । हे देव पुण्डरीक, जन्मान्तरेषु भवान्तरेष्वविस्मृतो विस्मृतिमप्राप्तो ममा-
नुरागो यस्य तस्य संबोधनम् । मय्येव प्रतिबद्धं जीवितं प्राणितं यस्य तस्य संबोधनम् । मम शरणं यस्य संबो-
धनम् । मन्मुखमवलोकत इत्येवंशीलस्तस्य संबोधनम् । मन्मयो मध्याप्तः । मत्स्वरूप इति यावत् । सकलजी-
वलोको यस्य तस्य संबोधनम् । ते तव लोकान्तरगतस्यापि भवान्तरप्राप्तस्यापि विनाशाय मरणायाहमेव राक्ष-
स्युपजाता प्रादुर्भूता । दग्धप्रजापतेर्भस्मीभूतविधातुर्मन्निर्माण मज्जनने दीर्घजीवितप्रदाने च चिरंजीवित्ववि-
तरणे चेयदेवैतावदेव प्रयोजनं कृत्यं निष्पन्नं संजातं यत्पुनःपुनस्ते व्यापादनं मारणम् । स्वयमात्मना हत्वा चाहं
पापकारिणी कमुपालभे । कस्योपालम्भं ददामीत्यर्थः । किं ब्रवीमि किं वच्मि । किमाक्रन्दाम्याक्रन्दं करोमि ।
 
टिप्प० - 1 भगवन् कस्य दृष्टान्तः ? अस्तु सनिदर्शनम् निदर्शनेन अभिज्ञानेन ( अयं चन्द्र एव,
यतो हि चन्द्रापीडेति नामाऽस्याभिज्ञानम् इति ) सहितम्, इत्यर्थः । 2 'देवस्य चन्द्रमसः' इति स्यात् ।
वस्तुतस्तु – 'लानीतश्चन्द्रमसोवतार : ' इत्येव पाठः । 3 बहुवचनक्षेपो निरर्थकः । 'जन्मान्तरेऽपि
इत्येव पाठः ।
 
पाठा० - १ आतिम्. २ तस्यैव परमोपकारिणः ३ अधःस्थितः ४ तुरंगमत्वेन. ५ नैवोपयाता. ६ तदेव.
७ प्राक्तनादेव. ८ एतच्छ्रुत्वा महाता. ९ कथं लोकान्तर १० किम्, ११ कम्. १२ ब्रवीमि कस्यै कथयामि, १३ कम्.